गन्धर्वः
आश्रमस्था ततः पुत्रम् अदृश्यन्ती व्यजायत ।
शक्तेः कुलकरं राजन् द्वितीयमिव शक्तिनम् ॥
जातकर्मादिकास्तस्य क्रियास्स मुनिपुङ्गवः ।
पौत्रस्य भरतश्रेष्ठ चकार भगवान् स्वयम् ॥
पराशीर्णो यतस्तेन वसिष्ठस्स्थापितस्तदा ।
गर्भस्थेन ततो लोके पराशर इति स्मृतः ॥
अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा ।
जन्मप्रभृति तस्मिंस्तु पितरीव व्यवर्तत ॥
स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत ।
मातुस्समीपे कौन्तेय अदृश्यन्त्या नराधिप ॥
तातेति परिपूर्णार्थं तस्येदं मधुरं वचः ।
अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वती तमुवाच ह ॥
अदृश्यन्ती
मा तात ताततातेति न ते तातो महामुनिः ।
रक्षसा भक्षितस्तात तव तातो महामुनिः ॥
मन्यसे यं तु तातं त्वं नैव तातस्तवानघ ।
आर्य एष पिता तस्य पितुस्तव मनस्विनः ॥

स एवमुक्तो दुःखार्तस् सत्यवागृषिसत्तमः ।
सर्वलोकविनाशाय मतिं चक्रे महातपाः ॥
वसिष्ठो वारयामास हेतुना येन तच्छृणु ।
कृतवीर्य इति ख्यातो बभूव नृपतिः क्षितौ ॥
याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभ ।
स तानन्वग्रहीत्तात धान्येन च धनेन च |
सोमेन तर्पयामास विपुलेन विशाम्पतिः ||
तस्मिंस्तु नृपशार्दूले स्वर्यातेऽथ कदाचन |
बभूव तत्कुले राज्ञां द्रव्यकार्यमुपस्थितम् ||
ते भृगूणां धनं ज्ञात्वा राजानस्सर्व एव हि |
याचिष्णवोऽभिजग्मुस्तांस् तात भार्गवसत्तमान् ||
भूमौ तु निदधुः केचिद् भृगवो धनमक्षयम् |
ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् ||
भृगवस्तु ददुः केचित् तेषां वित्तं यथेप्सितम् |
क्षत्रियाणां तदा तात कारणान्तरदर्शनात् ||
ततो महीतलं तात क्षत्रियेण यदृच्छया |
खनताऽधिगतं वित्तं कस्मंश्चिद्भृगुवेश्मनि ||
तद्वित्तं ददृशुस्सर्वे समेताः क्षत्रियर्षभाः ॥
अवमत्य ततः क्रोधाद् भृगूंस्ते शरणागतान् ।
निजघ्नुस्ते महेष्वासा बहून् वै निशितैश्शरैः |
आगर्भादनुकृन्तन्तश् चेरुश्चैव वसुन्धराम् ||
तत उत्साद्यमानेषु भृगुष्वेवं भयात्तदा |
भृगुपत्न्यो गिरिं तात हिमवन्तं प्रपेदिरे ||
तासामन्यतमा गर्भं धारयामास तेजसा |
ऊरुणैकेन वामोरूर् भर्तुः कुलविवृद्धये ||
तं गर्भमुपलभ्याथ ब्राह्मण्योऽन्या भयार्दिताः |
गत्वा वै कथयामासुः क्षत्रियाणामुपान्तिके ||
ततस्ते क्षत्रिया जग्मुस् तं गर्भं हन्तुमुद्यताः |
ददृशुर्ब्राह्मणीं तां ते दीप्यमानां स्वतेजसा ||
अथ गर्भस्स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह |
मुष्णन् दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः ||
ततश्चक्षुर्विहीनास्ते गिरिदुर्गेषु बभ्रमुः ॥
ततस्ते मोघसङ्कल्पा भयार्ताः क्षत्रियाः पुनः ।
ब्राह्मणीं शरणं जग्मुर् दृष्ट्यर्थं तामनिन्दिताम् ॥
ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः ।
ज्योतिःप्रहीणा दुःखार्ताश् शान्तार्चिष इवाग्नयः ॥
भगवत्याः प्रसादेन गच्छेत् क्षत्रं निरामयम् ।
पापादस्मादुपारम्य पश्येम च तथा पुनः ||
सपुत्रा त्वं प्रसादं नस् सर्वेषां कर्तुमर्हसि ।
पुनर्दृष्टिप्रदानेन राज्ञः क्षत्रियांस्त्रातुमर्हसि ॥