वैशम्पायनः
एकचक्रां गताः पार्था ब्राह्मणस्य निवेशने ।
रमणीयानि पश्यन्तो वनानि विविधानि च ॥
पार्थिवानपि चोद्देशान् सरितश्च सरांसि च ।
चेरुर्भैक्षंं सदा ते तु सर्व एव विशाम्पते ।
युधिष्ठिरं च कुन्तीं च चिन्तयन्त उपासते ॥
भैक्षं चरन्तस्तु तदा जटिला ब्रह्मचारिणः ।
बभूवुर्नागराणां ते स्वगुणैः प्रियदर्शनाः ॥
नागराः
दर्शनीया द्विजाश्शुद्धा देवगर्भोपमाश्शुभाः ।
भैक्षानर्हाश्च राज्यार्हास्सुकुमारास्तपस्विनः ॥
सर्वलक्षणसम्पन्ना भैक्षं नार्हन्ति नित्यशः ।
कार्यार्थिनश्चरन्तीति तर्कयन्त इति ब्रुवन् ॥
बन्धूनामागमान्नित्यम् उपचिन्त्य तु नागराः ।
भाजनानि च पूर्णानि भक्ष्यभोज्यैरकारयन् ॥
मौनव्रतेन संयुक्ता भैक्षं गृह्णन्ति पाण्डवाः ।
माता चिरगतान् दृष्ट्वा शोचन्तीति च पाण्डवाः |
त्वरमाणा निवर्तन्ते मातृगौरवयन्त्रिताः ||
निवेदयन्ति स्म सदा भैक्षं कुन्त्यै च ते निशि |
तथा विभक्तान् भिक्षाशान् भुञ्जते स्म पृथक् पृथक् ||
अर्धं तु भुञ्जते वीरास् सह मात्रा परन्तपाः ।
अर्धं सर्वस्य भैक्षस्य भीमो भुङ्क्ते महाभुजः ॥
स वैवर्ण्यं च कार्श्यं च जगामातृप्तिकारितम् ॥
तथैव वसतां तेषां ततो राजन् महात्मनाम् ।
अतिचक्राम सुमहान् कालोऽथ भरतर्षभ ॥
भीमोऽपि क्रीडयित्वा तु मिथो ब्राह्मणबन्धुषु ।
कुम्भकारेण सम्बन्धाल्लेभे पात्रं बृहत्ततः ॥
स ददाति महत् पात्रं भीमाय प्रहसन्निव |
तस्याद्भुतं कर्म कृत्वा महान्तं भारमाददे ||
तस्य भारश्शतगुणः कुम्भकारमतोषयत् ||
चक्रे चक्रे च मृद्भाण्डान् आददे भैक्षमाहरन् ।
तदादायागतं दृष्ट्वा हसन्ति प्रहसन्ति च ॥
भक्ष्यभोज्यानि विविधान्यादाय प्रक्षिपन्ति च ।
एवमेव सदा भुक्त्वा मात्रे वदति वै रहः |
न चाशितोऽस्मि भवति कलवाण्या हृतं पुरा ॥
ततः कदाचिद्भैक्षाय गतास्ते पृथया सह ।
सङ्गत्य भीमसेनस्तु तत्रास्ते पृथया सह ॥
अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने ।
भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ॥
रोरूयमाणांस्तान् सर्वान् परिदेवयतश्च सा ।
कारुण्यात् साधुभावाच्च कुन्ती राजन् न चक्षमे ॥
मथ्यमानेव दुःखेन हृदयेन पृथा ततः ।
उवाच भीमं कल्याणी कृपान्वितमिदं वचः ॥
कुन्ती
वसामस्सुुसुखं पुत्र ब्राह्मणस्य निवेशने |
अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ॥
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् |
कदा प्रियं करिष्यामि यत्कुट्यामुषिता वयम् ॥e
एतावान् पुरुषस्तात कृतं यस्मिन् न नश्यति ।
यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ॥
तथेदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् ।
तत्रास्य यदि साहाय्यं कुर्यां साधु कृतं भवेत् ॥
भीमसेनः
ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् ।
विदित्वा व्यवसिष्यामि यद्यपि स्यात् सुदुष्करम् ॥
वैशम्पायनः
तथैव कथयन्तौ तौ भूयश्सुश्रुवतुस्स्वनम् ।
आर्तिजं तस्य दुःखस्य सभार्यस्य विशाम्पते ॥
