गन्धर्वः-
जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारवर्णताम् ।
यशोहीनं तु न श्लाघ्यं स्वं नाम जनसंसदि ॥
साध्विमं लब्धवाँल्लाभं यो हि दिव्यास्त्रधारिणम् ।
गान्धर्वं मायया चोर्ध्वमिच्छामि परया वरम् ॥
अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः ।
सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवं ॥
सम्भृता त्वेव विद्येयं तपसेह पुरा मया ।
निवेदयिष्ये तामद्य प्राणदाय महात्मने ॥
संस्तम्भितं च तरसा जितं शरणमागतम् ।
योऽरिं संयोजयेत्प्राणैः कल्याणं किं न सोऽर्हति ॥
चाक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः ।
ददौ स विश्वावसवे मम विश्वावसुर्ददौ ॥
सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति ।
आगमोऽस्या मया प्रोक्तस्तस्या वीर्यं निबोध मे ॥
यच्चक्षुषा द्रष्टुमिच्छेत्त्रिषु लोकेषु किञ्चन ।
तत्पथे यादृशं चेच्छेत्तादृशं द्रष्टुमर्हति ॥
समापद्येत षण्मासान्स्थितो विद्यां लभेदिमाम् ।
अन्वानेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते व्रते ॥
विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिणः ॥
अनाहार्याश्च देवानामनुभावात्प्रवर्तिनाम् ।
गन्धर्वजानामश्वानामहं पुरुषसत्तम ॥
भ्रातृभ्यस्तव तुभ्यं च पृथग्दाता शतं शतं ॥
देवगन्धर्ववाहास्ते दिव्यगन्धा मनोजवाः ।
क्षीणक्षीणा भवन्त्यन्ये न हीयन्ते च रंहसः ॥
पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणे ।
दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि ॥
तस्या भागः पृथग्भूतस्सर्वभूतैरुपास्यते ।
लोके यत्साधनं किञ्चित्सा वै वज्रतनुस्स्मृता ॥
ब्रह्म वज्रं ब्राह्मणानां क्षत्रियाणां रथं विदुः ।
वैश्यवज्रं तु वै सीरं शुश्रूषा हीनयोनिषु ॥
साधनं क्षत्रधर्मस्य मनोज्ञा वाजिनस्स्मृताः ।
रथाङ्गं च रथास्त्रेण धनुश्च भरतर्षभ ॥
कामवर्णाः कामगमाः कामतस्समुपस्थिताः ।
इति गन्धर्वजाः कामं पूरयिष्यन्ति मे हयाः ॥
अर्जुनः-
यदि प्रीतेन दत्तं वा संशये जीवितस्य वा ।
विद्यां वित्तं शुभं वाऽपि न तद्गन्धर्व कामये ॥
गन्धर्वः-
संयोगो वै प्रीतिकरस्स सत्सु प्रतिदृश्यते ।
जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते ॥
त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम् ।
तथैव सख्यं बीभत्सो चिराय भरतर्षभ ॥
अर्जुनः-
अस्त्रेणास्त्रं वृणे वृत्तस्संयोगश्शाश्वतोऽस्तु मे ।
सखे गन्धर्व तद्ब्रूहि युष्मभ्यो यद्भयं त्यजे ॥