वैशम्पायनः-
धृतराष्ट्रः-
ततः कणिङ्कमानाय्य धृतराष्ट्रोऽब्रवीदिदम्॥
उत्सिक्ताः पाण्डवा नित्यं तेभ्योऽसूयामि वै सदा ।
तत्र मे सहपुत्रस्य यद्भवेत्क्षेमकारकम्।
कणिङ्क तत्त्वमाचक्ष्व करिष्यामः कथं वयम्॥
वैशम्पायनः-
सम्प्रपन्नाय तस्मै स परिपृष्टोऽर्थचिन्तया।
वधमेव प्रशंसन्ति शत्रूणामपकारिणाम्।
उवाच वचनं तीक्ष्णं राजशास्त्रनिदर्शनम्॥
निरुद्विग्नो हि भवति हत्वा च रिपुमोजसा॥
कणिङ्कः-
नित्यमुद्यतदण्डस्स्यान्नित्यं च कृतपौरुषः।
हन्यादमित्रं दण्डेन हन्यात्पूर्वापकारिणम्।
न शत्रुरक्षापतितो न मोक्तव्यः कथञ्चन॥
हन्यात्त्रीन्पञ्च सप्तेति परपक्षस्य सर्वशः॥
कण्टको हि दुरुच्छिन्न आस्रावं जनयेच्चिरम्।
कुलमेवादितश्छिन्द्यात्परपक्षस्य नित्यशः।
ततोऽस्यानन्तरं पक्षान्छिन्द्यात्सर्वानशेषतः॥
छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः।
कथं नु शाखास्तिष्ठेयुश्छिन्नमूले वनस्पतौ॥
सुविक्रान्तं सुविसतीर्णं सुयुद्धं सुपलायनम् ।
आपदामथ कालेषु कुर्यान्नात्र विचारणा ॥
कथं नु परियास्यामो न च ज्ञायामहे वयम् ।
दातृत्वेन ग्रहीष्यामो भेदतो दण्डतोऽपिवा ॥
अन्धस्स्यादन्धवेलायां बाधिर्यमपि संश्रयेत् ।
कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् ॥
एकत्र वाऽपि वसतो नित्यं विवरदर्शितम्।
राजन्नाक्षत्रसंपन्नो नित्योद्विग्नस्ततो भवेत्॥
अग्न्याधानेन यज्ञेन काषायधरणेन च।
लोकं प्रस्नापयित्वा च तथा लुम्पेद्यथा वृकः॥
अङ्कुशं शौचमित्याहुरर्थानामुपधारणे।
आनाम्य फलिनीं शाखां पक्वं पक्वं प्रशातयेत्॥
वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः।
ततः काल उपादाय भिन्द्याद्घटमिवाश्मनि॥
अमित्रस्तु न मोक्तव्यः कृपणं बह्वपि ब्रुवन्।
दुःखं तस्मिन्नकर्तव्यं विध्यादेवापकारिणम्॥
हन्यादमित्रं सान्त्वेन तथा दानेन वा पुनः।
तथा भेदेन दण्डेन सर्वोपायैः प्रमापयेत्॥
धृतराष्ट्रः-
कथं सान्त्वेन दानेन भेदैर्दण्डैरथापि च।
अमित्रश्शक्यते हन्तुं तन्मे ब्रूहि यथायथम् ॥
कणिङ्कः-
शृणु राजन्यथा वृत्तं वने वसति जम्बुकः ।
सखायस्तस्य व्याघ्रश्च वृको नकुलमूषकौ॥
ते पश्यन्ति वने तस्मिन्बलिनं मृगयूथपम्।
अशक्ता ग्रहणे तस्य ततो मन्त्रमकुर्वत ॥
जम्बुकः-
असकृद्यतितो ह्येष हन्तुं व्याघ्र त्वयाऽनघ ।
युवा वै जवसम्पन्नो बुद्धिशाली न शक्यते॥
मूषिकोऽस्य शयानस्य चरणौ भक्षयत्वयम्।
अथैनं भक्षितैः पादैर्मृगं व्याघ्रो हनेत्तदा॥
ततस्तं भक्षयिष्यामः सर्वे मुदितमानसाः॥
कणिङ्कः-
जम्बुकः-
जम्बुकस्य तु ते वाक्यं तथा चक्रस्समाहिताः।
मूषिकाभक्षितैः पादैर्मृगं व्याघ्रोऽहनत्तदा॥
स्नात्वाऽऽगच्छत भद्रं वो रक्षामि मृगयूथपम्॥
वैशम्पायनः-
शृगालवचनाच्चाऽपि गतास्सर्वे नदीं ततः।
स चिन्तयानो मनसा मांसतृप्तिं पुनः पुनः॥
अथागच्छत्तु पूर्वं हि स्नात्वा व्याघ्रो महाबलः।
जम्बुकश्च भवत्तत्र तदा चिन्ताकुलो नृप॥
व्याघ्रः-
किं शोचसि महाप्राज्ञ त्वं नो बुद्धिमतां वरः।
पिशितस्याशितारोऽत्र विहरिष्यामहे सुखम्॥
