वैशम्पायनः
तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः ।
अविदूरे वनात्तस्मात् सालवृक्षमुपाश्रितः ॥
क्रूरो मानुषमांसादो महावीर्यो महाबलः ।
आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् ॥
उपपन्नं चिरस्याद्य भक्ष्यो मम मनःप्रियः ।
जिघ्रतः प्रस्रुतस्नेहाज् जिह्वा पर्येति मे मुखम् ॥
अष्टौ दन्तास्सितास्तीक्ष्णाश् चिरस्य बत दुस्सहाः ।
देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च ॥
आक्रम्य मानुषं कण्ठम् आच्छिद्य धमनीमपि ।
उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु ॥
गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः ।
मानुषो बलवान् गन्धो घ्राणं तर्पयतीव मे ॥
हत्वैतान् मानुषानेतान् आनयाशु ममान्तिकम् ।
अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते ॥
ततो मांसानि संस्कृत्य मानुषाणि यथेष्टतः ।
सहितौ भक्षयिष्यावः कुरु क्षिप्रं वचो मम |
ततस्तुष्टौ प्रनृत्यावः प्रगीतौ तलतालकौ ||
वैशम्पायनः
एवमुक्ता हिडिम्बेन हिडिम्बी राक्षसी तदा ।
भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी ॥
आप्लुत्याप्लुत्य च तरून् अगच्छत् पाण्डवान् प्रति ।
भ्रातुर्वचनमाज्ञाय त्वरमाणैव राक्षसी ॥
जगाम तत्र यत्र स्म शेरते पाण्डवा वने ॥
ददर्श तत्र सा गत्वा पाण्डवान् पृथया सह ।
शयानान् भीमसेनं च जाग्रतं मापराजितम् ॥
उपास्यमानान् भीमेन रूपयौवनशालिना ।
सुकुमारांश्च पार्थान् सा व्यायामेन च कर्शितान् |
दुःखेन सम्प्रयुक्तांश्च सहज्येष्ठान् प्रमाथिना ||
रौद्री सती राजपुत्रं दर्शनीयप्रदर्शनम् |
दृष्ट्वैव भीमसेनं सा सालस्कन्धमिवोद्गतम् ||
राक्षसी कामयामास रूपेणाप्रतिमं भुवि |
अन्तर्गतेन मनसा चिन्तयामास राक्षसी ||
अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः |
कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम ||
नाहं भ्रातुर्वंशो जातु कुर्यां क्रूरमसाम्प्रतम् |
पतिहेतुर्हि बलवान् न तथा भ्रातृसङ्गमः ||
मुहूर्तमपि चाद्याहं प्राप्नुयां तृप्तिमुत्तमाम् |
भर्त्रा त्वहमनेनैव मोदिष्ये बहुलास्समाः ||
हिडिम्बी तु महारौद्रा तथा भरतसत्तम |
उत्सृज्य राक्षसं रूपं मानुषं रूपमास्थिता ||
सा कामरूपिणी रूपं कृत्वा मदनमोहिता |
उपतस्थे महात्मानं भीमसेनमनिन्दिता ||
इङ्गिताकारकुशला सोपासर्पच्छनैश्शनैः |
विनम्यमानेव लता दिव्याभरणभूषिता ||
शनैश्शनैस्स तां भीमः समीपमुपसर्पतीम् |
वीक्षमाणस्तथाऽपश्यत् तन्वीं पीनपयोधराम् ||
चन्द्राननां पद्मनेत्रां नीलकुञ्चितमूर्धजाम् |
कृष्णां सुपाण्डुरैर्वस्त्रैर् बिम्बोष्ठीं चारुदर्शनाम् ||
दृष्ट्वा तां रूपसम्पन्नां भीमो विस्मयमागतः ॥
उपचारगुणैर्युक्ता ललितैर्भावसंस्थितैः ।
समीपमुपसम्प्राप्य भीमं साऽथ वरानना |
वचो वचनवेलायाम् इदं प्रोवाच पाण्डवम् ||
लज्जया नम्यमानेव सर्वाभरणभूषिता |
स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत् ||
हिडिम्बी
कुतस्त्वमसि सम्प्राप्तः कश्चासि पुरुषर्षभ |
क इमे शेरते चेह पुरुषा देवरूपिणः ||
केयं च बृहती श्यामा सुकुमारी तवानघ |
शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा ||
नेदं जानीथ गहनं वनं राक्षससेवितम् |
वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः ॥
तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा ।
बिभक्षयिषता मांसं युष्माकममरोपम ॥
साऽहं त्वामिह सम्प्रेक्ष्य देवगर्भसमप्रभम् ।
नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते ॥
एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर ।
कामोपहतचित्तां हि भजमानां भजस्व माम् ॥
त्रास्येऽहं त्वां महाबाहो राक्षसात् पुरुषादकात् ।
वत्स्यावो गिरिशृङ्गेषु भर्ता भव ममानघ ॥
इच्छामि वीर भद्रं ते मम प्राणान् विहासिषुः ।
त्वया ह्यहं परित्यक्ता न जीवेयमरिन्दम ॥
अन्तरिक्षचरी चास्मि कामरूपधराऽपि च ।
अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह ॥
भीमसेनः
एष ज्येष्ठो मम भ्राता मान्यः परमको गुरुः ।
अनिविष्टश्च तन्नाहं परिविद्यां कथञ्चन ॥
मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानिमान् ।
परित्यजेद्धि कोन्वद्य भयादपि च राक्षसि ॥
को हि सुप्तानिमान् भ्रातॄन्दत्त्वा राक्षसभोजनम् ।
मातरं च नरो गच्छेत् कामार्त इव मद्विधः ॥
हिडिम्बी
एकं त्वां मोक्षयिष्यामि सह मात्रा परन्तप ।
सोदरानुत्सृजैनांस्त्वम् आरोह जघनं मम ॥
भीमसेनः
नाहं जीवितुमाशंसे भ्रातॄनुत्सृज्य राक्षसि ।
यथाश्रद्धं व्रजैका हि विप्रियं मे प्रभाषसे ॥
राक्षसी
न तेऽप्रियं चिकीर्षामि सर्वानेतान् प्रबोधय ।
मोक्षयिष्यामि वः कामं राक्षसात् पुरुषादकात् ॥
भीमसेनः
सुखसुप्तानिमान् भ्रातॄन् मातरं चैव राक्षसि ।
न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः ॥
न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् ।
न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने ॥
गच्छ वा तिष्ठ वा भद्रे यद्वाऽपीच्छसि तत्कुरु ।
तं वा प्रेषय तन्वङ्गि राक्षसं पुरुषादकम् ॥