वैशम्पायनः
तेन विक्रमता ऊरुवेगसमीरितः ।
प्रववावनिलो राजण् शुचिशुक्रागमे यथा॥
स मृद्नन् पुष्पितांश्चैव फलिनश्च वनस्पतीन् ।
आरुजन् दारुगुल्मांश्च पथस्तस्य समीपगान् |
तथा वृक्षान् भञ्जमानो जगामामितविक्रमः ||
तस्य वेगेन पञ्चानां मूर्च्छेव समजायत ||
असकृच्चापि सन्तीर्य पारावारं भुजप्लवाः ।
पथा प्रच्छन्नमासेदुर् धार्तराष्ट्रभयात्तदा ॥
कृच्छ्रेण मातरं ह्येकां सुकुमारीं यशस्विनीम् ।
अवहत्तत्र पृष्ठेन रोधस्सु विषमेषु च ॥
अगमच्च वनोद्देशम् अल्पमूलफलोदकम् ।
क्रूरपक्षिमृगं घोरं सायं समुपचक्रमुः ॥
घोरा समभवत् सन्ध्या दारुणा मृगपक्षिणः ।
अप्रकाशा दिशस्सर्वाश् शनैरासस्ततस्तदा ॥
ते श्रमेण च कौरव्यास् तृष्णया च प्रपीडिताः ।
नाशक्नुवंस्ततो गन्तुं निद्रया च प्रवृद्धया ॥
शीर्णपर्णफलैर्वृक्षैर् बहुगुल्मक्षुपद्रुमैः ।
प्रभग्नायनभूयिष्ठे श्वदंष्ट्रबहुले सदा ॥
न्यविशन्त हि ते तत्र निरास्वादे महावने ||
रात्र्यामेव गतास्तत्र चतुर्विंशतियोजनम् |
अथ तृष्णापरिम्लाना कुन्ती वचनमब्रवीत् ||
कुन्ती
माता सती पाण्डवानां पञ्चानां मध्यतस्स्थिता ।
तृष्णया परितप्तास्मि अनाथेव महावने ॥
वैशम्पायनः
तच्छ्रुत्वा भीमसेनस्तु मातृवाक्यं प्रकम्पितः ।
कारुण्येन मनश्चक्रे गमनायाथ सत्वरः ॥
ततो भीमो वनं घोरं प्रविश्य विजनं महत् ।
न्यग्रोधं विपुलच्छायं रमणीयमुपाद्रवत् ॥
तत्र निक्षिप्य तान् सर्वान् उवाच भरतर्षभः ।
पानीयं मृगये यावत् तावद्विश्रम्यतामिह ॥
एते रुवन्ति मधुरं सारसा जलचारिणः ।
ध्रुवमत्र जलस्थानम् अहर्तीति मतिर्मम ॥
अनुज्ञातस्स गच्छेति भ्रात्रा ज्येष्ठेन भारत ।
जगाम तत्र यत्र स्म रुवन्ति जलचारिणः ॥
अपश्यत् पद्मिनीखण्डमण्डितं स सरोवरम् ||
स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभः |
उत्तरीयेण पानीयम् आजहार परन्तपः ॥
पङ्कजानामनेकैश्च पत्रैर्बध्वा जलाशयात् ।
गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति ||
स सुप्तां मातरं प्रेक्ष्य भ्रातॄंश्च वसुधातले ।
भृशं दुःखपरीत्मा विललाप वृकोदरः ॥
भीमसेनः
शयनेषु परार्ध्येषु प्रसुप्ता वारणावते ।
नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले ॥
स्वसारं वसुदेवस्य शत्रुसङ्घविमर्दिनः ।
भोजराजसुतां कुन्तीं सर्वलक्षणपूजिताम् ॥
स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः ।
प्रासादशयनां नित्यं पुण्डरीकान्तरप्रभाम् ॥
सुकुमारतरां स्त्रीणां महार्हशयनोचिताम् ।
शयानामद्य पश्यामि पृथिव्यां हन्त भो विधे ॥
धर्मादिन्द्राच्च वायोश्च सुषुवे या सुतानिमान् ।
सेयं भूमौ परिश्रान्ता शेते प्राकृतवत् कथम् ॥
अयं नीलाम्बुदप्रख्यो नरेष्वप्रतिमो भुवि ।
शेते प्राकृतवद्भूमौ ततो दुःखतरं नु किम् ॥
इमौ नीलोत्पलश्यामौ नरेष्वप्रतिमौ भुवि ।
अश्विनाविव देवानां याविमौ रूपसम्पदा ||
तौ तु प्राकृतवच्चोमौ प्रसुप्तौ धरणीतले |
ज्ञातयो यस्य नै स्युर् विषमाः कुलपांसनाः |
स जीवेत् सुखितो लोके ग्रामद्रुम इवैकजः ||
एको वृक्षो हि यो ग्रामे भवेत् पर्णफलान्वितः ।
चैत्यो भवति निर्ज्ञातिर् अर्चनीयस्सुपूजितः ॥
येषां च बहवश्शूरा ज्ञातयो धर्मवत्सलाः ।
ते जीवन्ति चिरं लोके भवन्ति च निरामयाः ॥
बलवन्तस्समृद्धार्था मित्रबान्धवनन्दनाः ।
जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव ॥
वयं च धृतराष्ट्रेण सपुत्रेण दुरात्मना ।
विवासिताश्च दग्धाश्च क्षत्तुर्बुद्धिपराक्रमात् ॥
तस्मान्मुक्ता वयं दाहाद् इमं वृक्षमुपाश्रिताः ।
कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् ॥
नातिदूरेण नगरं वनादस्माद्धि लक्षये ।
जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहं स्वयम् ॥
वैशम्पायनः
प्राश्यन्तीमे जलं पश्चात् प्रतिबुद्ध्वा जितक्लमाः ।
इति भीमो विनिश्चित्य जागर्ति स्म प्रयत्नवान् ॥