जनमेजयः
जनमेजयः
ते तदा पुरुषव्याघ्रा निहत्य बकराक्षसम् ।
ते तदा पुरुषव्याघ्रा निहत्य बकराक्षसम् ।
अत ऊर्ध्वं तदा ब्रह्मन् किमकुर्वत पाण्डवाः ॥
अत ऊर्ध्वं तदा ब्रह्मन् किमकुर्वत पाण्डवाः ॥
वैशम्पायनः
वैशम्पायनः
तत्रैव न्यवसन् राजन् निहत्य बकराक्षसम् ।
तत्रैव न्यवसन् राजन् निहत्य बकराक्षसम् ।
अधीयाना नरव्याघ्रा ब्राह्मणस्य निवेशने ॥
अधीयाना नरव्याघ्रा ब्राह्मणस्य निवेशने ॥
ततः कदाचित्काले तु ब्राह्मणस्संशितव्रतः ।
ततः कदाचित्काले तु ब्राह्मणस्संशितव्रतः ।
प्रतिश्रयार्थी तद्वेश्म ब्राह्मणस्यागमत्तदा ॥
प्रतिश्रयार्थी तद्वेश्म ब्राह्मणस्यागमत्तदा ॥
स सम्यक् पूजयित्वा तु विद्वान् विप्रर्षभस्तदा ।
स सम्यक् पूजयित्वा तु विद्वान् विप्रर्षभस्तदा ।
ददौ प्रतिश्रयं तस्मै तदा सर्वातिथिर्वशी ॥
ददौ प्रतिश्रयं तस्मै तदा सर्वातिथिर्वशी ॥
ततस्ते पाण्डवास्सर्वे कुन्ती च भरतर्षभ ।
ततस्ते पाण्डवास्सर्वे कुन्ती च भरतर्षभ ।
उपासाञ्चक्रिरे विप्रं कथयन्तं कथाश्शुभाः ॥
उपासाञ्चक्रिरे विप्रं कथयन्तं कथाश्शुभाः ॥
कथयामास देशान् स तीर्थानि विविधानि च ।
।
राज्ञश्च विविधाकारान् पुराणि च वनानि च ॥
॥
स तत्राकथयद्विप्रः कथान्ते जनमेजय ।
।
पञ्चालेष्वद्भुताकारं याज्ञसेन्यास्स्वयंवरम् ॥
॥
धृष्टद्युम्नस्य चोत्पत्तिं द्रोणस्य च शिखण्डिनः ।
।
अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे ॥
॥
तदद्भुततमं श्रुत्वा पाण्डवास्सत्यविक्रमाः ।
।
विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः ॥
॥
द्वारदेशे विनिक्षिप्य नगरस्य जगाम तम् ॥
पाण्डवाः
कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात्।
ततस्स भीमस्तं हत्वा गत्वा ब्राह्मणवेश्म तत् ।
सम्भवो वेदिमध्ये च कथं कृष्णा व्यजायत ॥
बलीवर्दौ च शकटं ब्राह्मणाय न्यवेदयत् ॥
कथं द्रोणान्महेष्वासात् सर्वाण्यस्त्राण्यशिक्षयत् ।
आचचक्षेऽथ तत्सर्वं रात्रौ युद्दमभूद्यथा ॥
धृष्टद्युम्नो महेष्वासः कथं द्रोणस्य मृत्युदः ।
कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेऽनघ ॥
वैशम्पायनः
एवं तैश्चोदितो विप्रो राजन् स पुरुषर्षभैः ।
ततो नरा विनिष्क्रम्य नागराः काल्यमेव तु ।
कथयामास तत्सर्वं द्रौपदीसम्भवं तदा ॥
ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् ।
तमद्रिकूटप्रतिमं विनिकीर्णं भयावहम् ॥
ब्राह्मणः
गङ्गाद्वारं प्रति महान् बभूवर्षिर्महातपाः ।
एकचक्रां पुनर्गत्वा प्रवृत्तिं प्रददुः पुरे ॥
भरद्वाजो महाप्राज्ञस्सततं संशितव्रतः ॥
सोऽभिषेक्तुं गतो गङ्गां पूर्वमेागतां सतीम् ।
ततस्सहस्रशो राजन् नरा नगरवासिनः ।
ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः ॥
तत्राऽऽजग्मुर्बकं द्रष्टुं सस्त्रीका वृद्धबालकाः ॥
तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा ।
ततस्ते विस्मितास्सर्वे कर्म दृष्ट्वाऽतिमानुषम् ।
अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे तदा ॥
दैवतान्यर्चयामासुस्सर्वाण्येव विशाम्पते ॥
तस्यां संसक्तमनसः कौमारब्रह्मचारिणः ।
ततः परीक्षयामासुः कस्य वारोऽद्य भोजने ।
तस्य रेतस्तु चस्कन्द तदृषिर्द्रोण आदधे ॥
ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्वमेव तत् ॥
ततस्समभवद्द्रोणः कुमारस्तस्य धीमतः ।
पृच्छमानो बहुविधं रक्षमाणश्च पाण्डवान् ।
अध्यगीष्ट च वेदांश्च वेदाङ्गानि च सर्वशः ॥
उवाच नागरान् सर्वान् काश्यपो नामतस्तदा ॥
ब्राह्मणः
भरद्वाजसखा ह्यासीत् पृषतो नाम पार्थिवः ।
आज्ञापितं मामनिशं रुदन्तं सह बन्धुभिः ।
तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥
ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महाबलः ॥
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः ।
परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च ।
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥
अब्रवीद्ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्निव ॥
ततस्तु पृषतऽतीते स राजा द्रुपदोऽभवत् ।
प्रापयिष्याम्यहं तस्मा इदमन्नं दुरात्मने ।
द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः ॥
मन्निमित्तं भयं चापि न कार्यमिति वीर्यवान् ॥
वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत् ।
स तदन्नमुपादाय गतो बकवनं प्रति ।
आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम् ॥
तेन नूनं भवेदेतत् कर्म लोकहितं कृतम् ॥
रामः
शरीरमात्रमेवाद्य ममैतदवशोषितम् ।
ततस्ते ब्राह्मणास्सर्वे क्षत्रियाश्च सुविस्मिताः ।
अस्त्राणि वा शरीरं वा ब्रह्मन्नन्यतरं वृणु ॥
वैश्याश्शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा ॥
द्रोणः
अस्त्राणि चैव सर्वाणि तेषां संहारमेव च ।
ततो जानपदास्सर्व आजग्मुर्नगरं प्रति ।
प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् ॥
तमद्भुततमं द्रष्टुं पार्थास्तत्रैव चाभवन् ॥
रामः
तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः ।
वेत्रकीयगृहे सर्वे परिवार्य वृकोदरम् ।
प्रतिगृह्य तदा द्रोणः कृतकृत्योऽभवत्तदा ॥
विस्मयादभ्यगच्छंस्तं भीमं भीमपराक्रमम् ॥
संप्रहृष्टमनाश्चापि रामात् सद्यो न्यवर्तत ।
न वै न सम्भवेत्सर्वं ब्राह्मणेषु महात्मसु ।
ब्रह्मास्त्रं समनुज्ञाप्य नरेष्वभ्यधिकोऽभवत् ॥
इति सत्कृत्य तं पौराः परिवव्रुस्समन्ततः ॥
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् ।
अयं त्राताऽर्थिनस्सर्वान् पितेव परमार्थवित् ।
अब्रवीत्पुरुषव्याघ्र सखाऽयं विद्धि मामिति ॥
अस्य शुश्रूषया पादौ प्रतिवारमुपास्महे ।
पशुमद्दधिमच्चास्य वारं भक्तमुपाहरन् ॥
द्रुपदः
नाश्रोत्रियश्श्रोत्रियस्य नारथी रथिनस्सखा ।
तस्मिन् हते ते पुरुषा भीतास्ते तमवबोधयन् ॥
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥
ब्राह्मणः
स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् ।
ततस्सम्प्राद्रवन् पार्थास्सह मात्रा परन्तपाः ।
जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥
आगच्छन्नेकचक्रां ते पाण्डवास्संशितव्रताः ॥
तस्मै पार्थान् समादाय वसूनि विविधानि च ।
वैदिकाध्ययने युक्ता जटिला ब्रह्मचारिणः ।
प्राप्ताय प्रददौ भीष्मश्शिष्यान् द्रोणाय धीमते ॥
अवसंस्ते च तत्रापि ब्राह्मणस्य निवेशने ।
