वैशम्पायनः
तस्यां रात्र्यां व्यतीतायाम् आजगाम महाव्रतः |
पाराशर्यो महाप्राज्ञो दिव्यदर्शी महातपाः ||
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा ।
तस्थुः प्राञ्जलयस्सर्वे सस्नुषा चैव माधवी ॥
व्यासः
मयेदं मनसा पूर्वं विदितं भरतर्षभाः ।
यथा तु तैरधर्मेण धार्तराष्ट्रैर्विवासिताः ॥
तद्विदित्वाऽस्मि सम्प्राप्तश् चिकीर्षुः परमं हितम् ।
न विषादो हि वः कार्यस् सर्वमेव सुखाय वः ॥
सुहृदां रञ्जनं कर्म पुरा कृतमरिन्दमाः ।
तस्य सिद्धिरियं प्राप्ता मा शोचत परन्तपाः ॥
समाप्ते दुष्कृते ते च यूयं चैव न संशयः ।
स्वराष्ट्रे विहरिष्यन्तो भविष्यथ सबान्धवाः |
समाप्ते वत्सरे सर्वे यूयं चैव न संशयः ||
दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः ।
तस्मादभ्यधिकस्स्नेहो युष्मासु मम सम्प्रति ॥
स्नेहपूर्वं चिकीर्षामि हितं यत्तन्निबोधत ।
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः |
रमणीयमिदं तोयं क्षुत्पिपासाश्रमापहम् ॥
एतद्वै शालिहोत्रस्य तपसा निर्मितं सरः ||
कार्यार्थिनस्तु षण्मासान्विहरध्वं यथासुखम् ॥
वैशम्पायनः
एवं स तान्समाश्वास्य व्यासः पार्थानरिन्दमान् ।
स्नेहाच्च सम्परिष्वज्य कुन्तीमाश्वासयत्प्रभुः |
स्नुषे मा रोद मा रोदेत्येवं व्यासोऽब्रवीद्वचः ||
व्यासः
जीवपुत्रे सुतस्तेऽयं धर्मनित्यो युधिष्ठिरः |
पृथिव्यां पार्थिवान् सर्वान् प्रशासिष्यति धर्मराट् ||
धर्मेण जित्वा पृथिवीम् अखिलां धर्मविद्वशी |
स्थापयित्वा वशे सर्वां सपर्वतवनां शुभाम् ||
भीमसेनार्जुनबलाद् भोक्ष्यत्ययमसंशयम् ॥
पुत्रास्तव च माद्र्याश्च पञ्चैते पुरुषोत्तमाः ।
स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा ॥
यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् ।
राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ॥
अनुगृह्य सुहृद्वर्गं धनेन च बलेन च ।
पितृपैतामहं राज्यम् आहारिष्यन्ति ते सुताः ॥
स्नुषा कमलपत्राक्षी नाम्ना कमलमालिनी ।
वशवर्तिनी तु भीमस्य पुत्रमेषा जनिष्यति |
तेन पुत्रेण कृच्छ्रेषु भविष्यथ च तारिताः ||
इह मासं प्रतीक्षध्वम् आगमिष्याम्यहं पुनः |
देशकालौ विदित्वैव यास्यध्वं परमां मुदम् ॥
वैशम्पायनः
स तैः प्राञ्जलिभिस्सर्वैस् तथेत्युक्तो जनाधिप ।
जगाम भगवान् व्यासो यथागतमृषिः प्रभुः ॥
गते भगवति व्यासे पाण्डवा विगतज्वराः |
ऊषुस्तत्र च षण्मासान् चटवृक्षे यथासुखम् ||
शाकमूलफलहारास् तपः कुर्वन्ति पाण्डवाः |
अनुज्ञाता महाराज ततः कमलपालिका ||
रमयन्ती सदा भीमं तत्र तत्र मनोजवा |
दिव्याभरणवस्त्राङ्गी दिव्यस्रगनुलेपना ||
एवं भ्रातॄन् सप्त मासान् हिडिम्बाऽवासयद्वने |
पाण्डवान् भीमसेनार्थं राक्षसी कामरूपिणी ||
सुखं स विहरन् भीमस् तं कालं परिणामयत् ||
ततोऽलभत सा गर्भं राक्षसी कामरूपिणी |
अतृप्ता भीमसेनस्य सप्तमासोपसङ्गता ||
प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलात् |
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् ||
भीमरूपं सुताम्राक्षं तीक्ष्णदंष्ट्रं महारथम् |
महेष्वासं महावीर्यं महासत्वं महाजवम् ||
महाकायं महाकालं महापादं महाभुजम् |
अमानुषं मानुषजं भीमवेगमरिन्दमम् ||
बालोऽपि विक्रमं प्राप्तो मानुषेषु विशाम्पते |
सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली ||
सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च |
कामरूधराश्चैव भवन्ति बहुरूपिणः ||
प्रणम्य विकचः पादावगृह्णात् स पितुस्तदा |
मातुश्च परमेष्वासस् तौ च नामास्य चक्रतुः ||
घटोऽहमुत्कचोऽस्मीति मातरं सोऽभ्यभाषत |
अभवत्तेन नामास्य घटोत्कच इति स्म ह ||
अनुरक्तश्च तानासीत् पाण्डवान् स घटोत्कचः |
तेषां च दयितो नित्यम् आत्मभूतो बभूव ह ||
घटोत्कचो महाकायः पाण्डवान् पृथया सह |
अभिवाद्य यथान्यायम् अब्रवीच्च प्रसाद्य तान् ||
किं करोम्यहमार्याणां निश्शङ्कं वदतानघाः |
इति ब्रुवन्तं भैमसेनिं कुन्ती वचनमब्रवीत् ||
कुन्ती
वैशम्पायनः
त्वं कुरूणां कुले जातस् साक्षाद्भीमसुतो ह्यसि |
ज्येष्ठपुत्रस्तु पञ्चानां साहाय्यं कुरु पुत्रक ||
पृथायाप्येवमुक्तस्तु प्रणम्यैवं वचोऽब्रवीत् ||
यथा हि रावणो लोके इन्द्रजिद्वा महाबलः |
तेषां वीर्यसमो वीर्ये विशिष्टश्चाभवं नृषु ||
कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः |
आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् ||
स हि सृष्टो भगवता शक्तिहेतोर्महात्मना |
कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः ||
भीमसेनः
सहवासो मया जीर्णस् त्वया कमलमालिके |
पुनर्द्रक्ष्यसि राज्यस्थान् इत्यभाषत तां तदा ||
हिडिम्बा
यदा मे त्वं स्मरेः कान्त रिरंसू रहसि प्रभो |
तदा तव वशं भूय आगन्तास्म्याशु भारत ||
वैशम्पायनः
इत्युक्त्वा सा जगामाशु भावमासज्य पाण्डवे |
हिडिम्बा समयं स्मृत्वा स्वां गतिं प्रत्यपद्यत ||
ततस्ते पाण्डवास्सर्वे शालिहोत्राश्रमे सदा |
पूजितास्तेन वन्येन तमामन्त्र्य महामुनिम् ||
जटाः कृत्वाऽऽत्मनस्सर्वे वल्कलाजिनवाससः |
कुन्त्या सह महात्मानो बिभ्रतस्तापसं वपुः ||
ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः |
नीतिशास्त्रं च धर्मज्ञ धर्मज्ञानं च पाण्डवाः ||
शालिहोत्रप्रसादेन लब्ध्वा प्रीतिमनुत्तमाम् ||
ते वनेन वनं गत्वा घ्नन्तो मृगगणान् बहून् |
अतिक्रम्य ययू राजंस् त्वरमाणा महारथाः ||
मत्स्यांस्त्रिगर्तान् पाञ्चालान् कीचकानां वनान्यपि |
रमणीयान् वनोद्देशान् प्रेक्षमाणास्सरांसि च ||
क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः |
क्वचिच्छन्नेन गच्छन्तस् ते जग्मुः पृथया सह |
पथि द्वैपायनं सर्वे ददृशुस्तं पितामहम् ||
अभिप्रणम्य शिरसा पाराशर्यमुपेत्य च |
ते पादौ जगृहुस्तस्य सह मात्रा परन्तप ||
व्यासः
तदाश्रमान्निर्गमनं मया ज्ञातं परन्तपाः |
घटोत्कचस्य चोत्पत्तिं ज्ञात्वा प्रीतिरवर्धत ||
इदं नगरमभ्याशे रमणीयं निरामयम् |
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ||
वैशम्पायनः
एवं स तान् समाश्वास्य व्यासः पार्थानरिन्दमान् |
एकचक्रामभिगतां कुन्तीमाश्वासयत् प्रभुः ||
व्यासः
कुर्यान्न केवलं धर्मं दुष्कृतं च तथा नरः |
सुकृतं दुष्कृतं लोके न कर्ता नापि शोभने ||
अवश्यं लभते कर्ता फलं वै पुण्यपापयोः |
दुष्कृतस्य फलेनैवं प्राप्तं व्यसनमुत्तमम् ||
तस्मान्माधवि मानार्हे मा च शोके मनः कृथाः ||
वैशम्पायनः
एवमुक्त्वा निवेश्यैनान् ब्राह्मणस्य निवेशने |
जगाम भगवान् व्यासो यथाकाममृषिः प्रभु ||