गन्धर्वः
योजनानां चतुष्षष्टिं निमेषात् त्रिशतं तथा ।
अश्वैर्गच्छति नित्यं यस् तत्पार्श्वस्थोऽब्रवीदिदम् ॥
वसिष्ठः
अजाय लोकत्रयपावनाय भूतात्मने गोपतये वृषाय ।
सूर्याय सर्गप्रलयालयाय नमो महाकारुणिकोत्तमाय ॥
विवस्वते ज्ञानभृतेऽन्तरात्मने जगत्प्रदीपाय जगद्धितैषिणे ।
स्वयम्भुवे दीप्तसहस्रचक्षुषे सुरोत्तमायामिततेजसे नमः ॥
नमस्सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे ।
त्रयीमयाय त्रिगुणात्मधारिणे विरिञ्चनारायणशङ्करात्मने ॥
सूर्यः
स्तुतोऽस्मि वरदस्तेऽहं वरं वरय सुव्रत ।
स्तुतिस्त्वयोक्ता भक्तानां जप्येयं वरदोस्म्यहम् ॥
वसिष्ठः
यैषा ते तपती नाम सावित्र्यवरजा सुता ।
तां त्वां संवरणस्यार्थे वरयामि विभावसो ॥
स हि राजा बृहत्कीर्तिर् धर्मार्थविदुदारधीः ।
युक्तस्संवरणो भर्ता दुहितुस्ते वियद्गम ॥
गन्धर्वः
इत्युक्तस्सविता तेन ददामीत्येव निश्चितः ।
प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः ॥
सूर्यः
वरस्संवरणो राज्ञां त्वमृषीणां वरो मुने ।
तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात् ॥
गन्धर्वः
ततस्सर्वानवद्याङ्गीं तपतीं तपनस्स्वयम् ।
ददौ संवरणस्यार्थे वसिष्ठाय महात्मने ॥
प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा ।
वसिष्ठोऽथ विसृष्टश्च पुनरेवाजगाम ह ॥
यत्र विख्यातकीर्तिस्स कुरूणामृषभोऽभवत् ।
स राजा मन्मथाविष्टस् तद्गतेनान्तरात्मना ॥
दृष्ट्वा तु देवकन्यां तां तपतीं चारुहासिनीम् ।
वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ ॥
कृच्छ्रे द्वादशरात्रे तु तस्य राज्ञस्समाहिते ।
आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः ॥
तपसाऽऽराध्य वरदं देवं गोपतिमीश्वरम् ।
लेभे संवरणो भार्यां वसिष्ठस्य च तेजसा ॥
ततस्तस्मिन् गिरिश्रेष्ठे देवगन्धर्वसेविते ।
जग्राह विधिवत् पाणिं तपत्यास्स नरर्षभः ॥
वसिष्ठेनाभ्यनुज्ञातस् तस्मिन्नेव धराधरे ।
सोऽकामयत राजर्षिर् विहर्तुं सह भार्यया ॥
ततः पुरेषु राष्ट्रेषु वाहनेषु बलेषु च ।
आदिदेश महीपालस् तमेव सचिवं तदा ॥
नृपतिं तं ह्यनुज्ञाप्य वसिष्ठोऽथापचक्रमे ।
स हि राजा गिरौ तस्मिन् विजहारामरोपमः ॥
ततो द्वादशवर्षाणि काननेषु जलेषु च ।
रेमे तस्मिन् गिरौ राजा सहुतो भार्यया यदा ॥
तस्य राज्ञः पुरे तस्मिन् समा द्वादश कृत्स्नशः ।
न ववर्ष सहस्राक्षो रहितेऽथ नृपे तदा ॥
तत् क्षुधार्तैर्निरानन्दैश् शवभूतैस्तदा नरैः ।
अभवत् प्रेतराजस्य पुरं प्रेतैरिवावृतम् ॥
ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः ।
अभ्यपद्यत धर्मात्मा वसिष्ठो नरसत्तमम् ॥
तं च पार्थिवशार्दूलम् आनयामास तत्पुरम् ।
तपत्या सहितं तत्र वर्षे द्वादशमे गते ||
ततः प्रवृष्टस्तत्रासीद् यथाकालमरिन्दम |
तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः ।
प्रववर्ष सहस्राक्षस् सस्यानि जनयन् प्रभुः ॥
ततस्सराष्ट्रं मुमुदे तत् पुरं परया मुदा ।
तेन पार्थिवमुख्येन भावितं भावितात्मना ॥
ततो द्वादश वर्षाणि पुनरीजे जनाधिपः ।
पत्न्या तपत्या सहितो यथा शच्या मरुत्पतिः ॥
एवमासीन्महाभागा तपती नाम पूर्विका ।
सैषा वैवस्वती कन्या लब्धा संवरणेन ह ॥
तस्यां स जनयामास कुरुं संवरणो नृपः ।
तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन ॥
कुरूद्भवा यतो यूयं कौरवाः कुरवस्तथा |
पौरवा आजमीढाश्च भारता भरतर्षभ ||
तापत्यमखिलं प्रोक्तं वृत्तान्तं तव पूर्विकम् |
पुरोहितमुखा यूयं भुङ्क्षध्वं पृथिवीमिमाम् ||