वैशम्पायनः-
एवं श्रुत्वा तु ब्राह्मणात्संशितव्रताः ।
मनसा द्रौपदीं जग्मुरनङ्गशरपीडिताः ॥
ततस्तां रजनीं राजञ्छल्यविद्धा इवाभवन् ।
सर्वथाऽस्वस्थमनसो बभूवुस्ते महारथाः ॥
ततः कुन्ती सुतान्दृष्ट्वा विभ्रान्तान्हृतचेतसः ।
युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी ॥
कुन्ती-
चिररात्रोषितास्स्मेह ब्राह्मणस्य निवेशने ।
रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर ॥
यानीह रमणीयानि वनान्युपवनानि च ।
सर्वाणि तानि दृष्टानि पुनःपुनररिन्दम ॥
पुनर्दृष्टानि तानीह प्रीणयन्ति न नस्तथा ।
भैक्षं च न तथा वीर लभ्यते कुरुनन्दन ॥
ते वयं साधु पञ्चालान्गच्छाम यदि मन्यसे ।
अपूर्वदर्शनं तात रमणीयं भविष्यति ॥
सुभिक्षाश्चैव पञ्चालाश्श्रूयन्ते शत्रुकर्शन ।
यज्ञसेनस्तु राजाऽसौ ब्रह्मण्य इति सुश्रुम ॥
एकत्र चिरवासोऽयं क्षमो न च मतो मम ।
तस्मात्तत्रैव गच्छामो वयं तु यदि मन्यसे ॥
युधिष्ठिरः-
भवत्या यन्मतं कार्यं त्विहास्माकं परं हितम् ।
अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः ॥
वैशम्पायनः-
ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा ।
उवाच गमनं ते च तां तथेत्यब्रुवंस्तथा ॥
तत आमन्त्र्य तं विप्रं कुन्ती राजसुतैः सह ।
प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः ॥
वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु ।
आजगाम तदा द्रष्टुं व्यासस्सत्यवतीसुतः ॥
तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः ।
प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयोऽग्रतः ॥
समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत् ।
प्रच्छन्नं पूजितः पार्थैः प्रीतिपूर्वमिदं वचः ॥
व्यासः-
अपि धर्मेण वर्तध्वं शास्त्रेणैव परन्तपाः ।
अपि विप्रेषु वः पूजा पूजार्हेषु यथाविधि ॥
वैशम्पायनः-
अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः ।
विचित्रास्तु कथास्तास्ताः पुनरेवेदमब्रवीत् ॥
व्यासः-
आसीत्तपोनिधेः काचिदृषेः कन्या मनस्विनी ।
विलग्नमध्या सुश्रोणी सुभ्रूस्सर्वगुणान्विता ॥
कर्मभिस्स्वकृतैस्सा तु दुर्भगा समपद्यत ।
नाध्यगच्छम्पतिं सा तु कन्या रूपवती सती ॥
तपस्तप्तुमथारेभे पत्यर्थमसुखं ततः ।
तोषयामास महता तपसोग्रेण शङ्करम् ॥
तस्यास्तु भगवांस्तुष्टस्तामुवाच तपस्विनीम् ।
वरं वरय भद्रं ते वरदोऽस्मि तवेप्सितम् ॥
अथेश्वरमुवाचेदमात्मनस्सा हितं वचः।
पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः ॥
तामथ प्रत्युवाचेदमीशानो वदतां वरः ।
पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः ॥
प्रतिब्रुवाणमेकं मे पतिं देहीति शङ्करम् ।
पुनरेवाब्रवीदेनामिदं वचनमुत्तमम् ॥
पञ्चकृत्वस्त्वयाप्युक्तः पतिं देहीत्यहं पुनः ॥
देहमन्यं गतायास्ते यथोक्तं वै भविष्यति ।
द्रुपदस्य कुले जाता कन्या सा वररूपिणी ॥
निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता ।
पाञ्चालनगरीं तस्मात्प्रविशध्वं महाबलाः ।
सुखिनस्तामनुप्राप्य भविष्यथ न संशयः ॥
राज्यं चैवागतं प्राप्ता इन्द्रप्रस्थं गमिष्यथ ॥
वैशम्पायनः-
एवमुक्त्वा महाभागः पाण्डवानां पितामहः ।
पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः ॥