धृष्टद्युम्नः-
दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः ।
विविंशतिर्विकर्णश्च सहो दुश्शासनस्समः ॥
युयुत्सुर्वायुवेगश्च भीमवेगश्च वीर्यवान् ।
उग्रायुधो बलाकिश्च कनकायुर्विरोचनः ॥
सुकुण्डकश्चित्रसेनस्सुवर्चाः कनकध्वजः ।
नन्दको बाहुशाली च कुण्डली विकटस्तथा ॥
विन्दश्चाप्यनुविन्दश्च सदीपी विकलः करी ।
एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः ।
कर्णेन सहिता वीरास्त्वदर्थं समुपागताः ॥
शतसङ्ख्या महात्मानस्समेता देवरूपिणः ।
शकुनिश्चाचलश्चैव वृषकोऽथ महारथः ॥
एते गान्धारराजस्य सुतास्सर्वे समागताः ॥
अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ ।
वार्धक्षेमिस्सुवर्चाश्च सेनाबिन्दुश्च वीर्यवान् ॥
अभिभूस्सह पुत्रेण वसुना च सुवर्चसा ।
सुमित्रस्सुकुमारश्च वृत्तस्सत्यधृतिस्सदा ॥
सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तदा ।
अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः ॥
समुद्रसेनश्चन्द्रसेन इन्द्रसेनश्च पार्थिवः ।
जरासन्धस्सपुत्रश्च सुदण्डो दण्ड एव च ॥
पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान् ।
कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिर्महान् ॥
मद्रराजस्तथा शल्यस्सहपुत्रो महाबलः ।
रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च ॥
कौरव्यस्सोमदत्तश्च पुत्रास्त्वस्य महारथाः ।
समवेतास्त्रयश्शूरा भूरिर्भूरिश्रवाश्शलः ॥
सुदक्षिणश्च काम्भोजो दृढधन्वा च कौरवः ।
बृहद्बलस्सुषेणश्च शिबिरौशीनरस्तथा ॥
पाण्ड्यकेरलचोलेन्द्रास्त्रयस्त्रेताग्नयो यथा ।
आसनेषु विराजन्ते आशामागस्त्यमाश्रिताः ॥
सङ्कर्षणो रौहिणेयो वासुदेवश्च वीर्यवान् ।
साम्बश्च चारुदेष्णश्च सारणोऽथ गदस्तथा ॥
अक्रूरस्सात्विकश्चैव युयुधानश्च सात्यकिः ।
कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च ॥
विडूरथश्च कण्वश्च समीकस्सारिमेजयः ।
वीरो धनपतिश्चैव बाह्लिवाङ्गारकस्तथा ।
उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः ॥
भगीरथो बृहत्क्षत्रस्सैन्धवश्च बृहद्रथः ॥
जयद्रथो बाह्लिकश्च श्रुतायुरथ वीर्यवान् ।
उल्मुकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ ॥
वत्सराजश्च धृतिमान्कोसलाधिपतिर्महान् ।
कर्णश्च सह पुत्रेण वृषसेनश्च वीर्यवान् ।
बृहद्बलश्च बलवान्राजा चैवाथ दुर्जयः ॥
दमघोषात्मजश्चैव शिशुपालो महाबलः ।
