वैशम्पायनः-
ते प्रतस्थुः पुरस्कृत्य मातरं भरतर्षभाः ।
समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परन्तपाः ॥
ते गच्छन्तस्त्वहोरात्रं पाञ्चालनगरं प्रति ।
अभ्याजग्मुर्लोकनदीं गङ्गां भागीरथीं प्रति ॥
चन्द्रास्तमयवेलायामर्धरात्रे समागमे ।
ते च वारि निमज्जन्तस्तीर्थं सोमश्रवायणम् ॥
उल्मुकं तु समुद्यम्य तेषामग्रे धनञ्जयः ।
प्रकाशार्थं ययौ तत्र रक्षार्थं च धनञ्जयः ॥
अथ तत्र जले रम्ये विजने क्रीडयन् स्त्रियः ।
ईर्ष्युर्गन्धर्वराजस्तु जलक्रीडामुपागतः ॥
शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् ।
तेन शब्देन चाविष्टश्चुक्रोध सहसा बली ॥
स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परन्तपान् ।
विष्फारयन्धनुर्घोरमिदं वचनमब्रवीत् ॥
अङ्गारवर्णः-
सन्ध्या संरज्यते घोरा पूर्वरात्रागमे च या ।
अशीतित्रुटिभिर्हीनांस्त्रीन्मुहूर्तान्प्रचक्षते ॥
विहितान्कामचाराय यक्षगन्धर्वरक्षसाम् ।
शेषमन्यन्मनुष्याणां कामचारमिह स्मृतम् ॥
लोभात्प्रचारं चरतस्तासु वेलासु वै नरान् ।
उपक्रम्य निगृह्णीमो राक्षसैस्सह बालिशान् ॥
अहो निशां प्राप्नुवतो भूयिष्ठां पापचेतसः ।
निघ्नन्त्येते नित्यमेव कषणेषु नृपतीनपि ॥
आराच्च तिष्ठतास्माकं समीपं नोपगच्छत ।
कस्मान्मां नाभिजानीथा प्राप्तं भागीरथीजलम् ॥
अङ्गारवर्णं गन्धर्वं वित्त मां प्रबलाश्रयम् ।
अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियस्सखा ॥
अङ्गारवर्णमिति च वचनं ख्यातितं मम ।
अनुगङ्गं महच्चित्रमस्मिन्नित्यं वसाम्यहम् ॥
न कौणपाश्शृङ्गिणो वा न देवा न चारणाः ।
इदं समुपसर्पन्ति किं मां समुपसर्पथ ॥
अर्जुनः-
समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते ।
रात्रावहनि सन्धौ वा कस्य क्लृप्तः परिग्रहः ॥
वयं च शक्तिसम्पन्ना अकाले त्वां च धृष्णुमः ।
अशक्ता भवने क्रूरान्युष्मानर्चन्ति मानवाः ॥
पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता ।
गङ्गा प्रतिदिशं गत्वा सप्तधा प्रतिपद्यते ॥
वेला भूत्वा चैकवप्रा शुचिराकाशगा पुनः ॥
देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम् ।
तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः ॥
गङ्गा भुवि च गन्धर्व यदा द्वैपायनोऽब्रवीत् ।
असम्बाधा देवनदी सर्वेषां पावनी शुभा ॥
कथमिच्छसि तां रोद्धुं नैष धर्मस्सनातनः ॥
अनिवार्यमसम्बाधं तव वाचा कथं वयम् ।
न स्पृशेम यथाकामं पुण्यं भागीरथीजलम् ॥
वैशम्पायनः-
अङ्गारवर्णस्तच्छ्रुत्वा क्रुद्ध आयम्य कार्मुकम् ।
मुमोच सायकान्दीप्तानहीन्दीप्ताननानिव ॥
उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तमम् ।
व्यपोवाह शरांस्तस्य सर्वानेव धनञ्जयः ॥
अर्जुनः-
बिभीषिकां हि गन्धर्व नास्त्रज्ञेषु प्रयोजय ।
अस्त्रज्ञेषु प्रयुक्तेयं फेनवत्प्रविलीयते ॥
मानुषान्न तु गन्धर्वान्सर्वान्गन्धर्व लक्षये ।
तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया ॥
तदिदं जातवेदास्तु प्रादादस्त्रं बृहस्पतेः ।
तस्मादगाद्भरद्वाजं गुरुपुत्रं शतक्रतोः ॥
भरद्वजात्ततो रामं भार्गवाच्च गुरुर्मम ।
स त्विदं मह्यमददद्द्रोणो ब्राह्मणसत्तमः ॥
वैशम्पायनः-
इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह ।
प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं ततः ॥
रथात्तु विप्लुतं तं तु गन्धर्वं सुमहाबलः ।
अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम् ॥
शिरोरुहेषु जग्राह माल्यवत्सु धनञ्जयः ।
भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतनम् ॥
युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी ।
नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती ॥
गन्धर्वी-
वैशम्पायनः-
त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे ।
गन्धर्वी शरणं प्राप्तां दीनां कुम्भीनसीं प्रभो ॥
श्रुत्वाऽनुग्रहभावाच्च पार्थः पार्थमुवाच ह ॥
युधिष्ठिरः-
जितं युद्धे यशोहीनं स्त्रीनाथमपराक्रमम् ।
धनञ्जय महाबाहो मुञ्चेममरिसूदन ॥
अर्जुनः-
अङ्गेमां प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः ।
प्रदिशत्यभयं तेऽत्र कुरुराजो युधिष्ठिरः ॥