वैशम्पायनः-
धृतराष्ट्रप्रयुक्तेषु पाण्डवेषु महात्मसु ।
दुर्योधनः परं हर्षमाजगाम दुरात्मवान् ॥
ततस्तु सूतपुत्रश्च कर्णो दुर्योधनस्तथा ।
मन्त्रयित्वा स तैस्सार्धं दुरात्मा धृतराष्ट्रजः ।
दहने सह पुत्रायाः कुन्त्या मतिमकुर्वत ॥
स पुरोचनमेकान्तमानीय भरतर्षभ ।
गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत् ॥
दुर्योधनः-
ममेयं वसुसम्पूर्णा पुरोचन वसुन्धरा ।
यथैव भविता तात तथा त्वं द्रष्टुमर्हसि ॥
न हि मे कश्चिदन्योऽस्ति विश्वासिततरस्त्वया ।
सहायो मेऽस्ति सन्धाय मन्त्रयेयं यथा त्वया ॥
संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर ।
निपुणेनाभ्युपायेन तव वक्ष्यापि तच्छ्रुणु ॥
पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् ।
उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् ॥
स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना ।
वारणावतमद्यैव यथा यासि तथा कुरु ॥
तत्र गत्वा चतुश्शालं गृहं परमसंवृतम् ।
आयुधागारमाश्रित्य कारयेथा महाधनम् ॥
शणसर्जरसादीनि यानि द्रव्याणि कानिचित् ।
आग्नेयान्यत्र कुण्ड्येषु तानि सर्वाणि दापय ॥
एरण्डजेन सम्मिश्रं मधूच्छिष्टेन चैव हि ।
सर्पिषा च सतैलेन लाक्षया चाप्यनल्पया ॥
मृत्तिकां मिश्रयित्वा च लेपं कुड्येषु दापय ॥
शाणवंशकटं दारुयन्त्राणि विविधानि च ।
वेश्मनस्तस्य सर्वत्र निक्षिपेथास्समन्ततः ॥
यथा च तन्न शङ्केरन्परीक्षन्तोऽपि पाण्डवाः ।
आग्नेयमिति तत्कार्यमपि चान्येऽपि मानवाः ॥
वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् ।
वासयेथाः पाण्डवेयान्कुन्तीं च ससुहृज्जनाम् ॥
तत्रासनानि मुख्यानि यानानि शयनानि च ।
विघातव्यानि पाण्डूनां यथा तुष्येच्च मे पिता ॥
ततो रमेरन्विश्वस्ता नगरे वारणावते ।
तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः ॥
ज्ञात्वा परमविश्वस्तान्नितरामकुतोभयान् ।
अग्निस्तस्य त्वया देयो द्वारतस्तस्य वेश्मनः ॥
दग्धानेवं स्वके गेहे दाहिताः पाण्डवा इति ।
ज्ञातयो न वदिष्यन्ति पाण्डवार्थाय केचन ॥
वैशम्पायनः-
स तथेति प्रतिज्ञाय कौरवाय पुरोचनः ।
प्रायाद्रासभयुक्तेन नगरं वारणावतम् ॥
स गत्वा त्वरितं राजन्दुर्योधनमते स्थितः ।
यथोक्तं राजपुत्रेण तथा चक्रे पुरोचनः ॥
यथाऽऽज्ञप्तं नृपतिना कौरवेण यशस्विना ।
एषां तु पाण्डवेयानां गृहं रौद्रमकारयत् ॥ ॥