वैशम्पायनः-
ततोऽवतीर्णं रङ्गस्य मध्यं पाण्डवमध्यमम् ।
उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च ।
दृष्ट्वा सम्प्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् ।
केचिदासन्विमनसः केचिदासन्मुदाऽन्विताः ।
आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः ॥
यत्कर्णशल्यप्रमुखैः पार्थिवैर्लोकविश्रुतैः ।
नानतं बलवद्भिर्हि धनुर्वेदपरायणैः ॥
तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा ।
द्विजमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः ॥
सज्यं चेत्कृतवानेषु विद्धं लक्षं कथं भवेत् ॥
अपहास्या भविष्यन्ति ब्राह्मणास्सर्वराजसु ।
कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते ॥
यद्येष हर्षाद्दर्पाद्वा यदि वा ब्रह्मचापलात् ।
प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत् ॥
नापहास्या भविष्यामो न च लाघवमास्थिताः ।
न च विद्वेष्यतां लोके गमिष्यामो महीक्षिताम् ॥
केचिदाहुर्युवा श्रीमान्नागराजवरोपमः ।
पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव ।
सम्भाव्यं तस्य कर्मेदमुत्साहाच्चानुमीयते ॥
शक्तिरस्य महोत्साहा न ह्यशक्तस्स्वयं व्रजेत् ॥
न च तद्विद्यते किञ्चित्कर्म लोकेषु यद्भवेत् ।
ब्राह्मणानामसाध्यं वा धृष्णुस्स्थास्नुश्चरिष्णु वा ॥
अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः ।
दुर्बला हि बलीयांसः विप्रा हि ब्रह्मतेजसा ॥
ब्राह्मणो नावमन्तव्यस्सदसद्वा समाचरन् ।
सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् ॥
धनुर्वेदे च वेदे च योगेषु विविधेषु च ।
न तं पश्यामि मेदिन्यां ब्राह्मणोऽभ्यधिको भवेत् ॥
मन्त्रयोगबलेनापि महताऽऽत्मबलेन वा ।
जृम्भयेयुरमुं लोकमथवा द्विजसत्तमाः ॥
एवं तेषां विलपतां विप्राणां विविधा गिरः ।
अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः ।
अर्जुनः पाण्डवश्रेष्ठो धृष्टद्युम्नमथाब्रवीत् ॥
एतद्धनुर्ब्राह्मणानां सज्यं कर्तुमलं नु किम् ।
तस्य तद्वचनं श्रुत्वा धृष्टद्युम्नोऽब्रवीद्वचः ॥
ब्राह्मणो वाऽथ राजन्यो वैश्यो वा शूद्र एव वा ।
एतेषां यो धनुश्श्रेष्ठं सज्यं कुर्याद्द्विजोत्तम ॥
तस्मै प्रदेया भगिनी सत्यमुक्तं मया वचः ॥
तस्य तद्वचनं श्रुत्वा प्रययौ ब्राह्मणैर्वृतः ।
ततः पश्चान्महातेजाः पाण्डवो रणदुर्जयः ॥
स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत् ।
प्रणम्य शिरसा हृष्टो जगृहे च परन्तपः ॥
सज्यं च चक्रे निमिषान्तरेण शरांश्च जग्राह दशार्धसङ्ख्यान् ।
विव्याध लक्ष्यं निपपात तच्च छिद्रेण भूमौ सहसाऽतिविद्धम् ॥
ततोऽन्तरिक्षे च बभूव नादस्समाजमध्ये च महान्निनादः ।
पुष्पाणि दिव्यानि ववर्ष देवः पार्थस्य मूर्ध्नि द्विषतां निहन्तुः ॥
चेलानि विव्यधुश्चात्र ब्राह्मणाश्च सहस्रशः ।
ननन्दुर्ननृतुश्चात्र धून्वन्तो व्यजनानि च ॥
न्यपतंश्चात्र नभसस्समन्तात्पुष्पवृष्टयः ।
शङ्खानि चैव तूर्याणि वादकाश्चाभ्यवादयन् ।
सूतमागधसङ्घाश्चाप्यस्तुवंस्तत्र सुस्वराः ॥
तस्मिंस्तु शब्दे महति प्रवृद्धे युधिष्ठिरो धर्मभृतां वरिष्ठः ।
आवासमेवाभिजगाम शीघ्रं सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् ॥
विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा पार्थं च शक्रप्रतिमं निरीक्ष्य ।
स्वभ्यस्तरूपापि नवेव नित्यं विनाऽपि हासं हसतीव कन्या ॥
मदादृतेऽपि स्खलतीव भावैर्वाचा विना व्याहरतीव दृष्ट्या ।
आदाय शुक्लं वरमाल्यदाम जगाम कुन्तीसुतमुत्स्मयन्ती ॥
समेत्य तस्योपरि सोत्ससर्ज समागतानां पुरतो नृपाणाम् ।
विन्यस्य मालां विनयेन तस्थौ विहाय राज्ञस्सहसा नृपात्मजा ॥
शचीव देवेन्द्रमथाग्निदेवं स्वाहेव लक्ष्मीश्च यथा मुकुन्दम् ।
