वैशम्पायनः-
धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम्।
मुहूर्तमिव सञ्चिन्त्य दुर्योधनमथाब्रवीत्॥
धर्मवृत्तस्सदा पाण्डुस्सुवृत्तो मयि गौरवात्।
सर्वेषु ज्ञातिषु तथा मदीयेषु विशेषतः॥
नात्र किञ्चन जानाति भोजनानि चिकीर्षति।
निवेदयति तत्सर्वं मयि धर्मभृतां वरः॥
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरः सदा।
गुणवाँल्लोकविख्यातो नगरे च प्रतिष्ठितः॥
स तथा वर्तमानोऽसौ धर्मसूनुर्यथाऽनुजः।
राज्यमेष हि सम्प्राप्तः ससहयो विशेषतः॥
ते तथा सत्कृतास्तात विषये पाण्डुना नराः।
कथं युधिष्ठिरस्यार्थे न नो हस्युम्सबान्धवान्॥
नैते विषयमिच्छेयुर्धर्मत्यागे विशेषतः।
ते वयं कौरवेयाणामेतेषां च महात्मनाम्॥
कथं न वाच्यतां तात गच्छेम जगतस्तथा ॥
दुर्योधनः-
मध्यस्थस्सततं भीष्मो द्रोणपुत्रो मयि ध्रुवः।
यतः पुत्रस्ततो द्रोणो भविता नात्र संशयः॥
कृपः शारद्वतश्चैव यत एव वयं ततः।
भागिनेयं ततो द्रौणिं न त्यक्ष्यति कथञ्चन॥
क्षत्ताऽर्थबन्धनस्त्वस्मान् पाण्डवार्थे न बाधितुम्॥
सुविस्रब्धान्पाण्डुसुतान्सह मात्रा विवासय।
वारणावतमद्यैव नात्र दोषो भविष्यति॥
विनिद्रावरणं घोरं हृदि शल्यमिवार्पितम् ।
शोकपावकमुद्भूतं कर्मणा तेन नाशय ॥