वैशम्पायनः
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः ।
अवतीर्य द्रुमात्तस्माद् आजगामाथ पाण्डवान् ॥
लोहिताक्षो महाबाहुर् ऊर्ध्वकेशो महाबलः ।
मेघायामो महावर्ष्मा तीक्ष्णदंष्ट्रोज्जवलाननः ॥
तलं तलेन संहत्य बाहू विक्षिप्य चासकृत् ।
उद्वृत्तनेत्रस्सङ्क्रुद्धो दन्तान् दन्तेषु निष्कषन् ॥
कोऽद्य मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः ।
न बिभेति हिडिम्बी च प्रेषिता किमनागता ॥
तमापतन्तं दृष्ट्वैवा तथारूप भयङ्करम् ।
हिडिम्ब्युवाच वित्रस्ता भीमसेनमिदं वचः ॥
हिडिम्बी
आपतत्येष दुष्टात्मा सङ्क्रुद्धः पुरुषादकः ।
त्वं चापि भ्रातृभिस्सार्धं यद्ब्रवीमि तथा कुरु ॥
अहं कामगमा चैव रक्षोबलसमन्विता ।
आरुहेमां मम श्रोणिं नेष्यामि त्वां विहायसा ॥
प्रबोधयैनान् सोदर्यान् मातरं च नरर्षभ ।
सर्वानेव गमिष्यामि गृहीत्वा व्योमसक्तवत् ॥
भीमसेनः
मा भैस्त्वं विपुलश्रोणि नैव किञ्चिन्मयि स्थिते ।
अहमेनं हनिष्यामि पश्यन्त्यास्ते सुमध्यमे ॥
नायं प्रतिबलो भीरु राक्षसापसदो मम ।
सोढुं युधि परिस्पन्दम् अशक्तास्सर्वराक्षसाः ॥
पश्य बाहू सुवृत्तौ मे हस्तिहस्तोपमौ शुभौ ।
ऊरू परिघसङ्काशौ संहतं चाप्युरो मम ॥
विक्रमं मे महेन्द्रस्य यथा द्रक्ष्यसि शोभने ।
माऽवमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् ॥
हिडिम्बी
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् ।
दृष्टापदानास्तु मया मानुषेष्विह राक्षसाः ॥
वैशम्पायनः
पुंस्कामां शङ्कमानश्च चुकोप स निशाचरः ॥
तथा सञ्जल्पतस्तस्य भीमसेनस्य भारत ।
वाचश्श्रुत्वा ततः क्रुद्धो राक्षसः पुरुषादकः ॥
सङ्क्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम ।
विष्फार्य विपुले नेत्रे ततस्तामिदमब्रवीत् ॥
हिडिम्बः
कस्मान्मे भोक्तुकामस्य विघ्नं चरसि दुर्मते ।
न बिभेषि हिडिम्बे किं कामाद्वै विप्रमोहिता ॥
धिक् त्वां पुरुषकामां वै मम विप्रियकारिणीम् ।
कुलस्य राक्षसेन्द्राणां सर्वेषामयशस्करीम् ॥
यानिमानाश्रिताऽकार्षीर् विप्रियं सुमहन्मम ।
एष तानाशु वै सर्वांस्तु हनिष्यामि त्वया सह ॥
वैशम्पायनः
एवमुक्त्वा हिडिम्बीं स हिडिम्बो लोहितेक्षणः ।
वधायाभिपपातैनान् दन्तान् दन्तेषु निष्कषन् ॥
गर्जन्तमेवं विजने भीमसेनोऽभिवीक्ष्य तम् ।
रक्षन् प्रबोधं भ्रातॄणां मातुश्च परवीरहा ॥
आपतन्तं च सम्प्रेक्ष्य भीमः प्रहरतां वरः ।
भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत् ॥