गन्धर्वः
एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता ।
तपती तपतीत्येव विललापातुरो नृपः ॥
प्रास्खलच्चातुरो राजा पुनरुत्थाय धावति ।
धावमानस्तु तपतीम् अदृष्ट्वैव महीपते ।
स तु राजा पुनर्भूमौ तत्रैव निपपात ह ॥
अमात्यस्सानुयात्रस्तु सन्ददर्श महावने |
क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम् ||
तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं क्षितौ |
बभूव सोऽस्य सचिवस् सम्प्रदीप्त इवाग्निना ||
त्वरया चोपसङ्गृह्य स्नेहादागतसम्भ्रमः |
तं समुत्थापयामास नृपतिं काममोहितम् ||
भूतलाद्भूमिपालेशं पितेव पतितं सुतम् ॥
प्रज्ञया तपसा चैव वृद्धः कीर्त्या दमेन च ।
अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः ॥
उवाच चैनं कल्याणं वाचा मधुरयोत्थिम् ।
मा भैर्मनुजशार्दूल भद्रं चास्तु तवानघ ॥
क्षुत्पिपासाश्रमार्तं तु तर्कयामास तं नृपम् ।
पतितं पातनं सङ्ख्ये शात्रवाणां महीतले ॥
वारिणाऽथ सुशीतेन शिरस्तस्यावसेचयत् ।
अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना ॥
ततः प्रत्यागतप्राणस् तद्बलं बलवान्नृपः ।
सर्वं विसर्जयामास तमेकं सचिवं विना ॥
ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम् ।
स तु राजा गिरिप्रस्थे तस्मिन् पुनरुपाविशत् ॥
स तु तस्मिन् गिरिवरे शुचिर्भूत्वा कृताञ्जलिः ।
आरिराधयिषुस्सूर्यं तस्थावूर्ध्वभुजः क्षितौ ॥
जगाम मनसा चैवं वसिष्ठमृषिसत्तमम् ।
पुरोहितममित्रघ्नं तदा संवरणो नृपः ॥
नक्तन्दिनमथैकत्र स्थिते तस्मिञ्जनाधिपे ।
अथाजगाम विप्रर्षिस् तदा द्वादशमेऽहनि ॥
स विदित्वैव नृपतिं तपत्या हृतमानसम् ।
दिव्येन चक्षुषा ज्ञात्वा भावितात्मा महानृषिः ॥
तथा तु नियतात्मानं तं वै नृपतिसत्तमम् ।
आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया ॥
स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः ।
ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः ॥
योजनानां तु नियुतं क्षणाद्गत्वा तपोधनः ।
सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः ।
वसिष्ठोहमिति प्रीत्या स चात्मानं न्यवेदयत् ॥
तमुवाच महातेजा विवस्वान् मुनिसत्तमम् ।
महर्षे स्वागतं तेऽस्तु कथयस्व यथेप्सितम् ॥