वैशम्पायनः
प्रतिज्ञातेऽथ भीमेन करिष्यामीति भारत ।
आजग्मुस्सहितास्सर्वे भैक्षमादाय पाण्डवाः ॥
भीमसेनं ततो दृष्ट्वा आपूर्णवदनं तथा ।
बुबोध धर्मराजस्तु हृषितं भीममच्युतम् |
हर्षितुं कारणं यत्तन्मनसाऽचिन्तयद्गुरुः ||
स समीक्ष्य तदा राजञ् पाण्डुपुत्रो युधिष्ठिरः |
आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः ||
रहस्समुपविश्यैकस् ततः पप्रच्छ मातरम् ॥
युधिष्ठिरः
किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः ।
भवत्यनुमते कच्चित् स्वयं कर्तुमिहेच्छति ॥
कुन्ती
ममैव वचनादेव करिष्यति परन्तपः ।
ब्राह्मणार्थे महत् कृत्यं मोक्षाय नगरस्य च ॥
किमिदं साहसं तीक्ष्णं भवत्या दुष्करं कृतम् ।
परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः ॥
कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि ।
लोकवेदविरुद्धं हि पुत्रत्यागः कृतस्त्वया ॥
यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे ।
राज्यं चापहृतं क्षुद्रैर् आजिहीर्षामहे पुनः ॥
यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः ।
न शेते वसतीस्सर्वा दुःखाच्छकुनिना सह ॥
यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम् ।
अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः ॥
यस्य बाहू समाश्रित्य वसुपूर्णां वसुन्धराम् ।
इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् ॥
तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया ।
कच्चिन्नु दुःखैर्बुद्धिस्ते विप्लुता गतचेतसः ॥
कुन्ती
युधिष्ठिर न सन्तापः कार्यः प्रति वृकोदरम् ।
न चायं बुद्धिदौर्बल्याद् व्यवसायः कृतो मया |SV-01-10-159-014e
दृष्ट्वा वीरस्य विक्रान्तं तदा जतुगृहे महत् ।
हिडिम्बस्य वधाच्चैवं विश्वासोऽयं वृकोदरे ॥
बाह्वोर्बलं हि भीमस्य नागायुतसमं महत् ।
येन यूयं गजप्रख्या निर्व्यूढा वारणावतात् ॥
वृकोदराद्बलीहान्यो न जातो जनिष्यति ।
योऽभ्युदीयाद्युधि श्रेष्ठम् अपि वज्रधरं स्वयम् ॥
जातमात्रः पुरा चैव ममाङ्कात् पतितो गिरौ ।
शरीरगौरवाद्यस्य शिला गात्रैर्विचूर्णिता ॥
तदहं प्रज्ञया ज्ञात्वा बलं भीमस्य पाण्डव ।
प्रतिकारे च विप्रस्य ततः कृतवती मतिम् ॥
न च मोहान्न चाज्ञानान्न च लोभान्नच भ्रमात् ।
इदं व्यवसितं वीर बुद्धिपूर्वमिदं कृतम् ॥
अर्थौ द्वावपि निर्वृत्तौ युधिष्ठिर भविष्यतः ।
प्रतीकारश्च वासस्य धर्मश्च चरितो महान् ॥
यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु केषुचित् ।
क्षत्रियस्स शुभाँल्लोकान् आप्नुयादिति निश्चितम् ॥
क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम् ।
विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च ॥
वैश्यस्यैव च साहाय्यं कुर्वाणः क्षत्रियो भुवि ।
स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम् ॥
शूद्रं तु मोक्षयेच्छत्रुम् उद्विग्नं शरणार्थिनम् ।
प्राप्नोतीह कुले जन्म सद्द्रव्ये राजसत्कृते ॥
एवं हि भगवान् व्यासः पुरा कौरवनन्दन ।
प्रोवाच सुतरां प्राज्ञ तस्मादेतच्चिकीर्षितम् ॥
युधिष्ठिरः
उपपन्नमिदं मातस् त्वया यद्बुद्धिपूर्वकम् |
आर्तस्य ब्राह्मणस्यैवम् अनुक्रोशादिदं कृतम् ||
ध्रुवमेव महाबाहुर् विजित्य पुरुषादकम् |
आगन्ता नगरं चैव तस्मात् पापाद्विमोक्ष्यते ||
यथा चैव न नो विद्युर् नरा नगरवासिनः |
तथाऽयं ब्राह्मणो वाच्यं परिगृह्य च यत्नतः ||
वैशम्पायनः
युधिष्ठिरेण सम्मन्त्र्य ब्राह्मणार्थमरिन्दम |
कुन्ती प्रविश्य तान् सर्वान् सान्त्वयामास भारत ॥
अथ रात्र्यां व्यतीतायां भीमसेनो महाबलः |
ब्राह्मणं समुपागम्य वाक्यमेतदुवाच ह ||
भीमसेनः
आपदस्त्वां मोचयेयं सपुत्रं ब्राह्मणप्रियम् |
मा भैषी राक्षसात्तस्मान्मां ददातु बलिं भवान् ||
इह मामाशितं कर्तुं प्रयतस्व भवद्गृहे |
अथात्मानं प्रदास्यामि तस्मै घोराय रक्षसे ||
त्वरध्वं किं विलम्बध्वं मा चिरं कुरुतानघाः |
व्यवस्येयं मम प्राणैर् युष्मान् रक्षितुमद्य वै ||
