वैशम्पायनः-
ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः ।
प्रययुर्द्रौपदीं द्रष्टुं तञ्च देशं महोत्सवम् ॥
ते प्रयाता नरव्याघ्रा मात्रा सह परन्तपाः ।
ब्राह्मणान्ददृशुर्मार्गे गच्छतस्सहितान्बहून् ॥
तानूचुर्ब्राह्मणा राजन्पाण्डवान्ब्रह्मचारिणः ।
क्व भवन्तो गमिष्यन्ति कुतो वाऽऽगच्छतेति ह ॥
युधिष्ठिरः-
आगतानेकचक्रायास्सोदर्यान्देवदर्शिनः ।
भवन्तोऽपि विजानन्तु सङ्गता मातृचारिणः ॥
गच्छामोऽद्यैव पाञ्चालान्द्रुपदस्य निवेशनम् ।
स्वयंवरो महांस्तत्र भविता सुमहोत्सवः ॥
ब्राह्मणाः-
एकसार्थं प्रयातास्स्म वयमप्यत्र गामिनः ।
तत्रह्यद्भुतसङ्काशो भविता सुमहोत्सवः ॥
यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः ।
वेदिमध्यात्समुत्पन्ना पद्मपत्रनिभेक्षणा ॥
दर्शनीयाऽनवद्याङ्गी सुकुमारी यशस्विनी ।
धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः ॥
यो जातः कवची स्वङ्गी सशरस्सशरासनः ।
सुसमिद्धे महाराजा पावके पावकप्रभः ॥
स्वसा तस्यानवद्याङ्गी सुकुमारी यशस्विनी ।
नीलोत्पलसमो गन्धः यस्याः क्रोशात्प्रवायति ॥
तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम् ।
सङ्गच्छामो वयं द्रष्टुं तं च देशं महोत्सवम् ॥
राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः ।
स्वाध्यायवन्तश्शुचयो महात्मानो महाव्रताः ॥
तरुणा दर्शनीयाश्च नानादेशसमागताः ।
महारथाः कृतास्त्राश्च समुपेष्यन्ति भूमिपाः ॥
ते तत्र विविधं दानं विजयार्थं नरेश्वराः ।
प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः ॥
प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरे ।
अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम् ॥
नटा वैतालिकाश्चैव नर्तकास्तत्र मागधाः ।
नियोधकाश्च देशेभ्यस्समेष्यन्ति महाबलाः ॥
एवं कौतूहलं दृष्ट्वा भुक्त्वा च प्रतिगृह्य च ।
सहास्माभिर्महात्मानो रङ्गं प्रति निवत्स्यथ ॥
दर्शनीयांश्च वस्सर्वान्देवरूपानिव स्थितान् ।
समीक्ष्य कृष्णा वरयेत्सङ्गम्यान्यतमं पतिम् ॥
अयं भ्राता च वश्शीघ्रं दर्शनीयो महाभुजः ।
आरस्यमानो विजयेत्सङ्गत्या द्रविणं महत् ॥
युधिष्ठिरः-
परमं भोगमिच्छामो द्रष्टुं देशं महोत्सवम् ।
भवद्भिस्सहितास्सर्वे कन्यायास्तां स्वयंवरम् ॥ ॥