ब्राह्मणी
नाहं मुष्णामि वस्तात दृष्टिं नास्मि रुषाऽन्विता ।
अयं तु भार्गवो नाम ऊरुजः कुपितो ध्रुवम् ॥
तेन चक्षूंषि वस्तात कुपितेन महात्मना ।
स्मरता निहतान् बन्धून् आर्तानिह कथञ्चन ॥
गर्भानपि यदा यूयं भृगूणां हत पुत्रकाः ।
तदाऽयमूरुणा गर्भो मया वर्षशतं धृतः ॥
षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव च ।
विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया ॥
सोऽयं पितृवधान्नूनं क्रोधाद्वो हन्तुमिच्छति ।
तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः ॥
तमेव यूयं याचध्वम् और्वं मम सुतोत्तमम् ।
अयं वः प्रणिपातेन तुष्टो दृष्टीः प्रदास्यति ॥
गन्धर्वः
एवमुक्तास्ततस्सर्वे राजानस्ते तमूरुजम् ।
ऊचुः प्रसीदेति तदा प्रसादं च चकार सः ॥
अनेनैव तु विख्यात नाम्ना लोकेषु सत्तमः ।
स और्व इति विख्यात ऊरुं भित्त्वा विनिस्सृतः |
चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस्ततो नृपाः ||
भार्गवस्तु मुनिर्नूनं मेने लोके पराभवम् ॥
स चक्रे तात लोकानां विनाशाय मुनिस्तदा ।
सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः ॥
इच्छन्नपचितिं कर्तुं भृगूणां भृगुसत्तमः ।
सर्वलोकविनाशाय तेपे तूग्रं परं तपः ॥
तापयामास ताँल्लोकान् ससुरासुरमानवान् ।
तपसोग्रेण महता मानयिष्यन् पितामहान् ॥
ततस्तं पितरस्तात विज्ञाय भृगुसत्तमम् ।
पितृलोकादुपागम्य सर्व ऊचुरिदं वचः ॥
पितरः
और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक ।
प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः ॥
तादृशैर्हि तदा तात भृगुभिर्भावितात्मभिः ।
वधोऽप्युपेक्षितस्सर्वैः क्षत्रियाणां विहिंसताम् ॥
आयुषा च प्रकृष्टेन यदा नः खेद आविशत् ।
तदाऽस्माभिर्वधस्तात क्षत्रियैरीप्सितस्स्वयम् ॥
निखातं तद्धि वै वित्तं कस्मिंश्चिद्गृगुवेश्मनि ।
वैरायैव ततो न्यस्तं क्षत्रियान् कोपयिष्णुभिः |
किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजर्षभ ||
यदा तु मृत्युरादातुं न शक्नोति च सर्वशः ।
तदाऽस्माभिरयं दृष्ट उपायस्तत्र धर्मतः ॥
आत्महा च पुनस्तात न लोकाँल्लभते शुभान् ।
ततोऽस्माभिस्समीक्ष्यैवम् आत्मनाऽऽत्मा विनाशितः ॥
न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि ।
नियच्छेदं मनः पापात् सर्वलोकपराभवात् ॥
न हि नः क्षत्रियाः केचिन्न लोकास्सप्त पुत्रक |
दूष्यन्ति च पुनस्तेजः क्रोधमुत्पतितं जहि ॥
और्वः
उक्तवानस्मि यां क्रोधात् प्रतिज्ञां पितरस्तथा ।
सर्वलोकविनाशाय न सा मे वितथा भवेत् ॥
वृथा रोषप्रतिज्ञोऽहं न तु जीवितुमुत्सहे ।
अनिस्तीर्णो हि मे रोषो दहेदग्निरिवारणिम् ॥
देशकालेन सञ्जातं क्रोधं यः क्षन्तुमर्हति ।
नालं स मनुजस्सम्यक् त्रिवर्गं परिरक्षितुम् ॥
स्थाने रोषः प्रयुक्तस्स्यान्नृपैस्स्वर्गजिगीषुभिः ॥
अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा ।
आरावं तु भृशं तत्र भृगूणां क्षत्रियैर्वधे ॥
सामरेऽस्मिन् यदा लोके भृगूणां क्षत्रियाधमैः ।
आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविशत् ॥
प्रकीर्णकेशाः किल मे मातरः पितरस्तथा ।
भयात् सर्वेषु लोकेषु नाधिजग्मुः परायणम् ॥
तान् भृगूणां परान् दारान् कश्चिन्नाभ्यवपद्यत ।
यदा तदा दधारेयम् ऊरुणैकेन मां शुभा ॥
प्रतिषेद्धा हि पापस्य यदा लोके न विद्यते ।
तदा सर्वेषु लोकेषु पापकृन्नोपशाम्यति ॥
यदा तु प्रतिषेद्धारं पापो न लभते क्वचित् ।
तिष्ठन्ति बहवो लोकास् तदा पापेषु कर्मसु ॥
जानन्नपि च यः पापं शक्तिमान्न नियच्छति ।
ईशस्स चापि तेनैव कर्मणा सम्प्रयुज्यते ॥
राजभिश्चेतरैश्चैव यदा वै पितरो मम ।
शक्तैर्न यतितास्त्रातुम् इष्टं मत्वेह जीवितम् ॥
अत एषामहं क्रुद्धो लोकानामीश्वरोऽद्य सन् ।
