वैशम्पायनः-
एवं मत्वा प्रयातास्ते पाण्डवा जनमेजय ।
ब्राह्मरूपधरास्सर्वे जटिला ब्रह्मचारिणः ।
राजन्दक्षिणपाञ्चालान्द्रुपदेनाभिरक्षितान् ॥
ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम् ।
ददृशुः पाण्डवा राजन्पथि द्वैपायनं तदा ॥
तस्मै यथावत्सत्कारं कृत्वा तेन च सान्विताः ।
कथयित्वाऽभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम् ॥
पश्यन्तो रमणीयानि वनानि च सरांसि च ।
तत्र तत्र वसन्तश्च शनैर्जग्मुर्महराथाः ॥
स्वाध्यायवन्तो मधुराः पाण्डवाः प्रियवादिनः ।
आनुपूर्व्येण सम्प्राप्ताः पाञ्चालान्कुरुनन्दनाः ॥
ते तु दृष्ट्वा पुरं तस्य स्कन्धावारं च पाण्डवाः ।
कुम्भकारस्य शालायां निवेशं चक्रिरे तदा ॥
तत्र भैक्षं समाजह्रुर्ब्राह्मीं वृत्तिं समाश्रिताः ।
तांश्च प्राप्तांस्तथा वीराञ्जज्ञिरे न नराः क्वचित् ॥
यज्ञसेनस्य कामास्तु पाण्डवाय किरीटिने ।
कृष्णां ददानि च सदा न चैतद्विवृणोति सः ।
जामातृबलसंयोगं मेने हि बलवत्तरम् ॥
अन्वेषमाणः पाञ्चालः कौन्तेयान्जनमेजय ।
दृढं धनुरनायम्यं कारयामास भारत ॥
यन्त्रं वैहायसं चापि कारयामास कृत्रिमम् ।
तेन यन्त्रेण सहितं कारयामास काञ्चनम् ॥
इदं सज्यं धनुः कृत्वा छिद्रेणानेन सायकैः ।
अतीत्य लक्ष्यं यो वेद्धा स लब्धा च सुतामिति ।
इत्येवं द्रुपदो राजा सर्वतस्समघोषयत् ॥
तच्छ्रुत्वा पाण्डवास्सर्वे समीयुस्तत्र भारत ॥
ऋषयश्च महात्मानस्स्वयंवरदिदृक्षया ।
दुर्योधनपुरोगाश्च सकर्णकुरवो नृपाः ॥
ब्राह्मणाश्च महाभागा देशेभ्यस्समुपागताः ।
ते ह्यर्चिता नरेन्द्रेण द्रुपदेन महात्मना ॥
ततः पुरवरश्रेष्ठे सागरोद्धूतनिस्स्वने ।
शिंशुमारगिरिं प्राप्य न्यविशन्त महारथाः ॥
प्रागुत्तरे च नगराद्भूमिभागे समे शुभे ।
समाजवाटश्शुशुभे भवनैस्सर्वतो वृतः ॥
प्रासादपरिघोपेतो द्वारतोरणमण्डितः ।
वितानेन विचित्रेण सर्वतस्समलङ्कृतः ॥
तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः ।
चन्दनोदकसिक्तश्च माल्यदामैश्च शोभितः ॥
कैलासशिखरप्रख्यैर्नभस्स्थलविलेखिभिः ।
सर्वतस्संवृतैर्नद्धः प्रासादैस्सुकृतोच्छ्रयैः ॥
सुवर्णजालसंवीतैर्मणिकुट्टिमभूषितैः ।
सुखारोहणसोपानैर्महासनपरिच्छदैः ॥
अग्राम्यसमवच्छन्नैरगुरूत्तमधूपितैः ।
हंसवर्णैश्च बहुभिरायोजनसुगन्धिभिः ॥
असम्बाधपथद्वारैश्शयनासनशोभितैः ।
बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव ॥
तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः ।
स्पर्धमानास्तदाऽन्योन्यं निषेदुस्सर्वपार्थिवाः ॥
तत्रोपविष्टा ददृशुर्महासत्वान्पृथग्जनाः ।
राजसिंहान्महाभागान्मृष्टस्रगनुलेपनान् ॥
महाप्रसादान्ब्राह्मण्यान्स्वराष्ट्रपरिरक्षिणः ।
प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिश्शुभैः ॥
ततो मञ्चातिमञ्चेषु पौरजानपदा जनाः ।
उपोपविविशुस्सर्वे याज्ञसेनीदिदृक्षवः ॥
ब्राह्मणैस्त्वेव सहिताः पाण्डवास्समुपाविशन् ।
ऋद्धिं पञ्चालराजस्य पश्यन्तस्तामनुत्तमाम् ॥
ततस्समाजो ववृधे स राजन्दिवसान्बहून् ।
रत्नप्रदानबहुलश्शोभितो नटनर्तकैः ॥
वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे ।
आप्लुता शुद्धवसना सर्वाभरणभूषिता ॥
वीरकां स्रजमादाय काञ्चनैस्समलङ्कृता ।
अवतीर्णा ततो रङ्गे द्रौपदी द्रुपदात्मजा ॥
पुरोहितस्सोमकानां मन्त्रविद्ब्राह्मणश्शुचिः ।
परिस्तीर्य जुहावाग्निमाज्येन विधिना तदा ॥
सन्तर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च ।
वारयामास सर्वाणि वादित्राणि समन्ततः ॥
निश्शब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशाम्पते ।
रङ्गमध्यं गतस्तत्र मेघगम्भीरया गिरा ।
वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम् ॥
धृष्टद्युम्नः-
इदं धनुर्लक्ष्यमिमे च बाणाश्शृण्वन्तु मे क्षत्रियास्सर्व एव ।
यन्त्रच्छिद्रेणाभ्यतिक्रम्य लक्षं समर्पयध्वं खगमैर्दशार्धैः ॥
एतत्कर्ता कर्म सुदुष्करं यः कुलेन रूपेण बलेन युक्तः ।
तस्याद्य भार्या भगिनी ममेयं कृष्णा भवित्री न मृषा ब्रवीमि ॥
वैशम्पायनः-
तानेवमुक्त्वा द्रुपदस्य पुत्रः पश्चादिदं द्रौपदीमित्युवाच ।
नाम्ना च गोत्रेण च कर्मणा च सङ्कीर्तयंस्तान्नृपतीन्समेतान् ॥