वैशम्पायनः
विदुरस्य सुहृत् कश्चित् खनकः कुशलः क्वचित् ।
विविक्ते पाण्डवान् राजन् इदं वचनमब्रवीत् ॥
प्रहितो विदुरेणास्मि खनकः कुशलो भृशम् ।
पाण्डवानां प्रियं कार्यम् इति किं करवाणि वः ॥
वैशम्पायनः
प्रच्छन्नं विदुरेणोक्तं पाण्डव म्लेच्छभाषया ।
त्वया च तत्तथेत्युक्तम् एतद्विश्वासकारणम् |
उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः ||
युधिष्ठिरः
अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै |
प्रथमाप्तं प्रियं भक्तं सदा प्रियहितैषिणम् ||
न विद्यते कवेः किञ्चिद् अविज्ञातं प्रयोजनम् |
यथा नस्स तथाऽसि त्वं निर्विशेषा वयं त्वयि ||
भवतश्च यथा तस्य पालयास्मान् यथा कविः ॥
इदं शरणमाग्नेयं मदर्थमिति मे मतिः ।
पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् ॥
स पापः कोशवांश्चैव ससहायश्च दुर्मतिः ।
अस्मानपि च दुष्टात्मा नित्यकालं प्रबाधते ॥
स भवान् मोचयत्वस्मान् उत्पन्नादौ हुताशनात् ।
अस्मास्विह च दग्धेषु सकामः स्यात्सुयोधनः ॥
समृद्धमायुधागारम् इदं तस्य दुरात्मनः ।
वप्रान्तं निष्प्रतीकारमाश्रित्येदं कृतं महत् ॥
इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् ।
प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् ॥
सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान् पुरा ।
पुरोचनस्याविदितम् अस्मांस्त्वं विप्रमोचय ॥
वैशम्पायन
स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः ।
परिखामुत्किरन्नाम चकार सुमहाबिलम् ॥
समीपे वेश्मनस्तस्य चक्रे नातिमहन्मुखम् ।
कपाटयुक्तमज्ञातं समं भूम्याश्च भारत |
पुरोचनभयाच्चैव व्यदधात् संवृतं मुखम् ||
स तस्मिन् हि गृहद्वारि वसत्यशुभधीस्सदा ।
ततस्ते सायुधास्सर्वे वसन्ति स्म क्षपां नृप ॥
दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम् ।
विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् ॥
अतुष्टास्तुष्टवद्राजन् ऊषुः परमदुःखिताः ॥
न चैनानन्वबुध्यन्त नरा नगरवासिनः ।
अन्यत्र विदुरामात्यात् तस्मात् खनकसत्तमात् ॥