वैशम्पायनः
सा तानेवापतत्तूर्णं भगिनी तस्य रक्षसः ।
अब्रुवाणा हिडिम्बी तु राक्षसी पाण्डवान् प्रति ॥
अभिवाद्य ततः कुन्तीं धर्मराजं च पाण्डवम् ।
अभिपूज्य च तान् सर्वान् भीमसेनमभाषत ॥
हिडिम्बी
अहं ते दर्शनादेव मन्मथस्य वशं गता ।
क्रूरं भ्रातृवशं हित्वा सा त्वामेवानुरुन्धती ॥
राक्षसे रौद्रसङ्काशे तवापश्यं विचेष्टितम् ।
अहं शुश्रूषुरिच्छेयं तव गात्रं निषेवितुम् ॥
भीमसेनः
स्मरन्ति वैरं रक्षांसि मायामाख्याय मोहिनीम् ।
हिडिम्बि व्रज पन्थानं मा त्वं भ्रातृनिषेवितम् ॥
युधिष्ठिरः
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा च स्त्रियं वधीः ।
शरीरगुप्त्यभ्यधिकं धर्मं गोपाय पाण्डव ॥
वधाभिप्रायमवधीस् त्वं महाबलराक्षसम् ।
रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ॥
वैशम्पायनः
हिडिम्बी तु ततः कुन्तीम् अभिवाद्य कृताञ्जलिः ।
युधिष्ठिरं तु कौन्तेयम् इदं वचनमब्रवीत् ॥
हिडिम्बी
आर्ये जानासि यद्दुःखम् इह स्त्रीणामनङ्गजम् ।
तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे ॥
साऽहं तत् परमं दुःखं सहे कालप्रतीक्षया ।
सोऽयमभ्यागतः कालो भविता मे सुखावहः ॥
मया ह्युत्सृज्य सुहृदो ज्ञातीन् स्वं धर्ममेव च ।
वृतोऽयं पुरुषव्याघ्रस् तव पुत्रः पतिश्शुभः ॥
वरेणानेन तु विना नाहं जीवितुमुत्सहे ।
तदर्हसि कृपां कर्तुं मयि त्वं वरवर्णिनि॥
त्वं मां मूढेति वा मत्वा भक्तां वाऽनुगतेति वा।
भर्त्राऽनेन महाभागे योजयस्व सुतेन ते ॥
तमुपादाय गच्छेयं यथेष्टं देवरूपिणम् ।
पुनश्चैवानयिष्यामि विस्रम्भं कुरु मे शुभे |
अहं समुपलप्स्ये प्राङ् मद्भ्रातुरुपवर्जनात् ||
ततस्सोऽभ्यपतद्रात्रौ भीमसेनजिघांसया ॥
यथा यथा विक्रमते यथा चरति तिष्ठते ।
तथा तथा समाधाय पाण्डवं काममोहिता ॥
न यातुधान्यहं त्वार्ये न चास्मि रजनीचरी ।
कन्या रक्षस्सु साध्व्यस्मि राज्ञि सालकटङ्कटी ॥
पुत्रेण तव संयुक्ता युवतिर्देववर्णिनी ।
सर्वान् वोऽहमुपस्थास्ये पुरस्कृत्य वृकोदरम् ॥
अप्रमत्ता प्रमत्तेषु शुश्रूषुरसकृत्त्वहम् ।
वृजिनं तारयिष्यामि दासीवच्च नरर्षभ ॥
पृष्ठेन वः प्रवक्ष्यामि क्षणेन गतिमीप्सिताम् ।
एवं ब्रुवन्ती ह तथा प्रत्याख्याता क्रियां प्रति |
लभ्यान् दुष्कृतिनो लोकान् गमिष्येऽहं न संशयः ||
अहं हि मनसा ध्यात्वा सर्वं वेत्स्यामि सर्वदा ।
आपन्निस्तरणे प्राणान् धारयिद्येन केनचित् ॥
सर्वमावृत्सु कर्तव्यं तद्धर्ममनुपश्यताम् ।
आपत्सु यो धारयति स वै धर्मविदुत्तमः ॥
व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते ।
पुण्यम् प्राणान् धारयति पुण्यं वै प्राणधारणम् ॥
येन येनाचरेद्धर्मं तस्मिन् गर्हा न विद्यते ।
महतोऽत्र स्त्रियं कामाद् बाधितां त्राहि मामपि ॥
धर्मार्थकाममोक्षेषु दयां कुर्वन्ति साधवः ।
तं तु धर्ममिति प्राहुर्मुनयो धर्मवत्सलाः ॥
दिव्यज्ञानेन जानामि व्यतीतानागतानहम् ।
तस्माद्वक्ष्यामि वः श्रेय आसन्नं सर उत्तमम् ॥
अद्यासाद्य सरस्स्नात्वा विश्रम्य च वनस्पतौ ।
श्वः प्रभाते महद्भूतं प्रादुर्भूतं जगत्पतिम् ॥
व्यासं कमलपत्राक्षं दृष्ट्वा शोकं विहास्यथ ||
धार्तराष्ट्राद्विवासश्च दहनं वारणावते |
त्राणं च विदुरात्तुभ्यं विदितं ज्ञानचक्षुषा |
आवासे शालिहोत्रस्य स च वासं विधास्यति ॥
वर्षवातातपसह अयं पुण्यो वनस्पतिः ।
पीतमात्रे तु पानीये क्षुत्पिपासे विनश्यतः ॥
तपसा शालिहोत्रेण सरो वृक्षश्च निर्मितः ||
कादम्बास्सारसा हंसाः कुरर्यः कुररैस्सह |
रुवन्ति मधुरं गीतं गान्धर्वस्वनमिश्रितम् ||
वैशम्पायनः
तस्यास्तद्वचनं श्रुत्वा कुन्ती वचनमब्रवीत् |
युधिष्ठिरं महाप्राज्ञं सर्वशास्त्रविशारदम् ||
कुन्ती
त्वं हि धर्मभृतां श्रेष्ठो मयोक्तं शृणु भारत |
राक्षस्येषा हि वाक्येन धर्मं वदति साधु वै ॥
भावेन दुष्टा भीमं सा किं करिष्यति राक्षसी ।
भजतां पाण्डवं वीरम् अपत्यार्थं यदीच्छसि ॥
युधिष्ठिरः
एवमेतद्यथाऽऽत्थ त्वं हिडिम्बे नात्र संशयः ।
स्थातव्यं तु त्वया धर्मे यथा ब्रूयास्सुमध्यमे ||
नित्यं कृताह्निका स्नाता कृतशौचा सुरूपिणी |
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् |
भीमसेनं भजेथास्त्वम् उदिते वै दिवाकरे ॥
अहस्सु विहरानेन यथाकामं मनोजवा ।
अनेतव्यस्त्वया भद्रे भीमसेनस्स्वयं निशि ॥
प्राक्सन्ध्यातो विमोक्तव्यो रक्षितव्यश्च नित्यशः ।
एवं रमस्व भीमेन यावद्गर्भस्य वेदनम् ॥
एष ते समयो भद्रे शुश्रूष्यश्चाप्रमत्तया ।
नित्यानुकूलया भूत्वा कर्तव्यं शोभनं त्वया ॥