जम्बुकः-
शृणु मे त्वं महाप्राज्ञ यां वाचं मूषिकोऽब्रवीत्।
धिग्बलं मृगराजस्य मयाऽद्यायं मृगो हतः॥
मद्बाहुबलमाश्रित्य तृप्तिर्यस्य भविष्यति।
तस्यैवं गदतस्त्वद्य ततो भक्ष्यं न रोचये॥
व्याघ्रः-
यद्येवमब्रवीति सोऽस्मान् काले चास्म्यवबोधितः।
स्वबाहुबलमाश्रित्य हनिष्येऽहं वनेचरान्॥
कणिङ्कः-
खादिष्यामि च मांसानि इत्युक्त्वा प्रस्थितो वनम्।
एतस्मिन्नेव काले तु मूषिकोऽप्याजगाम ह॥
जम्बुकः-
शृणु मूषिक भद्रं ते नकुलो यदिहाब्रवीत्।
मृगमांसं न सख्यमस्मद्विधस्य तत्॥
मूषिकं भक्षयिष्यामि तद्भवाननुमन्यताम्॥
कणिङ्कः-
तच्छ्रुत्वा मूषिको वाक्यं सन्त्रस्तः प्राद्रवद्भयात्।
ततस्स्नातस्तदा तत्र आजगाम वृको नपृ॥
जम्बुकः-
मृगराजो हि सङ्क्रुद्धो न नस्साधु भविष्यति।
सकलत्रस्समायाति कुरुष्व यदनन्तरम्॥
कणिङ्कः-
एवं सञ्चोदितस्तेन जम्बुकेन तदा वृकः।
भीतोऽवलिप्तं कृत्वाऽथ प्रयातः पिशिताशनः॥
एतस्मिन्नेव काले तु नकुलोऽप्याजगाम ह।
तमुवाच ततो राजन्नकुलं जम्बुको वने॥
जम्बुकः-
स्वबाहुबलमाश्रित्य निर्जितास्ते समागताः।
मम दत्त्वा नियुद्धं त्वं भुङ्क्ष्व मांसं यथेप्सितम् ॥
नकुलः-
मृगराजो वृकश्चैव बुद्धिमांश्चैव मूषिकः ।
निर्जितो वै त्वया वीर तस्माद्वीरतरो भवान्॥
नाहमप्युत्सहे योद्धुमित्युक्त्वा गां विवेश ह॥
कणिङ्कः-
एवं तेष्वपयातेषु जम्बुको हृष्टमानसः।
खादति स्म तदा मांसमित्येवं मन्त्रनिश्चयात्॥
एतत्ते कथितं राजन् शृणु चाप्यपरं नृप॥
पुत्रः सखा वा भ्राता वा पिता वा यदि वा गुरुः।
अर्थे पर्यवतिष्ठेरन्कर्तव्या भूमिवर्धनाः॥
शपथेनाप्यरिं हन्यान्नदोष इति भार्गवः।
उभौ यदि शपेयातां श्रद्दधानस्तु वध्यते॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः।
उत्पथं प्रतिपन्नस्य न्याय्यं भवति शासनम्॥
क्रुद्धोऽप्यक्रुद्धरूपस्स्याच्छुक्लः पूर्वाभिभाषिता।
न चैनं क्रोधसन्दीप्तं विद्यात्कश्चित्कथञ्चन॥
प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत।
प्रहृत्य च प्रियं ब्रूयाच्छोचन्निव रुदन्निव॥
आश्वासयेच्चैव परं सामदानादिवृत्तिभिः।
अथ तं प्रहरेत्काले तथा विचलितं पथि॥
अपि घोरापराधस्य धर्ममाश्रित्य तिष्ठतः।
स हि प्रच्छाद्यते दोषः शैलो मेघैरिवासितैः॥
यस्य स्यात्तु वधस्तस्य नास्त्यगारोपदीपनम्।
अधनान्भिक्षुकं चोरान्विषकर्मसु योजयेत्॥
प्रत्युत्थानासनाद्येन सम्प्रदानेन केनचित्।
प्रतिप्रस्कन्नघाती स्यात्तीक्ष्णदंष्ट्र इवोरगः॥
अशङ्कितेभ्यः शङ्केत शङ्कितेभ्यश्च सर्वशः।
अशङ्क्याद्भयमुत्पन्नमपि मूलान्निकृन्तति॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्।
विश्वास्तः क्षयमाप्नोति तस्मात्सर्वं न विश्वसेत्॥
चारस्सुविहिताः कार्या आत्मनश्च परस्य च।
पाषण्डब्राह्मणादींश्च परराष्ट्रेषु योजयेत्॥
उद्यानेषु विहारेषु देवतायतनेषु च।
पानागारेषु वेशेषु चत्वारेषु सभासु च॥
ब्राह्मणायतने द्यूते पर्वतेषु वनेषु च।
समवायेषु सर्वेषु सरित्सु च विचारयेत्॥
वाचा भृशं विनीतस्स्याद्धृदयेषु तथा क्षुरः।
