वैशाम्पयनः
स गन्धर्ववचश्श्रुत्वा तत्तदा भरतर्षभ ।
अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभौ |
उवाच च महाप्राज्ञो गन्धर्व कुरुसत्तमः ||
अर्जुनः
जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात् ||
वसिष्ठ इति यस्यैतद् ऋषेर्नाम त्वयेरितम् ।
एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे ॥
गन्धर्वः
स एष गन्धर्वपते पूर्वेषां नः पुरोहितः ।
आसीदेतन्ममाचक्ष्व क एष भगवान् ऋषिः ॥
ब्रह्मणो मानसः पुत्रो वसिष्ठऽरुन्धतीपतिः ||
तपसा निर्जितौ शश्वद् अजेयावमरैरपि ।
कामक्रोधावुभौ यस्य चरणौ संववाहतुः ॥
यश्च नोच्छेदनं चक्रे कुशिकानामुदारधीः |
विश्वामित्रापराधेन धारयन् मन्युमुत्तमम् ||
पुत्रव्यसनसन्तप्तश् शक्तिमानपि यत् प्रभुः |
विश्वामित्रविनाशाय मेने कर्म न दारुणम् ||
मृतांश्च पुनराहर्तुं शक्तः पुत्रान् यमक्षयात् |
कृतान्तं नातिचक्राम वेलामिव महोदधिः ||
यं प्राप्य विजितात्मानं महात्मानं नराधिपाः |
इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम् ||
पुरोहितवरं प्राप्य वसिष्ठमृषिसत्तमम् |
ईजिरे क्रतुभिश्चापि नृपास्ते कुरुनन्दन ||
स हि तान् याजयामास सर्वान् नृपतिसत्तमान् |
महर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान् ||
यथा वसिष्ठेन सह स सौदासस्सुसङ्गतः |
रक्षोभिर्विप्रमुक्तस्तु विश्वामित्रेण योजितैः ||
तथा द्विजसहायान् वै न गन्धर्वा न राक्षसाः |
शक्ताः प्रार्थयितुं वीर मनसाऽपि महाबलाः ||
तस्माद्धर्मप्रधानस्तु वेदशास्त्रप्रदीपितः |
ब्राह्मणो गुणवान् कश्चित् पुरोधाः परिमृश्यताम् ||
क्षत्रियेण तु जातेन पृथिवीं जेतुमिच्छता |
पूर्वं पुरोहितः कार्यः पार्थ राज्यविवृद्धये ||
महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरस्कृतम् |
तस्मात् पुरोहितः कश्चिद् गुणवानस्तु वो द्विजः ||
अर्जुनः
किं निमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः |
वसिष्ठस्याश्रमे तत्र शंस तत्सर्वमेव मे ||
गन्धर्वः
इदं वसिष्ठमाख्यानं पुराणं परिचक्षते |
पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे ||
कन्याकुब्जे महानासीत् पार्थिवो भरतर्षभ |
गाधीति विश्रुतो लोके सत्यधर्मपरायणः ||
तस्य धर्मात्मनः पुत्रस् समृद्धबलवाहनः |
विश्वामित्र इति ख्यातो बभूव रिपुनाशनः ||
स चचार सहामात्यो मृगयां सुमहावने |
मृगान्निघ्नन् वराहांश्च चचार मरुधन्वसु ||
व्यायामार्तस्तु स तदा मृगलिप्सुः पिपासितः ।
आजगाम रथिश्रेष्ठो वसिष्ठस्याश्रमं प्रति ॥
वसिष्ठस्तु स तं दृष्ट्वा राजर्षिमतिथिं तदा |
विश्वामित्रं सशिष्यो वै प्रतिजग्राह पूजया ॥
पाद्येनार्घ्यप्रदानेन स्वागतेन च तं नृपम् ।
प्रतिजग्राह धर्मात्मा वन्येन हविषा तदा ॥
तस्यैव कामधुग्धेनुर् वसिष्ठस्य महात्मनः ।
उक्ता नन्दिनि धत्स्वेति सा कामान् दुदुहे तदा ॥
बाष्पाढ्यस्योदनस्यात्र राशयः पर्वतोपमाः ।
निष्ठानानि च सूपांश्च दधिकुल्यास्तथैव च ॥
कूपांश्च दधिसम्पूर्णान् गुळानां राशयस्तथा |
भोजनानि महार्हाणि तत्र तत्र सहस्रशः ||
