वसिष्ठः
मा भैः पुत्रि न भेतव्यं रक्षस्ते कथञ्चन |
नैतद्रक्षो भयं यस्मात् पश्यसि त्वमुपस्थितम् ||
राजा कल्माषपादोऽयं वीर्येण प्रथितो भुवि |
स एषोऽस्मिन् वनोद्देशे निवसत्यतिभीषणः ||
गन्धर्वः
तमापतन्तं सङ्क्रुद्धं वसिष्ठो भगवानृषिः |
वारयामास तेजस्वी हुङ्कारेणैव भारत ||
मन्त्रपूतेन च पुनस् स तमभ्युक्ष्य वारिणा |
मोक्षयामास घोराद्वै राक्षसाद्राजसत्तम ||
स हि द्वादश वर्षाणि वासिष्ठस्यैव तेजसा |
ग्रस्त आसीद्ग्रहेणेव पर्वकाले दिवाकरः ||
राक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत् |
तेजसा रक्षयामास सन्ध्याभ्रमिव भास्करः ||
प्रतिलभ्य ततस्सञ्ज्ञाम् अभिवाद्य कृताञ्जलिः |
उवाच नृपतिः काले वसिष्ठमृषिसत्तमम् ||
सौदासोऽहं महाभाग याज्यस्ते द्विजसत्तम |
अस्मिन् काले यदिष्टं ते ब्रूहि किं करवाणि ते ||
वसिष्ठः
वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि तत् |
ब्राह्मणांश्च मनुष्येन्द्र माऽवमंस्थाः कदाचन ||
राजा
नावमंस्यामि वै ब्रह्मन् कदाचिद्ब्राह्मणानहम् |
त्वन्निदेशे स्थितश्शश्वत् पूजयिष्याम्यहं द्विजान् ||
इक्ष्वाकूणां तु येनाहम् अनृणस्स्यां द्विजोत्तम |
तत्त्वत्तः प्राप्तुमिच्छामि सर्ववेदविदां वर ||
अपत्यायेप्सिताय त्वं महिषीं गन्तुमर्हसि |
शीलरूपगुणोपेताम् इक्ष्वाकूणां हि वृद्धये ||
गन्धर्वः
इदानीत्येव तं तत्र राजानं प्रत्युवाच ह |
वसिष्ठः परमेष्वासं सत्यसन्धो महातपाः ||
ततः प्रतिययौ काले वसिष्ठसहितोऽसघः |
ख्यातं पुरवरं लोकेष्वयोध्यां मनुजेश्वरः ||
तं प्रजाः प्रतिनन्दन्त्यस् सर्वाः प्रत्युद्ययुस्तदा |
विपाप्मानं महात्मानं दिवौकस इवेश्वरम् ||
अचिरात् स मनुष्येन्द्रो नगरीं पुण्यकर्मणाम् |
विवेश सहितस्तेन वसिष्ठेन महात्मना ||
ददृशुस्तं ततो राजन्नयोध्यापुरवासिनः |
पुण्येण सहितं काले निशाकरमिवोदितम् ||
स हि तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः |
अयोध्यां व्योम शीतांशुश् शरत्काल इवोदितः ||
संसिक्तमृष्टपन्थानं पताकोच्छ्रितभूषितम् |
मनः प्रह्लादयामास तस्य तत्पुरमुत्तमम् ||
हृष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन |
अशोभत तदा तेन शक्रेणेवामरावती ||
ततः प्रविष्टे कौन्तेय तस्मिन् राजनि तां पुरीम् |
तस्य राज्ञोऽथ सा देवी वसिष्ठमुपचक्रमे ||
ऋतावथ महर्षिस्स सम्बभूव तया सह |
देव्या दिव्येन विधिना वसिष्ठश्श्रेष्ठभागृषिः ||
ततस्तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः |
राज्ञाऽभिवादितस्तेन जगाम पुनराश्रमम् ||
दीर्घकालकृतं गर्भं सुषाव न तु तं यदा |
साऽथ देव्यश्मना कुक्षिं निर्बिभेद तदा स्वकम् ||
द्वादशेऽथ ततो वर्षे सञ्जज्ञे मनुजर्षभ |
अश्मको नाम राजर्षिः पातनं यो न्यवेशयत् ||