चेदीनामधिपो वीरो बलवानन्तकोपमः ॥
एते चान्ये च बहवो नानाजनपदेश्वराः ।
त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि ॥
एते विध्यन्ति विक्रान्तास्त्वदर्थे लक्ष्यमुत्तमम् ।
वेद्धा तु यो भवेदेषां तं वरं वरयस्व वै ॥
वैशम्पायनः-
तेऽलङ्कृताः कुण्डलिनो युवानः परस्परं स्पर्धमानास्समेताः ।
अस्त्रं बलं चात्मनि मन्यमानास्सर्वें समुत्पेतुरहङ्कृतेन ॥
वीर्येण रूपेण कुलेन चैव शीलेन वित्तेन च यौवनेन ।
समिद्धदर्पा मदवेगभिन्ना मत्ता यथा हैमवता गजेन्द्राः ॥
परस्परं स्पर्धया प्रेक्षमाणाः सङ्कल्पजेनाभिपरिप्लुताङ्गाः ।
कृष्णा ममैवेत्यभिभाषमाणा नृपास्समुत्पेतुरथासनेभ्यः ॥
ते क्षत्रिया रङ्गगतास्समेता जिहीर्षमाणा द्रुपदात्मजां ताम् ।
चकाशिरे पर्वतराजकन्यामुमां यथा देवगणास्समेताः ॥
कन्दर्पबाणाभिनिपीडिताङ्गाः कृष्णागतैस्तद्धृदयैर्नरेन्द्राः ।
रङ्गावतीर्णा द्रुपदात्मजार्थं द्वेष्यान्हि चक्रुस्सुहृदोऽपि सर्वे ॥
अथाययुर्देवगणाविमानै रुद्रादित्या वसवोऽथाश्विनौ च ।
साध्याश्च सर्वे मरुतस्तथैव धर्मं पुरस्कृत्य धनेश्वरं च ॥
दैत्यास्सुपर्णाश्च महोरगाश्च देवर्षयो गुह्यकाश्चारणाश्च ।
विश्वावसुर्नारदः पर्वतश्च गन्धर्वमुख्यास्सहसाऽप्सरोभिः ॥
हलायुधस्तत्र च केशवश्च वृष्ण्यन्धकाश्चैव यथाप्रधानाः ।
प्रेक्षाम्बभूवुर्यदुपुङ्गवास्ते स्थिताहि कृष्णस्य मते बभूवुः ॥
दृष्ट्वा हि तान्मत्तगजेन्द्ररूपान्पद्माभिपन्नानिव वारणेन्द्रान् ।
भस्मावृताङ्गानिव हव्यवाहान्पार्थान्प्रदध्यौ स यदुवीरः ॥
शशंस रामाय युधिष्ठिरं च भीमं सजिष्णुं यमजौ च वीरौ ।
शनैश्शनैस्तांश्च निरीक्ष्य रामो जनार्दनं प्रीतमना ददर्श ॥
अन्ये तु वीरा नृपपुत्रपौत्राः कृष्णागतैर्नेत्रमनस्स्वभावैः ।
व्यायच्छमाना ददृशुस्समन्तात्सन्दष्टताम्रोज्वलदन्तवक्त्राः ॥
तथैव वीराः पृथुबाहुवर्णाः पार्था यमौ चैव महानुभावौ ।
तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे कन्दर्पबाणाभिहता बभूवुः ॥
देवर्षिगन्धर्वसमाकुलं तत्सुपर्णनागासुरयक्षजुष्टम् ।
दिव्येन गन्धेन समाकुलं च दिव्यैश्च माल्यैरवकीर्यमाणम् ॥
समाहतैर्दुन्दुभिभिश्च राजन्रराज तत्सङ्कुलमन्तरिक्षे ॥
विमानसम्बाधमभूत्समन्तात्सवेणुवीणापणवाभिनादितम् ।
समाजवाटोपरि संस्थितानां मेघैस्समन्तादिव गर्जितानाम् ॥
ततस्तु ते राजगणाः क्रमेण कृष्णानिमित्तं समीहमानाः ।
तत्कार्मुकं संहननोपपन्नं सज्यं न शेकुस्तरसाऽपि कर्तुम् ॥