मात्रा सहैकचक्रायां दीर्घकालं सुखोषिताः ॥
द्रोणश्शिष्यांस्ततस्सर्वान् इदं वचनमब्रवीत् ।
समानीय ततश्शिष्यान् द्रुपदस्यासुखाय वै ॥
कृतास्त्रैस्तत् प्रदेयं स्यात् तदृतं वदतानघाः ॥
ब्राह्मणः
तथेत्युवाच तं पार्थः पादौ जग्राह बुद्धिमान् ॥
यदा च पाण्डवास्सर्वे कृतास्त्राः कृतनिश्रमाः ।
ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः ॥
द्रोणः
ब्राह्मणः
पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः ।
तस्यापकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् ।
धार्तराष्ट्रैश्च सहिताः पाञ्चालान् पाण्डवा ययुः ॥
यज्ञसेनेन सङ्गम्य कर्णदुर्योधनादयः ।
निर्जितास्सन्न्यवर्तन्त तथाऽन्ये क्षत्रियर्षभाः ॥
ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि ।
द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा ॥
महेन्द्र इव दुर्धर्षो महेन्द्र इव दानवम् ।
महेन्द्रपुत्रः पाञ्चालं जितवानर्जुनस्तदा ॥
तद्दृष्ट्वा तु महावीर्यं फल्गुनस्यामितौजसः ।
व्यस्मयन्त जनास्सर्वे यज्ञसेनस्य बान्धवाः ॥
नास्त्यर्जुनसमो वीर्ये राजपुत्र इति ब्रुवन् ॥
द्रोणः
प्रार्थयामि त्वया सख्यं पुनरेव नराधिप ।
नाराजा किल वै राज्ञस्सखा भवितुमर्हति ॥
अतः प्रयतितं राज्ये यज्ञसेन मया तव ॥
राजाऽसि दक्षिणे कूले भागीरथ्याहमुत्तरे ।
कन्याकुब्जे च काम्पिल्ये वसेथास्त्वं नरोत्तम ॥
ब्राह्मणैस्सहितो राजन्नहिच्छत्रे वसाम्यहम् ॥
असत्कारस्स सुमहान् मुहूर्तमपि तस्य तु ।
नापैति हृदयाद्राज्ञो दुर्मनास्स कृशोऽभवत् ॥
ब्राह्मणः
अमर्षी द्रुपदो राजा कर्मसिद्धान् द्विजोत्तमान् ।
अन्विच्छन् परिचक्राम ब्राह्मणावसथान् बहून् ॥
पुत्रजन्म परीप्सन् वै शोकोपहतचेतनः ।
नास्ति श्रेष्ठं ममापत्यमिति मत्वा विचिन्तयन् ॥
जातान् पुत्रान् स निर्वेदाद् धिग्बहूनिति चाब्रवीत् ।
निर्वेदश्चाथ तस्यासीद् द्रोणाप्रियचिकीर्षया ॥
प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च ।
क्षात्रेण च बलेनास्य पराजेतुं हि नाशकत् ॥
अप्राप्तवान्नरश्रेष्ठो यतमानोऽपि भारत ।
अभितस्सोऽथ कल्मार्षी गङ्गाकूले परिभ्रमन् ।
ब्राह्मणावसथं पुण्यम् आससाद महीपतिः ॥
तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः ।
अधीयानौ महाभागौ सोऽपश्यत्संशितव्रतौ ॥
याजोपयाजौ ब्रह्मर्षी श्राम्यन्तौ पृषतात्मजः ।
संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ॥
तरुणौ तौ युक्तरूपौ ब्राह्मणावृषिसत्तमौ ।
स उपामन्त्रयामास सर्वकामैरतन्द्रितः ॥
स बुद्ध्वा बालबुद्धिं तु कनीयांसमुपह्वरे ।
प्रपेदे च्छन्दयन् कामैरुपयाजं धृतव्रतम् ॥
पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः ।
अर्चयित्वा यथान्यायमुपयाजमुवाच ह ॥
यज्ञसेनः ।
येन मे कर्मणा ब्रह्मन्पुत्रस्स्याद्द्रोणमृत्यवे ।
अर्जुनस्य तथा भार्या भवेद्या वरवर्णिनी ॥
उपयाज कृते तस्मिन् गवां दाताऽस्मि तेऽर्बुदम् ॥
यदन्यत्ते द्विजश्रेष्ठ मनस्सुप्रियं भवेत् ।
सर्वं तत्ते प्रदास्यामि न हि मेऽस्त्यत्र संशयः ॥
ब्राह्मणः ।
इत्युक्तो नाहमित्येवं तमृषिः प्रत्यभाषत ।
आराधयिष्यन् द्रुपदस्स तं पर्यचरत्पुनः ॥
