वैशम्पायनः
तयोर्दुःखितयोर्वाक्यम् अतिमात्रं निशम्य सा ।
भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत ॥
कन्या
किमिदं भृशदुःखार्तौ रोरवीथो ह्यनाथवत् ।
ममापि श्रूयतां किञ्चित् तच्छ्रुत्वा च क्रियतां क्षमम् ॥
धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः ।
त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया ॥
इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति ।
अस्मिन्नुपस्थिते काले तरतं प्लवया मया ॥
इह वा तारयेद्दुर्गाद् उत वा प्रेत्य तारयेत् ।
सर्वथा तारयेत् पुत्र आत्मा वै पुत्र उच्यते ॥
आकाङ्क्षन्तीह दौहित्रान् यदि नित्यं पितामहाः ।
तान् स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः ॥
भ्राता हि मम बालोऽयं गते लोकान्तरं त्वयि ।
अचिरेणैव कालेन विनशिष्यत्यसंशयः ॥
तातेऽपि हि गते स्वर्गं विनष्टे च ममानुजे ।
पिण्डः पितॄणां व्युच्छिद्येत् तत् तेषामप्रियं भवेत् ॥
पित्रा त्यक्ता तथा मात्रा भ्रात्रा चैव न संशयः ।
दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिता ॥
त्वयि त्वरोगविनिर्मुक्ते माता भ्राता च मे शिशुः ।
सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम् ॥
आत्मा पुत्रस्सखा भार्या कृच्छ्रं तु दुहिता किल ।
स कृच्छ्रान्मोचयात्मानं मां च धर्मेण योजय ॥
अनाथा कृपणा बाला यत्र क्वचन शायिनी ।
भविष्यामि त्वया तात विहीना कृपणा वद ॥
अतस्त्वहं करिष्यामि कुलस्यास्य विमोक्षणम् ।
फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् ॥
अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम ।
पीडिताऽहं भविष्यामि तच्चावेक्षस्व मामपि ॥
अतोऽस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम ।
आत्मानं परिरक्षस्व त्यक्तव्यां मां परित्यज ॥
अवश्यकरणीयेऽर्थे मा स्म कालव्यतिक्रमः ।
त्वया दत्तेन तोयेन भविष्यति हितं च मे ॥
किन्तु तस्मात्परं दुःखं यद् चयं स्वर्गते त्वयि ।
याचमानाः परादन्नं परिधावेमहि श्ववत् ||
त्वयि रोगविनिर्मुक्ते क्लेशादस्मात् सबान्धवे ।
असुतेव सती लोके भविष्यामि सुखान्विता ॥
इत्येतदुभयं तात निशाम्य तव यद्धितम् ।
तद्व्यवस्य तथाऽम्बाया हितं स्वस्य सुतस्य च ॥
मातापित्रोः पुनः पुत्रा भवितारो गुणान्विताः ।
न तु पुत्रस्य पितरौ पुनर्जातु भविष्यतः ॥
वैशम्पायनः
एवं बहुविधं तस्या निशम्य परिदेवितम् ।
पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः ॥
तथा प्ररुदितान् सर्वान् निशम्य तु सुतस्तयोः ।
उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत् ॥
मा पिता रोद मा मातर् मा स्वस इति पुनः पुनः ।
प्रहसन्निव सर्वांस्तान् एकैकं सोपसर्पति ॥
ततस्स तृणमादाय प्रहृष्टः पुनरब्रवीत् ।
अनेन तं हनिष्यामि राक्षसं पुरुषादनम् ॥