कुन्ती
न विषादस्त्वया कार्यो भयादस्मात् कथञ्चन ।
उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय राक्षसात् |
नैव स्वयं सपुत्रस्य गमनं तत्र रोचये ||
एकस्तव सुतो बालः कन्या चैका तपस्विनी ।
न चैतयोस्तथा पत्न्या गमनं तव रोचये ॥
मम पञ्च सुता ब्रह्मंस् तेषामेको गमिष्यति ।
त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः ॥
ब्राह्मणः
नाहमेतत् करिष्यामि जीवितार्थं कथञ्चन ।
ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणान्वियोजनम् ॥
न त्वेतद्धर्मनित्यानां कुलीनानां सुदुष्करम् ।
यद्ब्राह्मणार्थं विसृजेद् आत्मानमपि चात्मजम् ॥
आत्मनस्तु वधश्श्रेयो बोद्धव्यमिति रोचये ।
ब्रह्मवध्यात्मवध्याभ्यां श्रेयानात्मवधो मम ॥
ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते ।
बुद्धिपूर्वं कृत्वाऽपि प्रत्यवायो हि बुध्यते ॥
न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनश्शुभे ।
परैः कृते वधे पापं न किञ्चिन्मम विद्यते ॥
अभिसन्धौ कृते तस्मिन् ब्राह्मणस्य वधे मया ।
निष्कृतिं न हि पश्यामि नृशंसं क्षुद्रमेव च ॥
आगतस्य गृहं त्यागस् तथैव शरणार्थिनः ।
याचमानस्य च वधो नृशंसं परमं मतम् ॥
कुर्यान्न निन्दितं कर्म न नृशंसं कथञ्चन ।
इति पूर्वे महात्मानः प्राहुर्धर्मविदो जनाः ॥
श्रेयसे सह दारेण विनाशोऽद्य मम स्वयम् ।
ब्राह्मणस्य वधं नाहम् अनुमंस्ये कथञ्चन ॥
कुन्ती
ममाप्येषा मतिर्ब्रह्मन् विप्रा रक्ष्या इति स्थिता ।
न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् ॥
न चासौ राक्षसश्शक्तो मम पुत्रविनाशने ।
वीर्यवान् मन्त्रसिद्धश्च तेजस्वी च सुतो मम ॥
राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् ।
मोक्षयिष्यति चात्मानम् इति मे निश्चिता मतिः ॥
समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः ।
बलवन्तो महाकाया निहताश्चाप्यनेकशः ॥
न त्विदं केषुचिद्ब्रह्मन् व्याहर्तव्यं कथञ्चन ।
विद्यार्थिनो हि मे पुत्रान् विप्रकुर्युः कुतूहलात् ॥
गुरुणा चाननुज्ञातो ग्राहयेद्यस्सुतो मम ।
न कुर्यात्तस्य तत् कार्यम् इत्युवाच गुरुर्हितम् ॥
वैशम्पायनः
एवमुक्तस्तु पृथया स विप्रो भार्यया सह ।
हृष्टस्सम्पूजयामास तद्वाक्यममृतोपमम् ॥
ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् ।
तमब्रूतां कुरुष्वेति प्रतिजज्ञे तथेति सः ॥