अर्जुनः
अस्माकमनुरूपं वै यस्स्याद्गन्धर्वसत्तम ।
पुरोहितं ममाचक्ष्व सर्वं हि विदितं तव ॥
गन्धर्वः
यवीयान् देवलस्यैष वने भ्राता तपस्यति ।
धौम्य उत्कचके तीर्थे तं वृणीष्व यदीच्छसि ॥
वैशम्पायनः
ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि ।
गन्धर्वाय ददौ प्रीतो वचनं चेदमब्रवीत् ॥
त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम ।
कार्यकाले ग्रहीष्यामि स्वस्ति तेऽस्त्विति चाब्रवीत् ॥
तेऽन्योन्यमभिसम्पूज्य गन्धर्वः पाण्डवाश्च ह ।
रम्याद्भागीरथीतीराद् यथाकामं प्रतस्थिरे ॥
तत उत्कचकं तीर्थं गत्वा धौम्याश्रमान्तिके ।
तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत ॥
तांश्चापि प्रतिजग्राह सर्ववेदविदां वरः ।
पाद्येन फलमूलेन पौरोहित्येन चैव ह ॥
तेन चाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः ।
ब्राह्मणं तं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरे ॥
मातृषष्ठास्ततस्तेन गुरुणा सह सङ्गताः ।
नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः ॥
स हि वेदार्थतत्त्वज्ञस् तेषां गुरुरुदारधीः ।
वेदविच्चैकवाग्मी च धौम्यश्श्रीमान् द्विजोत्तमः ॥
तेजसा चैव बुद्ध्या च रूपेण यशसा श्रिया ।
मन्त्रैश्च विविधैर्धौम्यस् तुल्य आसीद्बृहस्पतेः |
स चापि विप्रस्तान् मेने स्वभावाभ्यधिकान् भुवि ||
तेन धर्मविदा पार्था याज्यास्सर्वविदा पुरा |
मेनिरे सहिता वीराः प्राप्तं राज्यं स्वधर्मतः ||
बुद्धिवीर्यबलोत्साहैर् युक्ता देवा इवापरे |
कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः ||
मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम् ॥