गन्धर्वः-
अथ तस्यामदृश्यायां नृपतिर्भावमोहितः ।
पातनश्शत्रुसङ्घानां पपात धरणीतले ॥
तस्मिन्निपतिते भूमावथ सा चारुवर्णिनी ।
पुनः पीनायतश्रोणी दर्शयामास तं नृपम् ॥
अाबभाषेऽथ कल्याणी वाचा मधुरया नृपम् ।
तं कुरूणां कुलकरं कामाभिहतचेतसम् ॥
तपती-
उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिन्दम ॥
मोहं नृपतिशार्दूल गन्तुमाविष्कृतं कृतम् ।
गन्धर्वः-
एवमुक्तस्स नृपतिर्वाचा मधुरया तदा ।
ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम् ॥
अथ तामसितापाङ्गीमाबभाषे नराधिपः ।
मन्मथाभिपरीतात्मा सन्दिग्धाक्षरया गिरा ॥
संवरणः-
साधु मामसितापाङ्गि कामार्तं मत्तकाशिनि ।
भजस्वेह यथा नाहं प्राणाञ्जह्यां शुचिस्मिते ॥
त्वदर्थं हि विशालाक्षि मामयं निशितैश्शरैः ।
कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति ॥
दष्टं स्रस्तमनाक्रन्दं भद्रे काममहाहिना ।
मां च पीनघनश्रोणि सञ्जीवयितुमर्हसि ॥
त्वदधीनाश्च मे प्राणाः किन्नरोद्गीतभाषिणि ।
चारुसर्वानवद्याङ्गि पद्मेन्दुसदृशानने ॥
न ह्यहं त्वदृते भीरु शक्ष्ये जीवितुमात्मना ।
तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने ॥
भक्तं मामसितापाङ्गि न परित्यक्तुमर्हसि ।
त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि ॥
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरी ॥
विवाहानां हि रम्भोरु गान्धर्वश्श्रेष्ठ उच्यते ॥
कन्या-
नाहमीशाऽऽत्मनो राजन्कन्या पितृमती ह्यहम् ।
मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम ॥
यथा हि ते मया प्राणाः संवृताश्च नरेश्वर ।
दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः ॥
न चाहमीशा देहस्य तस्मान्नृपतिसत्तम ।
समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः ॥
का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम् ।
कन्या नाभिलषेन्नाथं भर्तारं भक्तवत्सलम् ॥
तस्मादेवं गते काले याचस्व पितरं मम ।
आदित्यं प्रणिपातेन तपसा नियमेन च ॥
स चेत्कामयते दातुं तव मामरिवर्दन ।
भविष्याम्यथ ते राजन्सततं वशवर्तिनी ॥
अहं हि तपती नाम सावित्र्यवरजा सुता ।
अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ ॥ ॥