वैशम्पायनः
अथ रात्र्यां व्यतीतायां सशोको नागरो जनः ।
तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् ॥
निर्वापयन्तो ज्वलनं ते जना ददृशुस्तदा ।
जातुषं तद्गृहं दग्धम् अमात्यं च पुरोचनम् ॥
नूनं दुर्योधनेनेदं विहितं पापकर्मणा ।
पाण्डवानां विनाशाय इत्येवं ते चुक्रुशुर्जनाः ॥
विदितं धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः ।
दग्धवान् पाण्डवान् बालान् न ह्येतत् प्रतिषिद्धवान् ॥
नूनं शान्तनवो भीष्मो न धर्ममनुवर्तते ।
द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः ॥
ते वयं धृतराष्ट्राय प्रेषयामो दुरात्मने ।
संवृत्तस्ते परः कामः पाण्डवान् दग्धवानसि ॥
ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् ।
निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसीम् ॥
खनकेन तु तेनैव वेश्म शोधयता बिलम् ।
पांसुभिः प्रत्यपिहितं पुरुषैस्तैर्न लक्षितम् ॥
ततस्ते प्रेषयामासुर् धृतराष्ट्रस्य नागराः ।
पाण्डवानग्निना दग्धान् अमात्यं च पुरोचनम् ॥
श्रुत्वा तु धृतराष्ट्रस्तद् राजा सुमहदप्रियम् ।
विनाशं पाण्डवेयानां विललाप सुदुःखितः ॥
धृतराष्ट्रः
अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः ।
तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ॥
गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् ।
संस्कारयन्तु तान् वीरान् कुन्तीं राजसुतां तु ताम् ॥
ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि ।
कारयन्तु च कुल्यानि शुभ्राणि च बृहन्ति च ॥
मम दग्धा महात्मानः कुलवंशविवर्धनाः ॥
एवं गते मया शक्यं यद्यत् कारयितुं वरम् ।
पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः ॥
वैशम्पायनः
समेतास्तु ततस्सर्वे भीष्मेण सह कौरवाः ।
धृतराष्ट्रस्सपुत्रश्च गङ्गामभिमुखा ययुः ॥
एकवस्त्रा निरानन्दा निराभरणवेष्टनाः ।
उदकं कर्तुकामा वै पाण्डवानां महात्मनाम् ॥
एवं गत्वा ततश्चक्रे ज्ञातिभिः परिवारितः ।
उदकं पाण्डुपुत्रेभ्यो धृतराष्ट्रोऽम्बिकासुतः ॥
चुक्रुशुः कुरवस्सर्वे भृशं शोकसमन्विताः ।
विदुरस्त्वल्पशश्शोकं चक्रे वेद हि तत्परम् ||
ततः प्रव्यथितो भीष्मः पाण्डुराजसुतान् मृतान् ।
सह मात्रेति तच्छ्रुत्वा विललाप रुरोद च ॥
भीष्मः
हा युधिष्ठिर हा भीम हा धनञ्जय हा यमौ |
हा पृथे सह पुत्रैस्त्वम् एकरात्रेण हन्यसे ||
मात्रा सह कुमारास्ते सर्वे तत्रैव संस्थिताः ।
न हि तौ नोत्सहेयातां भीमसेनधनञ्जयौ ॥
तरसा वेगितात्मानौ निर्भेत्तुमपि मन्दिरम् ।
परासुत्वं न पश्यामि पृथायास्सह पाण्डवैः ॥
सर्वथा विकृतं नीतं यदि ते निधनं गताः ।
धर्मराजस्स निर्दिष्टो ननु विप्रैर्युधिष्ठिरः ॥
पृथिव्यां च रथिश्रेष्ठो भविता स धनञ्जयः ।
सत्यव्रतो धर्मदत्तस् सत्यवाक्छुभलक्षणः ॥
कथं कालवशं प्राप्तः पाण्डवेयो युधिष्ठिरः ।
आत्मानमुपमां कृत्वा परेषां वर्तते तु यः ॥
सह मात्रा तु कौरव्यः कथं कालवशं गतः ।|
पालितश्च चिरं कालं फलकाले यथा द्रुमः |
