वैशम्पायनः-
कणिङ्कस्य मतं ज्ञात्वा कार्त्स्न्येन भरतर्षभ ।
दुर्योधनश्च कर्णश्च शकुनिस्सौबलस्तथा ॥
दुर्योधनः-
दुशासनचतुर्थास्ते मन्त्रयामासुरेकतः ।
ततो दुर्योधनो राजन्धृतराष्ट्रमभाषत ॥
पाण्डवेभ्यो भयं नास्ति विधत्स्व यदनन्तरम् ॥
वैशम्पायनः-
धृतराष्ट्रः कणिङ्कस्य श्रुत्वा वाक्यमुवाच ह ।
यथा न वाच्यतां पुत्र गच्छामः कुरु तत्तथा ॥
ततो दुर्योधनो राजन्सर्वास्तु प्रकृतीः शनैः ।
अर्थमानप्रदानेन स जग्राह सहानुजः ॥
धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः ।
कथयाञ्चक्रिरे रम्यं नगरं वारणावतम् ॥
अयं समाजस्सुमहान्रमणीयतरो भुवि ।
उपस्थितः पशुपतेर्नगरे वारणावते ॥
सर्वरत्नसमाकीर्णे पुण्यदेशे मनोरमे ।
इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः ॥
कथ्यमाने तदा रम्ये नगरे वारणावते ।
गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप ॥
यदा त्वाशङ्कितमतिर्जातकौतूहली इति ।
उवाचैतानिति तदा पाण्डवानम्बिकासुतः ॥
धृतराष्ट्रः-
अधीतानि च शास्त्राणि युष्माभिरिह कृत्स्नशः ।
अस्त्राणि च तथा द्रोणाद्गौतमस्य विशेषतः ॥
इदमेवं गते ताताश्चिन्तयामि समन्ततः ।
रक्षणे व्यवहारे च राज्यस्य सततं हिते ॥
इमे हि पुरुषास्तात कथयन्ति पुनःपुनः ।
रमणीयतरं लोके नगरं वारणावतम् ॥
ते तं हि यदि मन्यध्वमुत्सवं वारणावते ।
सगणास्सानुयात्राश्च विहरध्वं यथाऽमराः ॥
ब्राह्मणेभ्यश्च रत्नानि नटेभ्यश्च विशेषतः ।
सम्प्रदध्वं यथाकामं देवा इव सुवर्चसः ॥
कञ्चित्कालं विहृत्यैवमवाप्य च परां मुदम् ।
इहैव हास्तिनपुरे सुखेन पुनरेष्यथ ॥
निवसध्वं च तत्रैव पुरेक्षणपरायणाः ।
वैलक्षण्यं हि तत्रैव भविष्यति परन्तपाः ॥
नगरं पुनरेवैनमथायास्यथ पाण्डवाः ॥
वैशम्पायनः-
धृतराष्ट्रस्य तं काममबुध्यत युधिष्ठिरः ।
आत्मनश्चासहायत्वं तथेति प्रत्युवाच ह ॥
ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् ।
द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् ॥
कृपमाचार्यपुत्रं च गान्धारीं च यशस्विनीम् ।
युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तथा ॥
युधिष्ठिरः-
रमणीये जनाकीर्णे नगरे वारणावते ।
प्रसन्नमनसस्सर्वे पुण्या वाचो विमुञ्चत ॥
सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात् ॥
आशीर्भिर्वर्धितानस्मान्न पापं प्रसहिष्यते ॥
वैशम्पायनः-
एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः ।
प्रसन्नवदना भूत्वा तेऽन्ववर्तन्त पाण्डवान् ॥
स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः ।
मा वोचंस्त्वशुभं किञ्चित्सर्वतः पाण्डुनन्दनान् ॥
ते तथा वर्धोता वृद्धै राज्यलाभाय पाण्डवाः ।
कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् ॥ ॥