वैशम्पायनः
ततस्सर्वाः प्रकृतयो नगराद्वारणावतात् ।
सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः ॥
श्रुत्वाऽगतान् पाण्डवेयान् वारणवतगता जनाः ।
अभिजग्मुर्नरश्रेष्ठाश् श्रुत्वैव परया मुदा ॥
ते समासाद्य कौन्तेयान् वारणावतगा जनाः ।
कृत्वा जयाशिषस्सर्वे परिवव्रुर्युधिष्ठिरम् ॥
तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः ।
विबभौ देवसङ्काशो वज्रपाणिरिवामरैः ॥
सत्कृताश्चैव पौरैश्च पौरान् सत्कृत्य चानघाः ।
अलङ्कृतजनाकीर्णं विविशुर्वारणावतम् ॥
ते प्रविश्य पुरीं वीरास् तूर्णं जग्मुरथो गृहान् ।
ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु ॥
नगराधिकृतानां च गृहाणि रथिनां तदा ।
उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहाण्यपि ॥
अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभ ।
जग्मुरावसथं पश्चात् पुरोचनपुरस्कृताः ॥
तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च ।
आसनानि च मुख्यानि प्रददौ स पुरोचनः ॥
तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः ।
उपास्यमानाः पुरुषैर् ऊषुः पुरनिवासिभिः ॥
दशरात्रोषितानां तु तत्र तेषां पुरोचनः ।
निवेशयामास गृहं शिवाख्यमशिवं तदा ॥
तत्र ते पुरुषव्याघ्रा ददृशुस्सपरिच्छदाः ।
पुरोचनस्य वचनात् कैलासमिव गुह्यकाः ॥
तत्त्वगारमभिप्रेक्ष्य सर्वकर्मोपशोभितम् ।
उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः ॥
युधिष्ठिरः
जिघ्रन् सम्यग्वसागन्धं सर्पिर्जतुविमिश्रितम् ।
कृतं हि व्यक्तमाग्नेयम् इदं वेश्म परन्तप ॥
मृदेषा व्यक्तमाग्नेयैर् द्रव्यैर्मिश्रस्य वेश्मनः |
शणसर्जरसोपेता ह्यालिप्ता गृहभित्तिषु ||
मुञ्जबल्वजवंशादि नूनं सर्वं घृतोक्षितम् |
शणबल्वजकार्पासवंशदारुकटान्यपि ||
आग्नेयान्यत्र क्षिप्तानि परितो वेश्मनस्तथा |
शिल्पिभिस्सुभृतैराप्तैर् विनीतैर्वेश्म निर्मितम् ||
विश्वस्तानिह नः पापो दग्धुकामः पुरोचनः |
इमां तु वै महाबुद्धिर् विदुरो दृष्टवान् किल ॥
इमामेवापदं पार्थ तदाऽहं प्रतिबोधितः ।
ते वयं बोधितास्तेन बुद्धिमन्तोऽशिवं गृहम् ॥
अनार्यैस्सुकृतं गूढैर् दुर्योधनवशानुगैः ॥
भीमसेनः
यदिदं गृहमाग्नेयं विहितं मन्यते भवान् ।
तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् ॥
इह यत्तैर्निराकारैर् वस्तव्यमिति रोचते |
तुष्टैरिव विचिन्वद्भिर् गतिमन्यां ब्रवीमि वः ||
आकारं यदि जानीयाद् अस्माकं हि पुरोचनः ।
क्षिप्रकारी ततो भूत्वा प्रसह्यापि दहेत्ततः ॥
नायं बिभेत्युपक्रोशाद् अधर्माच्च पुरोचनः।
तथा च वर्तते मन्दः सुयोधनमते स्थितः ॥
अपि चास्मासु दग्धेषु भीष्मः कुरुपितामहः ।
न कुप्येत किमर्थं वा कौरवान् कोपयेन्न सः ॥
तथा हि सह दग्धेषु विदुरस्स पितामहः ।
कर्मो नेहेति कुप्येत तथाऽन्ये कुरुपुङ्गवाः ॥
उपपन्नं तु दग्धेषु कुलवंशोऽनुकीर्तितः ।
कुप्येरन् यदि धर्मज्ञास् तथा ये कुरुपुङ्गवाः ॥
वयं तु यदि दाहाद्वै बिभ्यतः प्रद्रवेमहि ।
स्पर्शैर्नो गातयेत् सर्वान् राज्यलुब्धस्सुयोधनः ॥
अपदस्थान् पदे तिष्ठन् अक्षान् पक्षसंस्थितः ।
हीनकोशान् महाकोशः प्रयोगैर्घातयेद्ध्रुवम् ॥
तदस्माभिरिमं पापं तं च पापं सुयोधनम् ।
वञ्चयद्भिर्निवस्तव्यं छन्नं वीर क्चचित्क्वचित् ॥
ते वयं मृगयाशीलाश् चराम वसुधामिमाम् ।
तथा नो विदिता मार्गा भविष्यन्ति पलायताम् ॥
भौमं च बिलमद्यैव कारयामस्सुसंवृतम् ।
गृहोच्छ्वासं ततस्तत्र हुताशस्सम्प्रधक्ष्यति ॥
द्रवतोऽत्र यथा चास्मान् न बुध्येत पुरोचनः ।
पौरो वाऽपि जनः कश्चित् तथा कार्यमतन्द्रितैः ॥