भग्नस्स्याद्वायुवेगेन तथा राजा युधिष्ठिरः ||
यौवराज्येऽभिषिक्तेन पितुर्येनाहृतं यशः |
आत्मनश्च पितुश्चैव सत्यधर्मस्य वृत्तिभिः ||
स ब्रह्मण्यः परप्रेक्षी हृदि शोकं निधाय मे |
कालेन स हि सम्भग्नो धिक् कृतान्तमनर्थकम् ||
यच्च सा वनवासेन क्लेशिता दुःखभागिनी |
पुत्रगृध्नुतया कुन्ती न भर्तारं मृता त्वनु ||
अल्पकालं कुले जाता भर्तुः प्रीतिमवाप या |
दग्धाऽद्य सह पुत्रैस्सा असम्पूर्णमनोरथा ||
एतच्च चिन्तयानस्य व्यथितं बहुधा मनः ।
अवधूय च मे देहं हृदयेऽग्निरुदीर्यते ॥
पीनस्कन्धश्चारुबाहुर् मेरुकुञ्जसमो युवा ।
मृतो भीम इति श्रुत्वा मनो न श्रद्दधाति मे ॥
अनिन्द्यानि च यो गच्छन् क्षिप्रहस्तो दृढायुधः |
प्रपत्तिमांल्लब्धलक्षो रथयानविशारदः ||
दूरपाती त्वसम्भ्रान्तो महावीर्यो महास्त्रवित् ।
अदीनात्मा नरव्याघ्रश् श्रेष्ठस्सर्वधनुष्मताम् ॥
येन प्राच्यास्ससौवीरा दाक्षिणात्याश्च निर्जिताः ।
ख्यापितं येन शूरेण त्रिषु लोकेषु पौरुषम् ॥
यस्मिञ्जाते विशोकाऽभूत् कुन्ती पाण्डुश्च वीर्यवान् ।
पुरन्दरसमो जिष्णुः कथं कालवशं गतः ॥
कथं तावृषभस्कन्धौ सिंहविक्रान्तगामिनौ ।
मर्त्यधर्ममनुप्राप्तौ यमावरिनिबर्हणौ ॥
वैशम्पायनः
तस्य विक्रन्दितं श्रुत्वा उदकं च प्रसिञ्चतः ।
देशं कालं समाज्ञाय विदुरः प्रत्यभाषत ॥
मा शोचीस्त्वं नरव्याघ्र जहि शोकं महाव्रत |
न तेषां विद्यते पापं प्राप्तकालं कृतं मया ॥
एतच्च तेभ्य उदकं विप्रसिञ्च न भारत ।
सोऽब्रवीत् किञ्चिदुत्सार्य कौरवाणामशृण्वताम् ||
क्षत्तारमुपसङ्गृह्य बाष्पोत्पीडकलस्वरः ||
भीष्मः
कथं ते तात जीवन्ति पाण्डोः पुत्रा महारथाः ।
कथमस्मत्कृते पक्षः पाण्डोर्न हि निपातितः ॥
कथं मत्प्रमुखास्सर्वे प्रमुक्ता महतो भयात् ।
जननी गरुडेनेव कुमारास्ते समुद्धृताः ॥
वैशम्पायनः
एवमुक्तस्तु कौरव्य कौरवाणामशृण्वताम् ।
आचचक्षे स धर्मात्मा भीष्मायाद्भुतकर्मणे ॥
विदुरः
धृतराष्ट्रस्य शकुने राज्ञो दुर्योधनस्य च ।
विनाशे पाण्डुपुत्राणां कृतो मतिविनिश्चयः ॥
तत्राहमपि च ज्ञात्वा तस्य पापस्य निश्चयम् ।
तं जिघांसुरहं चापि तेषामनुमते स्थितः ॥
ततो जतुगृहं गत्वा दहनेऽस्मिन् नियोजिते ।
पृथायाश्च सपुत्राया धार्तराष्ट्रस्य शासनात् ॥
ततः खनकमाहूय सुरङ्गां वै बिले तदा ।
सगुहां कारयित्वा ते कुन्त्या पाण्डुसुतास्तदा ॥
निष्क्रामिता मया पूर्वं मा स्म शोके मनः कृथाः ||
ततस्तु नावमारोप्य सहपुत्रां पृथामहम् |
दत्त्वाऽभयं सपुत्रायै कुन्त्यै गृहमदाहयम् ||
तस्मात्ते मा स्म भूद्दुःखं मुक्ताः पापात्तु पाण्डवाः |
निर्गताः पाण्डवा राजन्मात्रा सह परन्तपाः ||
अग्निहादान्महाघोरान्मया तस्मादुपायतः |
मा शोकं कार्षी राजंस्त्वं जीवन्त्येव च पाण्डवाः ||
प्रच्छन्ना विचिरिष्यन्ति यावत्कालस्य पर्ययः ॥
तस्मिन् युधिष्ठिरं काले द्रक्ष्यन्ति भुवि भूमिपाः ।
विमलं कृष्णपक्षान्ते जगच्चन्द्रमिवोदितम् ॥
न तस्य नाशं पश्यामि यस्य भ्राता धनञ्जयः ।
भीमसेनश्च दुर्धर्षौ माद्रीपुत्रौ च भारत ॥