वैशम्पायनः
तथाऽपि तेषां दुःखेन परीतानाण निरीक्ष्य च |
तथा ब्रुवन्तं तं बालं हर्षस्समभवत्तदा ||
इदमन्तरमित्येव कुन्ती मुपसृत्य तान् |
गतासूनमृतेनेव सान्त्वयामास वै गिरा ||
कुन्ती
कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः ।
तद्विदित्वाऽपकर्षेयं शक्यं चेदं परीक्षितुम् ॥
ब्राह्मणः
उपपन्नं सतामेतद् यद्ब्रवीषि तपोधने ।
न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् ॥
तथाऽपि तत्त्वमाख्यास्ये एतद्दुःखस्य सम्भवम् ।
शक्यं वा यदि वाऽशक्यं शृणु भद्रे यथातथम् ॥
समीपे नगरस्यास्य बको वसति राक्षसः ।
इतो गव्यूतिमात्रेऽस्ति यमुनागह्वरे गुहा ॥
तस्यां घोरस्स वसति जिघांसुः पुरुषादकः ।
बको नाम स नाम्ना वै दुष्टात्मा राक्षसाधमः ॥
ईशो जनपदस्यास्य पुरस्य च महाबलः ।
तेनोपसृष्टा नगरी वर्षमद्य त्रयोदशम् ॥
स पुष्टो मानुषैर्मांसैर् दुर्बुद्धिः पुरुषादकः |
तेनेयं पुरुषादेन भक्ष्यमाणा दुरात्मना |
अनाथा नगरी नाथं त्रातारं नाधिगच्छति ||
गुहायां च वसंस्तत्र बाधते सततं जनम् |
स्त्रियो बालांश्च वृद्धांश्च यूनश्चापि दुरात्मवान् ||
अत्र मन्त्रैश्च होमैश्च भोजनैश्चापि राक्षसः |
ईडितो द्विजमुख्यैश्च पूजितश्च दुरात्मवान् ||
यदा च सकलानेवं प्रसूदयति राक्षसः |
तदैनं ब्राह्मणास्सर्वे समये समयोजयन् ||
मा स्म कामाद्वधी रक्षो दास्यामस्ते सदा वयम् |
पर्यायेण यथाकामम् इह मांसोदनं प्रभो ||
स्रजश्चित्रास्तिलान् पिण्डाँल्लाजापूपसुरासवान् |
शृताशृतान् पानकुम्भान् स्थूलमांसं शृताशृतम् ||
वनमाहिषवाराहभाल्लूकं च शृताशृतम् |
रक्तकुम्भांश्च विवसान् अन्यांश्च विविधान् बहून् ||
अद्यसिद्धैस्समायुक्तैस् तिलचूर्णैस्समाकुलान् |
कुलात् कुलाच्च पुरुषं बलीवर्दौ च कालकौ ॥
प्राप्स्यसि त्वमसङ्क्रुद्धो रक्षोभागं प्रकल्पितम् ।
तिष्ठेह समयेऽस्माकम् इत्ययाचन्त तं द्विजाः ॥
बाढमित्येव तद्रक्षस् तद्वचः प्रत्यगृह्णत |
परचक्रान्न बिभ्यच्च रक्षणं स करोति च ॥
तस्मिन् भागे सुनिर्दिष्टे चास्थितस्समयं बली ।
एकैकं चैव पुरुषं सम्प्रयच्छन्ति वेतनम् ॥
स वारो बहुभिर्वर्षैर् भवष्यत्यसुखाय वै ॥
तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्वचित् ।
सपुत्रदारांस्तान् हत्वा तद्रक्षो भक्षयिष्यति ॥
नगरं चैव देशं च रक्षो बलसमन्वितम् |
रक्षत्यसुरराण्णित्यम् इमं जनपदं बली ||
वेत्रकीयगृहे राजा ह्येवं न्यायामुपाश्रितः ।
अनामयं जनस्यास्य न करोतीह शाश्वतम् |
एतदर्हा वयं नूनं वसामो दुर्बलाश्रये ||
सत्सु चान्येषु देशेषु कुराजविषये रताः |
ब्राह्मणाः कस्य वक्तव्याः कस्य वा च्छन्दचारिणः ||
गुणैरेते वसन्त्येव कामगाः पक्षिणो यथा ॥
राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम् ।
राजन्यसति लोकेऽस्मिन् कुतो भार्या कुतो धनम् ||
त्रयेण सञ्चयेनेह ज्ञातीन् पुत्रांश्च धारयेत् |
विपीरतं मया त्त्वेतत् त्रितयं समुपार्जितम् ||
ते त्विमामापदं प्राप्य भृशं तप्यामहे वयम् |
सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः ।
भोजनं पुरुषं पेयं प्रदेयं वेतनं मया ॥
न च मे विद्यते वित्तं सङ्क्रेतुं पुरुषं क्वचित् ।
सुहृज्जनं प्रदातुं च न शक्ष्यामि कथञ्चन ॥
गतिं चान्यां न पश्यामि तस्मान्मोक्षाय राक्षसात् ।
सोऽहं दुःखार्णवे मग्नो महत्यसुकरे भृशम् ॥
सहैवाहं गमिष्यामि बान्धवैरद्य राक्षसम् ।
ततो नस्सहितान् रक्षस् सर्वानेवोपभोक्ष्यति ॥
दुःखमूलमिदं भद्रे मयोक्तं प्रश्नतोऽनघे ॥