अन्तर्गृहं ततस्तस्य ब्राह्मणस्य महात्मनः ।
विवेश त्वरिता कुन्ती बद्धवत्सेव सौरभी ॥
ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च ।
दुहित्रा चैव सहितं ददर्श विकृताननम् ॥
ब्राह्मणः
धिगिदं जीवितं लोके गतसारमनर्थकम् ।
दुःखमूलं पराधीनं भृशमप्रियभावि च ॥
जीविते परमं दुःखं जीविते परमो ज्वरः ।
जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ॥
एकात्माना च धर्मार्थौ कामश्च न निषेवते ।
एतैश्च विप्रयोगेऽपि दुःखं परमकं मतम् ॥
आहुः केचित् परं मोक्षं स च नास्ति कथञ्चन ।
अर्थप्राप्तौ च नरकं कृत्स्नमेवोपपद्यते ॥
अर्थेप्सुता परं दुःखम् अर्थप्राप्तौ ततोऽधिकम् ।
जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ॥
तदिदं जीवितं प्राप्य स्वल्पकालं महाभयम् ।
त्यागोऽप्ययं मया प्राप्तो भार्यया सहितेन च ॥
न हि योगं प्रपश्यामि येन मुच्येयमापदः ।
पुत्रदारेण वा सार्धं प्राद्रवेयमनामयम् ॥
उदितं हि मया पूर्वं स्वार्थं वेत्थ ब्राह्मणि ।
क्षेमं यतस्ततो गन्तुं त्वया तु मम न श्रुतम् ॥
इह जाता विवृद्धाऽस्मि पिता माता ममेति वै ।
उक्तवत्यसि दुर्मेधे याच्यमाना मयाऽसकृत् ॥
स्वर्गतश्च पिता वृद्धस् तथा माता चिरं तव ।
बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ॥
न भोजनं विरुद्धं स्यान्न स्त्रीदेशो निबन्धनः ।
सुदूरमपि कार्यार्थे व्रजेद्गरुडवासवत् ॥
सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम ।
सेयमापदनुप्राप्ता भुङ्क्ष्व ब्राह्मणि तत्फलम् ॥
अथवा त्वद्विनाशाय न हि शक्ष्यामि कञ्चन ।
परित्यक्तुमहं बन्धुं स्वयं शीघ्रं नृशंसवत् ॥
सहधर्मचरीं दासीं तथा मातृसमां सदा ।
सखीं च विहितां देवैर् नित्यं परमिकां रतिम् ॥
मात्रा पित्रा विरहितां सदा दाक्षिण्यभागिनीम् ।
वरयित्वा यथान्यायं मन्त्रवत्परिणीय च ॥
कुलीनां शीलसम्पन्नाम् अपत्यजननीमथ ।
त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् ॥
परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ||
कुत एव परित्यक्तुं पुत्रं शक्ष्याम्यहं सुताम् |
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना |
यस्यां दौहित्रजाँल्लोकान् आशंसे पितृभिस्सह ||
स्वयमुत्पादितां बालां कथमुत्स्रष्टुमुत्सहे ॥
मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः ।
कन्यायां केचिदपरे मम तुल्यावुभौ मतौ ॥
यस्यां लोके प्रतिष्ठा च वरं नित्यमथो सुखम् ।
अपापां तां कथं बालाम् उत्स्रष्टुमहमुत्सहे ॥
काङ्क्षमाणा रतिं चेह सुखानि च बहूनि च |
उत्पादयत्यपत्यानि धर्मकामार्थहेतवे ||
आत्मानमपि चोत्सृज्य गते प्रेतवशं मयि |
त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् ||
एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः ।
स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् ||
अहो धिक् कां गतिं त्वद्य गमिष्यामि सबान्धवः ।
सर्वैस्सह मृतं श्रेयो न च मे जीवितुं क्षमम् ॥