ततस्संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः ।
याजो द्रोणविनाशाय प्रतिजज्ञे तथाऽपि सः ।
पाण्डोस्स्नुषार्थं कन्या च भवेदिति मतिर्मम ॥
तथेत्युक्त्वा तु तं यज्ञं पुत्रकामीयमारभत् ।
गुर्वर्थ इति चाकाममुपयाजश्चकार ह ॥
याजस्तु यजतां श्रेष्ठो हव्यवाहमतर्पयत् ।
याजस्तु सवनस्यान्ते देवीमाह्वापयत्तदा ॥
याजः ।
प्रेहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ।
कुमारश्च कुमारी च पतिवंशविवृद्धये ॥
देवी ।
नालिप्तं वै मम मुखं पुण्यान् गन्धान् बिभर्मि च ।
न पत्नी तेऽस्मि सूत्यर्थं तिष्ठ याज मम प्रिये ॥
याजः ।
याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् ।
कथं कामं न सन्दध्यात् पृषति प्रेहि तिष्ठ वा ॥
ब्राह्मणः ।
एवमुक्वा तु याजेन हुते हविषि संस्कृते ।
उत्तस्थौ पावकात्तस्मात्कुमारो देवसन्निभः ॥
ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् ।
बिभ्रत्सखड्गस्सशरो धनुषा विनदन् मुहुः ॥
अध्यारोहद्दृढरथं तेन स प्रययौ तदा ॥
ततः प्रणेदुः पाञ्चालाः प्रहृष्टास्साधु साध्विति ।
हर्षाविष्टांस्ततश्चैतान् नेयं सेहे वसुन्धरा ॥
भयापहो राजपुत्रः पाञ्चालानां यशस्करः ।
राज्ञश्शोकापहो जात एष द्रोणवधाय वै ॥
इत्युवाच महद्भूतमदृश्यं खेचरं तदा ॥
कुमारी चापि पाञ्चाली अर्जुनार्थे विनिर्मिता ।
सुभगा दर्शनीयाङ्गी वेदिमध्यात्समुत्थिता ॥
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा ।
मानुषं विग्रहं कृत्वा श्रीस्साक्षाद्देववर्णिनी ॥
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति ।
या बिभर्ति परं रूपं यस्या नास्ति समा भुवि ॥
सदृशी पाण्डुपुत्रस्य अर्जुनस्येति भारत ।
ऊचुः प्रहृष्टमनसो राजभक्तिपुरस्कृताः ॥
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी ।
सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति ॥
सुरकार्यमियं लोके करिष्यति सुमध्यमा ।
अस्याः हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् ॥
तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुस्सिंहसङ्घवत् ॥
पाञ्चालराजस्तां दृष्ट्वा हर्षादश्रूण्यवर्तयत् ।
परिष्वज्य सुतां कृष्णां स्नुषा पाण्डोरिति ब्रुवन् ।
अङ्कमारोप्य पाञ्चालीं राजा हर्षमवाप सः ॥
तयोशाच नामनी चक्रुर्द्विजास्सम्पूर्णमानसाः ॥
धृष्टत्वादप्रधृषायत्वाद्द्युम्नादुत्सम्भवादपि ।
धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ।
कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाऽभूत्सा हि वर्णतः ॥
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ॥
धृष्टद्युम्नस्तु पाञ्चालान् सिंहनादेन नादयन् ।
सोऽध्यारोहद्रथवरं तेन सम्प्रययौ गृहम् ।
कृष्णा च शिबिकां प्राप्य प्रविवेश निवेशनम् ॥
धृष्टद्युम्नं तु पाञ्चालीमानीय स्वं निवेशनम् ।
द्रोणं सम्पूज्य विधिवद्गुरुरित्येव धर्मतः ॥
परिदाय सुतं शिष्यं धृष्टद्युम्नं तु सोमकाः ।
आहू राज्ञः प्रसीदेति प्राब्रुवन्प्रियवादिनः ॥
महाप्रभावो ब्रह्मर्षिर्ज्ञात्वा तस्य च सम्भवम् ।
उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः ।
तथा तत्कृतवान् द्रोण आत्मकीर्त्यर्थकारणात् ॥