ब्राह्मणी
न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् ।
न हि सन्तापकालोऽयं विशेषात् पुरुषस्य ह ॥
अवश्यं निधनं सर्वैर् गन्तव्यमिह मानवैः ।
अवश्यं करणीयार्थे सन्तापो नैव विद्यते ॥
भार्या पुत्रश्च दुहिता सर्वमात्मार्थमिष्यते ।
व्यथां च जहि बुद्ध्या त्वं स्वयं यास्यामि तत्र च ॥
एतद्धि परमं नार्याः कार्यं लोके सनातनम् ।
प्राणानपि परित्यज्य भर्तुर्हि हितमाचरेत् ॥
तच्च तत्र कृतं कर्म तवापीदं सुखावहम् ।
भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम् ॥
एष चैव गुरुर्धर्मो यं प्रवक्ष्याम्यहं तव ।
कामश्च तव धर्मश्च भूयानर्थः प्रदृश्यते ॥
यदर्थमिष्यते भार्या प्राप्तस्सोऽर्थस्त्वया मयि ।
कुमारश्चैव कन्या च कृताऽहमनृणा त्वया ॥
समर्थः पोषणे वापि सुतयो रक्षणे तथा ।
न त्वहं सुतयोश्शक्ता तथा रक्षणपोषणे ॥
ममापि त्वद्विहीनायाः सर्वकार्यार्थमानद ।
कथं स्यातां युतौ बालौ वृत्तिर्वापि कथं भवेत् ॥
कथं हि विधवा बाला बालपुत्रा विना त्वया ।
मिथुनं जीवयिष्यामि स्थिता साधुगते पथि ॥
स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम ॥
अहं कृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम् ।
अयुक्तैस्तव सम्बन्धैः प्रार्थ्यमाना दुरात्मभिः ॥
स्त्रीजन्म गर्हितं नाथ लोके दुष्टजनाकुले ।
मातापित्रोर्वशे कन्या प्रौढा भर्तृवशे तथा ॥
अभावे चानयोः पुत्रे स्वतन्त्रा स्त्री विगर्हिता ॥
अनाथत्वं स्त्रियो द्वारं दुष्टानां विवृतं हि तत् ।
वस्त्रखण्डं घृताक्तं हि यथा सङ्कृष्यते श्वभिः ॥
कथं तव सुतं चेमम् एकं बालमसंस्कृतम् ।
पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे ॥
कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्सितान् ।
अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शनः ॥
सुतामपि च ते बालाम् अनाथां परिभूय माम् ।
अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा ॥
सम्प्रेक्षमाणाः पुत्रीं ते नानुरूपमिवात्मनः ||
तां चेदहं न दित्सेयं त्वद्गुणैरुपबृंहिताम् ।
प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरे ॥
अनर्हवशमापन्नाम् इमां चापि सुतां तव |
अवलिप्तैर्नरैर्दृष्ट्वा मरिष्यामि न संशयः ॥
तौ च हीनौ मया बालौ त्वया चैव तथाऽऽत्मजौ ।
विनश्येतां न सन्देहो मत्स्याविव जलक्षये ॥
त्रितयं सर्वथा ब्रह्मन् विनशिष्यत्यसंशयम् ।
त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि ॥
इष्टा ह्येषा कुलस्त्रीणां पूर्वं भर्तुः परा गतिः ।
अनिष्टमिह पुत्राणां विषये परिवर्तितुम् ||
मितं ददाति हि पिता मितं माता मितं सुतः |
अमितस्य हि दातारं का पतिं नाभिनन्दति ||
परित्यक्तस्सुतश्चैव दुहितेयं तथा मया ।
बान्धवाश्च परित्यक्तास् त्वदर्थं जीवितं च मे ॥
यज्ञैस्तपोभिर्नियमैर् दानैश्च विविधैस्तथा ।
विशेष्यते स्त्रिया भर्तुर् नित्यं प्रियहितेप्सुता ॥
तदिदं यच्चिकीर्षामि धर्मं परमकं मतम् ।
इष्टं चैव हितं चैव तव चैव कुलस्य च ॥
इष्टानि वाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः ।
आपद्धर्मप्रमोक्षाय भार्या चापि मनस्विनी ॥
एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धनः ।
न सर्वं सर्वमेति बुधानामेष निश्चयः ॥
स कुरुष्व मया कार्यं तारयात्मानमात्मना ।
अनुजानीहि मामार्य सुतौ ते परिरक्ष वै ॥
अवध्यास्स्त्रिय इत्याहुर् धर्मज्ञा धर्मनिश्चये ।
धर्मज्ञान् राक्षसानाहुर् न हन्यात् स च मामपि ॥
निस्संशयं वधः पुंसां स्त्रीणां संशयितो वधः ।
अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि ॥
भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया ।
त्वत्प्रसूतिः प्रिया प्राप्ता मा तप्स्ये त्यज्य जीवितम् ॥
समीक्ष्य तदहं सर्वं व्यवसायं करोमि च |
उत्सृज्यापि च मामार्य वेत्स्यस्यन्यामपि स्त्रियम् ||
ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव |
न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम् ||
स्त्रीणां त्वधर्मस्सुमहान् भर्तुः पूर्वस्य लङ्घने ॥
एतत्सर्वं समीक्ष्य त्वम् आत्मत्यागं च गर्हितम् ।
आत्मानं तारय ब्रह्मन् कुलं च मम दारकौ ॥
वैशम्पायनः
एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत ।
मुमोच बाष्पं शनकैस् सभार्यो भृशदुःखितः ॥