इक्षून् मधूनि लाजांश्च मैरेयांश्च वरासवान् |
वस्त्राणि च महार्हाणि कम्बलानि सहस्रशः ||
ग्राम्यारण्यौषधीश्चैव दुदुहे पय एव च ।
षड्रसं चामृतरसं रसायनमनुत्तमम् ||
भोजनीयानि पेयानि भक्ष्याणि विविधानि च ।
लेह्यान्यमृतकल्पानि चोष्याणि च तथाऽर्जुन ॥
रत्नानि च महार्हाणि वासांसि विविधानि च ||
तैः कामैस्सर्वसम्पूर्णैः पूजितस्स महिपतिः |
सामात्यस्सबलस्तत्र तुतोष सुभृशं तदा ||
षडुन्नतां सुपार्श्वोरुं त्रिपृथुं पञ्चसंवृताम् |
मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् ||
सुवालधिं शङ्कुकर्णां पीनश्रोणिपयोधराम् |
पुष्टायतशिरोग्रीवां विस्मितस्सोऽभिवीक्ष्य ताम् ।
अभ्यनन्दत् सदा नन्दीं वसिष्ठस्य यशस्विनीम् |
अब्रवीच्च भृशं तुष्टो विश्वामित्र ऋषिस्तदा ||
अर्बुदेन गवां ब्रह्मंस् तथा राज्येन वा पुनः |
नन्दिनीं सम्प्रयच्छस्व भुङ्क्ष्व राज्यं महामुने ||
वसिष्ठः
देवताऽतिथिपित्रर्थे याज्यार्थे च पयस्विनी |
अदेया नन्दिनी चेयं राज्येनापि तवानघ ||
विश्वामित्रः
रत्नं हि भगवन्नेतद् रत्नहारी च पार्थिवः ।
क्षत्रियोऽहं भवान् विप्रस् तपस्स्वाध्यायसाधनः ॥
ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु ।
अर्बुदेन गवां यस्त्वं न ददासि ममेप्सितम् |
स्वधर्मं न प्रहास्यामि स नेष्ये ते बलेन गाम् ||
क्षत्रियोऽस्मि न विप्रोऽहं बाहुवीर्योऽस्मि धर्मतः |
तस्माद्भुजबलेनेमां हरिष्यामीह पश्यतः ||
वसिष्ठः
अत्र हव्यं च कव्यं च प्राणयात्रा तथैव च |
आयत्तमग्निहोत्रं च आतिथ्यं च न संशयः ||
बहुना किं प्रलापेन न दास्ये कामदोहिनीम् ||
बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः |
यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय ||
गन्धर्वः
एवमुक्तस्तदा पार्थ विश्वामित्रो बलादिव ॥
हंसचन्द्रप्रतीकाशां नन्दिनीं वै जहार गाम् ||
सा तदा ह्रियमाणा च विश्वामित्रबलैर्बलात् ।
कशादण्डप्रहारैश्च काल्यमाना इतस्ततः ॥
ह्रियमाणा तथा तेन वसिष्ठस्याथ नन्दिनी ।
आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी |
भृशं सन्तप्यमानाऽपि नाजगामाश्रमात्ततः ||
आश्रमान्नैव गच्छन्ती हुम्फारावैर्ननाद च ||
सा तेषां बलान्नन्दी बलानां भरतर्षभ ।
विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत् ॥
वसिष्ठः
शृणोमि ते रवं भद्रे रुदन्त्या वै मुहुर्मुहुः |
बलात् प्रयासि मे नन्दि क्षमयन् ब्राह्मणो ह्यहम् ||
नन्दिनी
पाषाणदण्डैर्निहतां क्रन्दन्तीं मामनाथवत् ।
विश्वामित्रबलैर्घोरैर् भगवन् किमुपेक्षसे ॥
गन्धर्वः
एवं तस्यां तथा पार्थ धर्षितायां महामुनिः ।
न चाक्षुभ्यत धैर्याच्च नैव कोपं समादधे ||
वसिष्ठः
क्षत्रियाणां बलं वीर्यं ब्राह्मणानां क्षमा बलम् ।
क्षमा मां भजते यस्माद् गम्यतां यदि रोचते ॥
नन्दिनी
किं नु त्यक्ताऽस्मि भगवन् यदेवं मां प्रभाषसे ।
न त्यक्ताऽहं त्वया ब्रह्मन् नेतुं शक्या बलान्न हि ॥
वसिष्ठः
न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते |
दृढेन दाम्ना बद्ध्वैष वत्सस्ते ह्रियते बलात् |
