वैशम्पायनः
पाण्डवाश्चापि निर्गम्य नगराद्वारणावतात् |
जवेन प्रययुर्वीरा दक्षिणां दिशमाश्रिताः ||
एतस्मिन्नेव काले तु यथासम्प्रत्ययं कविः ।
विदुरः प्रेषयामास तद्वनं पुरुषं शुचिम् ॥
स गत्वा तु वनोद्देशे वने प्रैक्षत पाण्डवान् ।
सह मात्रा नरव्याघ्रान् अनयज्जाह्नवीं ततः ॥
विदितं तन्महाबुद्धेर् विदुरस्य महात्मनः ।
तत्रस्थस्यापि चारेण पापानां वै चिकीर्षितम् ॥
ततो धर्मविदाऽनेन प्रहितः पुरुषश्शिवः ||
सर्वगां जवनां नावं युक्तारित्रां पताकिनीम् ।
शिवे भागीरथीतीरे विश्वास्यैर्मनुजैर्वृताम् ||
पाण्डवान् दर्शयामास चवनं चेदमब्रवीत् ॥
पुरुषः
क्षत्रघ्नं शिशिरघ्नं च महाकुक्षीबिलौकसम् ।
बोद्धव्यमिति यत्प्राह विदुरस्तदिदं तदा ॥
तेन मां प्रेषितं विद्धि विश्वस्तं वै महात्मना ।
अब्रवीच्च महाबाहुर् विदुरस्सर्वधर्मवित् ||
अधिक्षिपन् धार्तराष्ट्रं सभ्रातृकमुदारधीः |
कर्णं च दुर्मतिं क्रूरं शकुनिं चापि सौबलम् ||
दुर्योधनः कुलस्यास्य कीर्तिधर्मविनाशनः |
गान्धारराजसहितः पितरं पातयिष्यति ||
राजा चाप्यपरीजानन् सनेहबद्धो दुरात्मसु |
धृतराष्ट्रः परीतात्मा धर्मं त्यजति शाश्वतम् ||
वैशम्पायनः
पाण्डवाश्च तथा गत्वा गङ्गायास्तीरमुत्तमम् |
निषादाधिपतिं वीरं दाशं परमधार्मिकम् ॥
दीपिकाभिः कृतालोकं मार्गमाणं च पाण्डवान् ।
ददृशुः पाण्डवेयास्ते नाविकं त्वरयाऽन्वितम् ॥
निषादस्तत्र कौन्तेयान् अभिज्ञानं न्यवेदयत् ।
विदुरस्य महाबुद्धेर् म्लेच्छभाषादि यत्तदा ॥
नाविकः
विदुरेणास्मि सन्दिष्टो दत्त्वाऽऽशु तद्धनं महत् ।
गङ्गातीरे निविष्टस्त्वं पाण्डवांस्तारयेस्त्विति ॥
सोऽहं चतुर्दशीमद्य गङ्गाया अविदूरतः ।
चारैरन्वेषयाम्यस्मिन् वने मृगगणान्विते ॥
प्रभाववन्तो भद्रं वो नावमारुह्य गम्यताम् ||
युक्तारित्रपताकां वै निर्मितां मन्दिरोपमाम् |
इमां वारिपथे युक्तां तथैव सुखगामिनीम् ।|
मोचयिष्यामि वस्सर्वान् मृत्युपाशात् समातृकान् ॥
ततस्तान् व्यथितान् सर्वान् सह मात्रा परन्तपान् |
नावमारोप्य गङ्गायां प्रयातां पुनरब्रवीत् ॥
विदुरो मूर्ध्न्युपाघ्राय परिष्वज्य वचो मुहुः ।
अरिष्टं गच्छताव्यग्राः पन्थानमिति चाब्रवीत् ॥
इत्युक्त्वा तान् समारोप्य तारयामास पाण्डवान् ।
इत्युक्त्वास्सह मात्रा ते तस्मान्मुक्ता महाभयात् ॥
गङ्गामुत्तीर्य कौन्तेया वनं जग्मुर्यथागतम् ||
ततस्तां तत्र तीर्त्वा तु गङ्गां भागीरथीं नदीम् |
जवेन प्रययुर्वीरा दक्षिणां दिशमास्थिताः ||
विहाय निद्रां पन्थानं नक्षत्रैर्दक्षिणामुखाः |
गाहमाना वनं राजन् गहनं प्रतिपेदिरे ॥
ततश्श्रान्ताः पिपासार्ता निस्सृताः पाण्डुनन्दनाः ।
पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ॥
इतः कष्टतरं किंनु यद्वयं गहने वने ।
दिशश्च न प्रजानीमो गन्तुं चैव न शक्नुमः ||
तं च पापं न जानीमो यदि दग्धः पुरोचनः |
कथं नु विप्रमुच्येम भयादस्मादलक्षिताः ||
शीघ्रमस्मानुपादाय तथैव व्रज भारत |
त्वं हि नो बलवानेको यथा सततगस्तथा ||
इत्युक्तो धर्मराजेन भीमसेनो महाबलः ।
आदाय कुन्तीं भ्रातॄंश्च जगामाशु महाबलः॥