उषेव सूर्यं मदनं रतीव महेश्वरं पर्वतराजपुत्री ॥
रामं यथा मैथिलराजपुत्री भैमी यथा राजवरं नलं हि ॥
तं दृष्ट्वा नृपतिः प्रीतो बभूवारिनिषूदनम् ।
सह सैन्येन पार्थस्य साहाय्यार्थमियेष सः ॥
वैशम्पायनः-
तस्मै दित्सति कन्यां तु ब्राह्मणाय महात्मने ।
कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात् ॥
अस्मानयमतिक्रम्य तृणीकृत्य च सङ्गतान् ।
दातुमिच्छति विप्राय द्रौपदीं योषितां वराम् ।
अवज्ञायेह पार्षतः कार्यं केन महात्मनाम् ॥
ते हन्मैनं दुरात्मानं योऽयमस्मान्न मन्यते ।
न चार्हत्येष सत्कारं न हि वृद्धो मतो गुणैः ॥
हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम् ॥
अयं हि सर्वानाहूय सत्कृत्य च नराधिपान् ।
गुणवद्भोजयित्वा तु ततः पश्चाद्विनिन्दति ॥
अस्मिन्राजसमावाये देवानामिव सन्नये ।
किमयं सदृशं कञ्चिन्नृपतिं नैव दृष्टवान् ॥
न च विप्रेष्वधीकारो विद्यते वरणं प्रति ।
स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः ॥
अथवा यदि कन्येयं न च किञ्चिद्बुभूषति ।
तिलशः प्रविभज्यैनां याम राष्ट्राणि पार्थिवाः ॥
ब्राह्मणो यदि वा बाल्याल्लोभाद्वा कृतवानिदम् ।
विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथञ्चन ॥
ब्राह्मणार्थं हि नो राज्यं जीवितं हि वसूनि च ।
पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम् ॥
अवमानवशाद्रोषात्स्वधर्मस्य च रक्षणात् ।
स्वयंवराणां चान्योन्यं मा भूदेवंविधा गतिः ॥
इत्युक्त्वा राजशार्दूला रुष्टाः परिघबाहवः ।
द्रुपदं सञ्जिघृक्षन्तस्सायुधास्समुपाद्रवन् ॥
तान्गृहीतशरान्पापान्क्रुद्धानापततो भृशम् ।
द्रुपदो वीक्ष्य सन्त्रासाद्ब्राह्मणाञ्छरणं गतः ॥
न भयान्नापि कार्पण्यान्न प्राणपरिरक्षणात् ।
जगाम द्रुपदो विप्रान्क्षेमार्थी सम्प्रपद्यते ॥
वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान् ।
पाण्डुपुत्रौ महावीर्यौ प्रतियतुररिन्दमौ ॥
ततस्समानेदुरुदायुधास्ते महीक्षितो बद्धतलाङ्गुलित्राः ।
जिघांसमानाः कुरुराजपुत्रावमर्षयन्तोऽर्जुनभीमसेनौ ॥
ततस्तु भीमोऽद्भुतवीर्यकर्मा महाबलो वज्रसमानवेगः ।
उत्पाट्य दोर्भ्यां द्रुममेकवीरो निष्पत्रयामास यथा गजेन्द्रः ॥
तं वृक्षमादाय रिपुप्रमाथी दण्डीव दण्डं पितृराज उग्रम् ।
तस्थौ समीपे पुरुषर्षभस्य पार्थस्य पार्थः पृथुदीर्घबाहुः ॥
तदन्तरे धर्मरतोऽपि गत्वा विज्ञाय कुन्तीं कुशलीं क्षणेन ।
आगम्य तस्थौ सह सोदराभ्यां पुरुषर्षभाभ्यां पुरुषप्रवीरः ॥
तदाऽब्रवीज्जिष्णुरुदारकर्मा मा सिंहनादं कुरु पूर्वजेह ।
मा घोरतां दर्शय शत्रुमध्ये साधारणं योधय तावदार्य ॥
तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धिर्जिष्णोस्स हि भ्रातुरचिन्त्यकर्मा ।
दामोदरो भ्रातरमुग्रवीर्यं हलायुधं वाक्यमिदं बभाषे ॥
वासुदेवः-
य एष सिंहर्षभदृप्तगामी महद्धनुः कर्षति तालमात्रम् ।
एषोऽर्जुनो नात्र विचार्यमस्ति यद्यस्मि सङ्कर्षण वासुदेवः ॥
य एष वृक्षं तरसाऽवरुध्य राज्ञां निकारे सहसा निरुद्धः ।
वृकोदरो नान्य इहैतदद्य कर्तुं समर्थो भुवि मर्त्यधर्मः ॥
योऽसौ पुरस्तात्कमलायताक्षः कुकर्महा सिंहगतिर्नृवीरः ।
धीरप्रचण्डोज्ज्वलचारुघोणो विनिस्सृतस्सोऽच्युत धर्मराजः ॥
यौ तौ कुमाराविव कार्तिकेयौ द्वावाश्विनेयाविति मे वितर्कः ।
मुक्ता हि तस्माज्जतुवेश्मदाहान्मया श्रुताः पाण्डुसुताः पृथा च ॥
वैशम्पायनः-
यथा नृपाः पाण्डवमाजिमध्ये तं प्राब्रवीच्चक्रधरो हलायुधम् ।
बलं विजानन्पुरुषोत्तमस्तदा न कार्यमार्येण च सम्भ्रमस्त्वया ।
भीमानुजो योधयितुं समर्थ एको हि पार्थस्ससुरासुरान्बहून् ॥
अलं विजेतुं किमु मानुषान्नृपान्साहाय्यमस्मान्यदि सव्यसाची ।
स वाञ्छति स्म प्रयताम वीर पराभवः पाण्डुसुते न चास्ति ॥ ॥