वैशम्पायनः
एवमुक्तस्तु भीमेन ब्राह्मणो भरतर्षभ |
सुहृदां तत् समाख्याय ददावन्नं सुसंस्कृतम् ||
पिशितोदनमाजह्रुर् अथास्मै पुरवासिनः |
सघृतं सोपदंशं च सूपैर्नानाविधैस्सह ||
तदाऽशित्वा भीमसेनो मांसानि विविधानि च |
मोदकानि च मुख्यानि चित्रोदनचयान् बहून् ||
ततोऽपिबद्दधिघटान् सुबहून् द्रोणसम्मितान् ||
तस्य भुक्तवतः पौरा यथावत समुपार्जितम् |
उपजह्रुर्भूतभागं समृद्धमनसस्तदा ||
समारुह्यान्नसम्पूर्ण शकटं स वृकोदरः |
प्रययौ तूर्यनिर्घोषैः पौरैश्च परिवारितः ||
आत्मानमेवोऽन्नभूतो राक्षसाय प्रदास्यति |
तरुणोऽप्रतिरूपश्च दृढ औदरिको युवा ||
वाग्भिरेवम्प्रकाराभिस् स्तूयमानो वृकोदरः |
चुचोद स बलीवर्दौ युक्तौ सर्वाङ्गकालकौ ||
वादित्राणां प्रणादेन ततस्तं पुरुषादकम् |
अभ्यगच्छत् सुसंहृष्टस् सर्वत्र मनुजैर्वृतः ||
सम्प्राप्य स च तं देशम् एकाकी समुपाययौ |
पुरुषादभयाद्भीतस् तत्रैवासीज्जनव्रजः ||
स गत्वा दूरमध्वानं दक्षिणामभितो दिशम् |
यथोपदिष्टमुद्देशे ददर्श विपुलं द्रुमम् ||
केशमज्जास्थिमेदोभिर् बाहूरुचरणैरपि |
आर्द्रैश्शुष्कैश्च सङ्कीर्णम् अभितोऽथ वनस्पतिम् ||
गृध्रकङ्कबलच्छन्नं गोमायुगणसङ्कुलम् |
उग्रगन्धमचक्षुष्यं श्मशानमिव दारुणम् ||
तं प्रविश्य महावृक्षं चिन्तयामास वीर्यवान् |
यावन्न दृश्यते रक्षो बकस्तु बलदर्पितः ||
रुचिरं विविधैर्भोज्यैर् अन्नैर्गिरिनिभैरिदम् ||
शकटं सूपसम्पूर्णं यावद्रक्ष्यति राक्षसः |
तावदेवेह भोक्ष्येऽहं दुर्लभं हि पुनर्भवेत् |
विप्रकीर्येत सर्वं हि प्रयुद्धे मयि रक्षसा ||
अभोज्यं च शवं स्पृष्ट्वा विगृहीते बके भवेत् |
स त्वेवं भीमकर्मा तु भीमसेनोऽभिलक्ष्य च ||
उपविष्टश्शनैरन्नं भुङ्क्ते स्म परमं परम् |
तं ततस्सर्वतोऽपश्यन् द्रुमानारुह्य नागराः ||
नारक्षो बलिमश्नीया् एवं बहु च मानवाः |
भुङ्क्ते ब्राह्मणरूपेण बकोऽयमिति चाब्रुवन् ||
स तं हसति तेजस्वी तदन्नमुपयुज्य च |
आसाद्य च वनं तस्य रक्षसः पाण्डवो बली ||
आजुहाव ततो नाम्ना तदन्नमुपयोजयन् ||
ततस्स राक्षसश्श्रुत्वा भीमसेनस्य तद्वचः |
आजगाम सुसङ्क्रुद्धो यत्र भीमो व्यवस्थितः ||
महाकायो महावेगो दारयन्निव मेदिनीम् |
त्रिशिखां भ्रुकुटिं कृत्वा सन्दश्य दशनच्छदम् ||
भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः |
विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत् ||
बकः
कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम् |
पश्यतो मम दुर्बुद्धिर् यियासुर्यमसादनम् ||
वैशम्पायनः
भीमसेनस्तु तच्छ्रुत्वा प्रहसन्निव भारत |
राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः ||
ततस्स भैरवं कृत्वा समुद्यम्य करावुभौ |
अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः ||
तथाऽपि परिभूयैनं नेक्षमाणो वृकोदरः |
राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा ||
अमर्षेण तु सम्पूर्णः कुन्तीपुत्रस्य राक्षसः |
जघान पृष्ठे पाणिभ्याम् उभाभ्यां पृष्ठमास्थितः ||
तथा बलवता भीमः पाणिभ्यां भृशमाहतः |
नैवावलोकयामास भुङ्क्त एव पराङ्मुखः ||
ततस्स भूयस्सङ्क्रुद्धो वृक्षमादाय राक्षसः |
ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली ||
न्यस्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् |
सव्येन पाणिना भीमो दक्षिणेनाऽपि भुक्तवान् ||
ततो भीमश्शनैर्भुक्त्वा तदन्नं पुरुषर्षभ |
वार्युपस्पृश्य संहृष्टस् तस्थौ गिरिरिवाचलः ||
भुजवेगं तथाऽसफोटं क्ष्वेलितं च महास्वनम् |
कृत्वाऽऽह्वयत सङ्क्रुद्धो भीमसेनोऽथ राक्षसम् ||
भीमसेनः
बहुकालं सुपुष्टं ते शरीरं राक्षसाधम |
मद्बाहुबलमाश्रित्य न त्वं भूयो भविष्यसि |
अद्य मद्बाहुनिष्पिष्टो गमिष्यसि यमक्षयम् ||
अद्यप्रभृति स्वप्स्यन्ति वेत्रकीयनिवासिनः |
निरुद्विग्नाः पुरस्यास्य कण्टके सूद्धृते मया ||
अद्य युद्धे शरीरं ते कङ्कगोमायुवायसाः |
मया हतस्य खादन्तु विकर्षन्तु च भूतले ||