भवतां च वचो नाहम् अलं समतिवर्तितुम् ॥
मम चापि भवेदेवम् ईश्वरस्य सतो महत् ।
उपेक्षमाणस्य पुनर् लोकानां किल्बिषं भयम् ॥
यश्चायं मन्युना ह्यग्निर् लोकानादातुमिच्छति ।
दहेदेव च मामेष निगृहीतस्स्वतेजसा ॥
भवतां च विजानामि सर्वलोकहितेप्सुताम् ।
तस्माद्विदध्वं यच्छ्रेयो लोकानां मम चेप्सथ ॥
पितरः
य एष मन्युजस्तेऽग्निर् लोकानादातुमिच्छति ।
अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः |
तस्मादप्सु प्रमुञ्चेमं क्रोधाग्निं द्विजसत्तम ॥
अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ ।
मन्युजोऽग्निर्दहन्नापो लोकाश्चैवान्मयास्स्मृताः ॥
एवं प्रतिज्ञा सत्येयं भविष्यति तवानघ ।
न चैव सामरा लोका गमिष्यन्ति पराभवम् ॥
वसिष्ठः
ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये ।
उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ ॥
महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः ।
तमग्निमुद्गिरन् वक्त्रात् पिबत्यापो महोदधौ ॥
तस्मात्त्वमपि भद्रं ते न लोकान् हन्तुमर्हसि ।
पराशर परं धर्मं ज्ञात्वा ज्ञानविदां वर ॥
गन्धर्वः
एवमुक्तस्स विप्रर्षिर् वसिष्ठेन महात्मना |
नियच्छदात्मनः क्रोधं सर्वलोकपराभवात् ||
ईजे च स महातेजास् सर्ववेदविदां वरः |
ऋषी राक्षससत्रेण शाक्तेयोऽथ पराशरः ||
ततो वृद्धांश्च बालांश्च राक्षसान् स महामतिः |
ददाह वितते यज्ञे शक्तेर्वधमनुत्तस्मरन् ||
न हि तं वारयामास वसिष्ठो रक्षसां वधात् |
द्वितीयामस्य मा हन्याम् प्रतिज्ञामिति चिन्तयन् ||
त्रयाणां पावकानां स सत्रे तस्मिन् महामुनिः |
आसीत् पुरस्ताद्देवानां चतुर्थ इव पावकः ||
तेन यज्ञेन शुद्धेन हूयमानेन युक्तितः |
तद्विदीपितमाकाशं सूर्येणेव घनात्यये ||
तं वसिष्ठादयस्सर्वे मुनयस्तत्र मेनिरे |
तेजसा दीप्यमानं तु द्वितीयमिव भास्करम् ||
ततः परमदुष्प्रापम् अन्यैर्ऋषिरुदारधीः |
समापिपयिषुस्सत्रं निर्ऋतेयं प्रियकाम्यया ||
ततः पुलस्त्यः पुलहः क्रतुश्चैव महातपाः |
तदाऽजग्मुरमित्रघ्न रक्षसां जीवितेप्सया ||
पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ |
उवाचेदं वचः पार्थ पराशरमरिन्दमम् ||
पुलस्त्यः
कच्चित्तपस्यविघ्नं ते कच्चिन्नन्दसि पुत्रक |
अजानतामदोषाणां सर्वेषां रक्षसां वधात् ||
प्रजोच्छेदमिमं मह्यं मा कार्षीस्तापसोत्तम |
अधर्मिष्ठं वरिष्ठस्सन् कुरुषे त्वं पराशर ||
शक्तिना वाऽपि धर्मज्ञ नातिक्रमितुमर्हसि |
प्रजानां च ममोच्छेदं न वै कर्तुं त्वमर्हसि ||
शापाद्धि शक्तेर्वासिष्ठास् तदा राज्ञा विनाशितः |
आत्मजेन सरोषेण शक्तिर्नीत इतो दिवम् ||
न हि तं राक्षसः कश्चिच् छक्तो भक्षयितुं मुने ||
वासिष्ठा भक्षिताश्चासन् कौशिकोत्सृष्टरक्षसा |
शापं न कुर्वन्ति तदा वाक्छस्त्रा यत्परायणम् |
क्षमावन्तोऽदहन् देहं देहमन्यं व्रजन्ति हि ||
आत्मनैवाऽऽत्मनस्तेन नष्टो मृत्युस्तदाऽभवत् |
निमित्तभूतस्स्तत्रासीद् विश्वामित्रः पराशर ||
राजा कल्माषपास्तु दिवमारोढुमिच्छति ||
ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः |
ते च सर्वे मुदा युक्ता मोदन्ते सहितास्सुरैः |
सर्वमेतद्वसिष्ठस्य विदितं वै महामुने ||
रक्षसां च समुच्छेद एष तात तपस्विनाम् |
निमित्तभूतस्स्त्वं चात्र क्रतौ वासिष्ठनन्दन ||
स सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते ||
एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता |
तदा समापयामास सत्रं शान्तः पराशरः ||
सर्वराक्षससत्राय सम्भूतं पावकं मुनिः |
उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने ||
स तत्राद्यापि रक्षांसि वृक्षानश्मन एव च |
भक्षयन् दृश्यते वह्निस् सदा पर्वणि पर्वणि ||