अर्जुनः-
कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः ।
यद्ब्रह्म वदुषस्सर्वे सन्तो रात्रावरिन्दमाः ॥
गन्धर्वः-
अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः ।
धर्षितास्स्थ ततो यूयं मया पाण्डवनन्दन ॥
यक्षराक्षसगन्धर्वपिशाचोरगपन्नगाः ।
धर्षयन्ति नरव्याघ्र न ब्राह्मणपुरस्कृतान् ॥
जानता च मया तस्मात्तेजश्चाभिजनं च वः ।
इयं मतिमतां श्रेष्ठ धर्षितुं वै कृता मतिः ॥
को हि वस्त्रिषु लोकेषु न वेद भरतर्षभ ।
स्वैर्गुणैर्विस्तृतं श्रीमद्यशोऽग्र्यं भूरिवर्चसाम् ॥
यक्षराक्षसगन्धर्वाः पिशाचोरगपन्नगाः ।
विस्तरं कुरुवंशस्य श्रीमतः कथयन्ति ते ॥
नारदप्रभृतीनां च महर्षीणां मया पुरा ।
श्रुतं कथयतां पार्थ कुरूणां वंशमादितः ॥
स्वयं चापि मया दृष्टश्चरता सागराम्बराम् ।
इमां वसुमतीं कृत्स्नां प्रभावस्सुकुलस्य च ॥
वेदे धनुषि चाचार्यमभिजानामि चार्जुन ।
विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् ॥
सर्ववेदविदां श्रेष्ठं सर्वशस्त्रभृतां वरम् ।
द्रोणमिष्वस्त्रकुशलं धनुष्यङ्गिरसां वरम् ॥
धर्मं वायुं च शक्रं च विजानाम्यश्विनावपि ।
पाण्डुं च नृपशार्दूलं षडेतान्कीर्तिवर्धनान् ।
पुत्रानेतानहं पार्थ देवमानुषसत्तमान् ॥
दिव्यात्मानो महात्मानस्सर्वशस्त्रभृतां वराः ।
भवन्तो भ्रातरस्सर्वे शूराश्च चरितव्रताः ॥
उत्तमां च मनोवृत्तिं भवतां भावितात्मनाम् ।
जानन्नपि च वः पार्थ कृतवानिह धर्षणाम् ॥
स्त्रीसकाशेषु कौरव्य न पुमान्क्षन्तुमर्हति ॥
धर्षणामात्मनः पश्यन्ब्राह्मद्रविणमाश्रितः ।
नक्तं च बलमस्माकं भूय एवाभिवर्धते ॥
यतस्ततो मां कौन्तेय सदारं मन्युराविशत् ॥
सोऽहं त्वयेह विजितस्सङ्ख्ये तापत्यनन्दन ।
येनेमं विधिना सर्वं कीर्त्यमानं निबोध मे ॥
ब्रह्मचर्यं परो धर्मस्स चापि नियतस्त्वयि ।
यस्मात्तस्मादहं पार्थ रणेऽस्मि विजितस्त्वया ॥
यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परन्तप ।
नक्तं च युधि युध्येत न स जीवेत्कथञ्चन ॥
यस्तु स्यात्कामवृत्तोऽपि राजा राजीवलोचनः ।
जयेन्नक्तञ्चरान्सर्वान्स पुरोहितधूर्गतः ॥
तस्मात्तापत्य यत्किञ्चिन्नृणां श्रेय इहेप्सितम् ।
तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः ॥
वेदे षडङ्गे निरताश्शुचयस्सत्यवादिनः ।
धर्मात्मानः कृतात्मानस्स्युर्नृपस्य पुरोहिताः ॥
जयश्च नियतो राज्ञस्स्वर्गश्च स्यादनन्तरम् ।
यस्य स्याद्धर्मविद्वाग्मी पुरोधाश्शीलवाञ्शुचिः ॥
अलब्धस्य च लाभाय लब्धस्य परिरक्षणे ।
पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् ॥
पुरोहितमते तिष्ठेन्य इच्छेत्पृथिवीं नृप ।
प्राप्तुं मेरुवरोत्तंसां सागराम्बरधारिणीम् ॥
न हि केवलशौर्येण तापत्याभिजनेन च ।
जयेदब्राह्मणः कश्चिद्भुवि भूमिपतिः क्वचित् ॥
तस्मादेवं विजानीहि कुरूणां कीर्तिवर्धन ।
ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम् ॥ ॥