शुक्लं पूर्वाभिभाषी स्यात्सृष्टो रौद्राय कर्मणे॥
अञ्जलिश्शपथस्सान्त्वं शिरसा पादवन्दनम्।
आशाकरणमित्येतत्कर्तव्यं भूतिमिच्छता॥
सुपुष्पितस्स्यादफलः दुरारुहः फलान्वितः।
आमस्स्यात्पक्वसङ्काशो नच जीर्येत कस्यचित्॥
त्रिवर्गे त्रिविधा पीडा अनुबन्धास्तथैव च।
अनुबन्धास्तु सेवेत पीडास्तु परिवर्जयेत्॥
धर्मेऽतिचरतः पीडा सह द्वाभ्यां निगच्छति।
अर्थश्चाप्यर्थलुब्धस्य कामश्चातिप्रसङ्गिनः॥
अगर्वितात्मा युक्तश्च शान्तियुक्तो न चेच्छुकः।
अवेक्षितात्मा शुद्धात्मा मन्त्रयेत द्विजैस्सह॥
मृदुना केनचिद्राजन्कर्मणा दारुणेन वा।
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत्॥
न संशयमनारुह्य नरो भद्राणि पश्यति।
संशयं तु समारुह्य यदि जीवति पश्यति॥
अनागतेन दुर्बुद्धिं प्रत्युत्पन्नेन पण्डितम्॥
वैरिणा सन्धिमास्थाय शयीत कृतकृत्यवत्।
स वृक्षाग्रे यथा सुप्तः पतन्नेव विबुध्यते॥
मन्त्रसंवरणे यत्नस्सदा कार्योऽनसूयता।
आकार आत्मनो रक्ष्यश्चारेणाभ्यनुपालितः॥
नाच्छित्वा परमर्माणि नाकृत्वा कर्म दुष्करम्।
नाहत्वा मत्स्यघातीव प्राप्नोति परमां श्रियम्॥
कर्शितं व्याधितं श्रान्तमपानीतमनायकम्।
परिविश्वस्तमल्पं च प्रहर्तव्यं रिपोर्बलम्॥
नानर्थकेऽर्थबन्धोऽस्ति कृतार्थे नास्ति सङ्गतम्।
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत्॥
सङ्ग्रहे विग्रहे चैव यत्नः कार्योऽनसूयता।
निग्रहः कालयुक्तश्च कर्तव्यो भूतिमिच्छता॥
नास्य कृत्यानि पश्येयुर्न्मित्राणि रिपवस्तथा।
आरब्धान्येव पश्येयुस्सुपर्यवसितानि च॥
भीतवत्संविधातव्यं यावद्भयमनागतम्।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत्॥
दैवेतोपहतं शत्रुं प्रगृह्णाति च यो नृपः।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा॥
अनागतं च बुध्येत यच्च कार्यमुपस्थितम्।
न तु बुद्धिक्षयात्किञ्चिदतिक्रान्तमवेक्ष्यते॥
उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता।
विभज्य देशकालौ तु सेव्या धर्मादयस्त्रयः॥
निश्श्रेयसाय ते ज्ञेया इह चामुत्र च स्थितिः।
बलवत्कुरुते रूपं बाल्याच्छत्रुरुपेक्षितः॥
गहनेऽग्निरिवोत्सृष्टः क्षिप्रं सञ्जायते महान्।
अग्निं स्तोकमिवात्मानं सन्धुक्षयति पण्डितः॥
स वर्धमानो ग्रसते महान्तमपि सञ्चयम्॥
आदावेव ददानीति प्रियं ब्रूयान्निरर्थकम्।
आशां कालवतीं कुर्यात्कालं विघ्नेन योजयेत्॥
विघ्नं निमित्ततो ब्रूयान्निमित्तानि च हेतुतः॥
क्षुरो भूत्वा दहन्नेव निशितः कालिचारितः।
प्रच्छन्नो रोमवापी स्याद्द्विषतां चावकर्तनः॥
पाण्डवांश्च तथा राजन्नन्यांश्चापि गुरून्प्रति।
वर्तमानो न मज्जेस्त्वं तथा कृत्यं समाचर॥
न हि कुर्यात्सम्पन्नान्विनष्टा इति निश्चयम्।
तस्मात्त्वमपि पुत्रेभ्यो रक्षाऽऽत्मानं नराधिप॥
भ्रातृव्या बलवन्तस्ते पाण्डुपुत्रा नराधिप।
ब्रवीमि तस्माद्विस्पष्टं यत्कर्तव्यमरिन्दम॥
वैशम्पायनः-
एवमुक्त्वा सम्प्रतस्थे कणिङ्कस्स्वगृहं ततः।
तदा सपुत्रो राजा च शोकार्तस्समपद्यत॥॥