अर्जुनः
राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे ।
कारणं किं पुरस्कृत्य भार्या वै सन्नियोजिता ॥
जानता च परं धर्मं लौक्यं तेन महर्षिणा ।
अगम्यागमनं कस्माद् वसिष्ठेन महात्मना |
कृतं तेन पुरा सर्वं वक्तुमर्हसि पृच्छतः ॥
गन्धर्वः
धनञ्जय निबोधेदं यन्मां त्वं परिपृच्छसि ।
वसिष्ठं प्रति दुर्धर्ष तथा मित्रसहं नृपम् ॥
कथितं ते मया सर्वं यथा शप्तस्स पार्थिवः ।
शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना ॥
स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः ।
निर्जगाम पुराद्राजन् सहदारः परन्तपः ॥
अरण्यं निर्जनं गत्वा सदारः परिचक्रमे ||
नानामृगगणाकीर्णं नानासत्वसमाकुलम् |
नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम् ||
अरण्यं घोरसन्नादं शापग्रस्तः परिभ्रमत् |
स कदाचित् क्षुधाऽऽविष्टो मृगयन् भक्ष्यमात्मनः ||
ददर्श सुपरिक्लिष्टः कस्मिंश्चित् सुमनोरमे |
ब्राह्मणं ब्राह्मणीं चैव मिथुनायोपसङ्गतौ |
तौ समीक्ष्य च वित्रस्तावकृतार्थौ प्रधावितौ ॥
तयोः प्रद्रवतोर्विप्रं जगृहे नृपतिर्बलात् ।
दृष्ट्वा गृहीतं भर्तारम् अथ ब्राह्मण्यभाषत ॥
ब्राह्मणी
शृणु राजन् वचो मह्यं यत्त्वां वक्ष्यामि सुव्रत ।
आदित्यवंशप्रभवस् त्वं हि लोके च विश्रुतः ॥
अप्रमत्तस्स्थितो धर्मे गुरुशुश्रूषणे रतः ।
शापोपहत दुर्धर्ष न पापं कर्तुमर्हसि ॥
ऋतुकाले तु सम्प्राप्ते भर्तृाऽहं समुपागता ।
अकृतार्थिन्यहं भद्र प्रसवार्थश्च मे महान् ॥
प्रसीद नृपतिश्रेष्ठ भर्ता मम विसृज्यताम् ||
गन्धर्वः
एवं विक्रोशमानायां तस्यां स सुनृशंसकृत् |
भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम् ||
तस्याः क्रोधाभिभूतायास् तदाऽश्रूण्यपतन् भुवि |
सोऽग्निस्समभवद्दीप्तस् तं च देशं व्यदीपयत् ||
ततस्सा शोकसन्तप्ता भर्तृव्यसनदुःखिता |
कल्माषपादं राजर्षिम् अशपद्ब्राह्मणी रुषा ||
ब्राह्मणी
यस्मान्ममाकृतार्थायास् त्वया क्षुद्र नृशंसवत् |
प्रेक्षन्त्या भक्षितो मेऽद्य प्रभुर्भर्ता महायशाः ||
तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः |
पत्नीमृतावनुप्राप्य सम्यक् त्यक्ष्यसि जीवितम् ।
तेन प्रसाद्यमाना सा प्रसादमकरोत्तदा ||
यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः |
तेन सङ्गम्य ते भार्या तनयं जनयिष्यति ||
स ते वंशकरः पुत्रो भविष्यति नृपाधम ॥
गन्धर्वः
एवं शप्त्वा तु राजानं सा तदाऽऽङ्गिरसी शुभा ।
तस्यैव सन्निधौ दीप्तं प्रविवेश हुताशनम् ॥
वसिष्ठश्च महाभागस् सर्वमेतदपश्यत ।
ज्ञानयोगेन महता तपसा च परन्तप ॥
मुक्तशापश्च राजर्षिः कालेन महता ततः ।
ऋतुकाले निपतितो भार्यया सन्निवारितः |
न हि सस्मार नृपतिस् तं शापं काममोहितः ||
देव्यास्सोऽथ वचश्श्रुत्वा विसञ्ज्ञस्समपद्यत |
तं शापमनुसंस्मृत्य पर्यतप्यद्भृशं तदा ||
एतस्मात् कारणाद्राजा वसिष्ठं संन्ययोजयत् ।
स्वदारे भरतश्रेष्ठ शापदोषसमन्वितः ॥
यदा कल्माषपादस्तु राक्षसत्वमवाप सः |
तदा वसिष्ठः कुरुणा यज्ञार्थे स वृतोऽभवत् ||
यदा कल्माषपादस्तु राक्षसत्वं विसृष्टवान् |
तदा तेनैव राज्ञा तु वसिष्ठस्स वृतोऽभवत् ||