वैशम्पायनः
युधिष्ठिरेणैवमुक्ता कुन्त्या चाङ्केऽधिरोपिता ।
भीमार्जुनान्तरगता यमाभ्यां च पुरस्कृता ॥
तिर्यग्युधिष्ठिरे याति हिडिम्बा भीमगामिनी ।
शालिहोत्रसरो रम्यम् आसेदुस्ते जलार्थिनः ॥
तत्तथेति प्रतिज्ञाय हिडिम्बा राक्षसी तदा |
वनस्पतितलं गत्वा परिमृज्य यथा गृहान् ||
पाण्डवानां च वासं सा कृत्वा पर्णमयं तथा |
आत्मनश्च तथा कुन्त्या एकोद्देशे चकार सा ||
पाण्डवास्तु ततस्स्नात्वा शुद्धास्सन्ध्यामुपास्य च |
तृषिताः क्षुत्पिपासार्ता जलमात्रेण वर्तयन् ||
शालिहोत्रस्ततो ज्ञात्वा क्षुधार्तान् पाण्डवांस्तदा |
मनसा चिन्तयामास पानीयं भोजनं महत् |
ततस्ते पाण्डवास्सर्वे विश्रान्ताः पृथया सह ॥
यथा जतुगृहे वृत्तं राक्षसेन कृतं च यत् ।
कृत्वा कथा बहुविधाः कथान्ते पाण्डुनन्दनम् ॥
कुन्ती राजसुता वाक्यं भीमसेनमथाब्रवीत् ||
कुन्ती
यथा पाण्डुस्तथा मान्यस् तव ज्येष्ठो युधिष्ठिरः |
अहं धर्मविधानेन मान्या गुरुतरी तव ।
तस्मात् पाण्डुहितार्थं मे युवराज हितं कुरु ॥
निकृता धार्तराष्ट्रेण पापेनाकृतबुद्धिना ।
दुष्कृतस्य प्रतीकारं न पश्यामि वृकोदर ॥
तस्मात् कतिपयाहेन योगक्षेमं भविष्यति ।
क्षेमं दुर्गमिमं वासं वसिष्यामो यथासुखम् ॥
इदमद्य महद्दुःखं धर्मकृच्छ्रं वृकोदर ||
दृष्ट्वैव त्वां महाप्राज्ञ अनङ्गाभिप्रचोदिता |
युधिष्ठिरं च मां चैव वरयामास धर्मतः ||
धर्मार्थं देहि पुत्रं त्वं स नश्श्रेयः करिष्यति |
प्रतिवाक्यं तु नेच्छामि ह्यावभ्यां वचनं कुरु ||
वैशम्पायनः
भीमसेनः
वैशम्पायनः
तथेति तत् प्रतिज्ञाय भीमसेनोऽब्रवीदिदम् |
शासनं ते करिष्यामि वेदशासनमित्यपि ।
समक्षं भ्रातृमध्ये तु भीमसेनोऽब्रवीदिदम् ॥
भीमसेनः
शृणु राक्षसि सत्येन समयं ते वदाम्यहम् ||
यावत्कालेन भवति अपत्योत्पादनं शुभे |
तावत्कालं चरिष्यामि त्वया सह सुमध्यमे ||
विशेषतो मत्सकाशे मा प्रकाशय नीचताम् |
उत्तमस्त्रीगुणोपेता भजेथा वरवर्णिनि ||
वैशम्पायन
सा तथेति प्रतिज्ञाय हिडिम्बी राक्षसी तदा |
गताऽहनि निवेशेषु भोज्यं राजार्हमानयत् ||
सा कदाचिद्विहारार्थं हिडिम्बी कामरूपिणी |
भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः ||
वनेषु च सशैलषु देवतायतनेषु च |
मृगपक्षिविघुष्टेषु रमणीयेषु सर्वेतः ||
कृत्वा सा परमं रूपं सर्वाभरणभूषिता |
सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवम् ||
तथैव वनदुर्गेषु पर्वतद्रुमसानुषु |
सरस्सु रमणीयेषु पद्मोत्पलवनेषु च ||
नदीद्वीपप्रदेशेषु मणिहेमयुतेषु च |
पत्तनेषु च रम्येषु महासालवनेषु च ||
देवारण्येषु पुण्येषु तापसायतनेषु च ।
गुह्यकानां निवासेषु कुलपर्वतसानुषु ॥
सर्वर्तुफलवृक्षेषु मानसेषु वनेषु च ।
बिभ्रती परमं रूपं रमयामास पाण्डवम् ॥
यथा च सुकृती स्वर्गे मोदतेऽप्सरसा सह ।
स तथा परमप्रीतस् तया रेमे महाद्युतिः ॥
शुभं हि जघनं तस्यास् सवर्णमणिमेखलम् ।
न ततर्प तदा मृद्नन् भीमसेनो मुहुर्मुहुः ॥
रमयन्ती ततो भीमं तत्र तत्र मनोजवा ।
सा रेमे तेन संहर्षाद् अतृप्यन्ती च मुहुर्मुहुः ॥
अहस्सु विचरन्ती सा निशाकालेषु पाण्डवम् ।
आनीय वै स्वके गेहे दर्शयामास मातरम् |
भ्रातृभिस्सहितो नित्यं स्वपते पाण्डवस्तदा ।|
कुन्त्याः परिचरन्ती सा तस्याः पार्श्वे वसन्निशाम् |
कामांश्च मुखवासादीन् आनयिष्यति भोजनम् ||