येन केनाप्युपायेन त्वया वत्सो निवार्यताम् ||
गन्धर्वः
स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी ।
ऊर्ध्वाञ्चितशिरोग्रीवा प्रभावाच्चारुदर्शना ॥
क्रोधरक्तेक्षणा सा गौर् हुम्फारवघनस्वनैः ।
विश्वामित्रस्य तत् सैन्यं व्यद्रावयत सर्वशः ॥
कशाग्रदण्डाभिहता काल्यमाना ततस्ततः ।
क्रोधदीप्तेक्षणा क्रोधं भूय एव समादधे ॥
आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ ||
अङ्गारवर्षं मुञ्चन्ती मुहुर्वातं मुखाद्वमत् |
असृजत् पप्लवान् पुच्छात् प्रस्रवाच्छबराञ्छकान् ||
योनिदेशाच्च यवनाञ् शकृद्देशाच्छकांस्तथा |
मूत्रतश्चासृजच्चापि नन्दिनी क्रोधमूर्छिता ||
पौण्ड्रान् किरातान् द्रमिडान् सिंहलान् बर्बरांस्तथा |
तथैव बर्बरान् म्लेच्छान् फेनतस्सा ससरसज ह ||
तैर्विसृष्टैर्महासैन्यैर् नानाम्लेच्छगणैस्तथा ।
नानावरणसञ्छन्नैर् नानायुधधरैस्तथा |
अवकीर्यत संरब्धैर् विश्वामित्रस्य पश्यतः ||
एकैकशस्तस्य योधाः पञ्चभिस्सप्तभिर्वृताः ॥
शस्त्रवर्षेण महता वध्यमानं बलं ततः |
प्रभग्नदर्पं सन्त्रस्तं विश्वामित्रस्य पश्यतः ||
तस्य तच्चतुरङ्गं वै बलं परमदयस्सहम् |
प्रभग्नं सर्वतो घोरं पयस्विन्या विनिर्जितम् ||
न च प्राणैर्वियुज्यन्ते तदा केचन सैनिकाः |
विश्वामित्रस्य सङ्क्रुद्धैर् वासिष्ठैर्भरतर्षभ ||
विश्वामित्रस्य तत् सैन्यं काल्यमानं त्रियोजनम् |
क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत ||
विश्वामित्रस्ततो दृष्ट्वा क्रोधाविष्टस्स रोदसी |
ववर्ष शरवर्षाणि वसिष्ठे मुनिसत्तमे ||
घोररूपांश्च नाराचान् क्षुरान् भल्लान् महामुनिः |
विश्वामित्रप्रयुक्तांस्तान् वैणवेन व्यमोचयत् ।
वसिष्ठस्य तदा दृष्ट्वा कर्मकौशलमाहवे ॥
विश्वामित्रोऽपि कोपेन भूयश्शत्रुनिपातनः ।
दिव्यास्त्रवर्षं तस्मै तु प्राहिणोन्मुनये रुषा ॥
आग्नेयं वारुणं चैन्द्रं याम्यं वायव्यमेव च ।
विससर्ज महाभागे वसिष्ठे ब्रह्मणस्सुते ॥
अस्त्राणि सर्वतो ज्वालां विसृजन्ति प्रपेदिरे ।
युगान्तसमये घोराः पतङ्गस्येव रश्मयः ॥
वसिष्ठोऽपि महातेजा ब्रह्मशक्तिप्रयुक्तया ।
यष्ट्या निवारयामास सर्वाण्यस्त्राणि स स्मयन् ॥
ततस्ते भस्मसाद्भूताः पतन्ति स्म महीतले ।
अपोह्य दिव्यान्यस्त्राणि वसिष्ठो वाक्यमब्रवीत् ॥
वसिष्ठः
निर्जितोऽसि महाराज दुरात्मन् गाधिनन्दन ।
यदि तेऽस्ति परं शौर्यं तद्दर्शय मयि स्थिते ॥
गन्धर्वः
विश्वामित्रस्तथा चोक्तो वसिष्ठेन नराधिप |
नोवाच किञ्चिद्व्रीडाढ्यो विद्रावितमहाबलः ||
तद्दृष्ट्वा महदाश्चर्यं ब्रह्मतेजोभवं बलम् ।
विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत् ||
धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् |
बलाबले विनिश्चित्य तप एव परं बलम् ||
गन्धर्वः
स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम् |
भोगांश्च पृष्ठतः कृत्वा तप एव समाददे ||
स गत्वा तपसा सिद्धिं लोकान् विष्टभ्य तेजसा |
तताप सर्वान् लोकांश्च ब्राह्मणत्वमवाप च ||
अपिबच्च सुतं सोमम् इन्द्रेण सह कौशिकः |
एवंवीर्यस्तु राजर्षिर् विप्रर्षिस्सम्बभूव ह ॥