ते विक्रमन्तस्स्फुरता दृढेन निष्पिष्टमाणा धनुषा नरेन्द्राः ।
विवेष्टमाना धरणीतलस्था दृश्यन्ति तत्र प्रतिभग्नदर्पाः ॥
हाहाकृतं तद्धनुषा दृढेन विस्रस्तनानाभरणाम्बरस्रजः ।
कृष्णानिमित्तं च निवृत्तभावं राज्ञां तदा मण्डलमार्तमासीत् ॥
एवं तेषु निवृत्तेषु क्षत्रियेषु समन्ततः ।
चेदीनामधिपो वीरो बलवानन्तकोपमः ॥
दमघोषात्मजो वीरश्शिशुपालो महाद्युतिः ।
तमप्यारोप्यमाणं तु माषमात्रेऽह्यताडयत् ॥
ताडितस्य धनुष्कोट्या पपातोर्व्यां वियन्मुखः ।
संरम्भात्क्रोशमात्रे तु राजानोऽन्ये भयातुराः ॥
ततो राजा जरासन्धो महावीर्यो महाबलः ।
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः ॥
मत्तवारणताम्राक्षो मत्तवारणवेगवान् ।
धनुषोऽभ्याशमागत्य तस्थौ गिरिरिवाचलः ।
धनुरारोप्यमाणं तु सर्षमात्रेऽभ्यताडयत् ॥
धनुषा विध्यमानस्तु बाहुभ्यामगमन्महीम् ।
तत उत्थाय राजा स स्वराष्ट्राण्यभिजग्मिवान् ॥
ततश्शल्यो महावीर्यो मद्रराजो महाबलः ।
तमथारोप्यमाणं तु मुद्गमात्रेऽभ्यताडयत् ॥
स पपात महीं रङ्गादर्धयोजनदूरतः ।
तथैवागात्स्वकं राज्यं पश्चादनवलोकयन् ॥
ततो दुर्योधनो राजा धार्तराष्ट्रः परन्तपः ।
मानी दृढास्त्रसम्पन्नस्सर्वैश्च नृपलक्षणैः ॥
उत्थितस्सहसा तत्र भ्रातृमध्ये महाबलः ।
विलोक्य द्रौपदीं हृष्टो धनुषोऽभ्याशमागमत् ॥
स बभौ धनुरादाय शक्रश्चापधरो यथा ॥
आरोप्यमाणं तद्राजा धनुषा बलिना तदा ।
उत्तानशय्यमपतदङ्गुल्यन्तरताडितः ।
स ययौ ताडितस्तेन व्रीडन्निव नराधिपः ॥
ततो वैकर्तनः कर्णो वृषा वै सूतनन्दनः ।
धनुरभ्याशमागम्य तोलयामास तद्धनुः ॥
तं चाप्यारोप्यमाणं तु केशमात्रेऽभ्यताडयत् ॥
त्रैलोक्यविजयी कर्णस्सत्वे त्रैलोक्यविश्रुतः ।
धनुषा सोऽपि निर्धूत इति सर्वे भयाकुलाः ॥
एवं कर्णे विनिर्धूते धनुषाऽन्ये नृपोत्तमाः ।
चक्षुर्भिरपि नापश्यन्विनम्रमुखपङ्कजाः ॥
दृष्ट्वा कर्णं विनिर्धूतं लोकवीरा नृपोत्तमाः ।
निराशा धनुषोद्धारे द्रौपदीसङ्गमेऽपि च ॥
तस्मिंस्तु सम्भ्रान्तजने समाजे निक्षिप्तशस्त्रेषु जनाधिपेषु ।
कुन्तीसुतो जिष्णुरियेष कर्तुं सज्यं धनुस्तत्सशरं च वीरः ॥
ततो वरिष्ठस्सुरदानवानामुदारधीर्वृष्णिकुलप्रवीरः ।
जहर्ष रामेण स पीड्य हस्तं हस्तं सुतां पाण्डुसुतस्य मत्वा ॥
न जज्ञुरन्ये नृपवीरमुख्यास्सञ्छन्नरूपानथ पाण्डुपुत्रान् ।
विना हि भीष्मं च यदुप्रवीरौ धौम्यं हि धर्मं सह सोदरांश्च ॥ ॥