वैशम्पायनः-
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम्।
दुर्योधनो लक्षयित्वा पर्यतप्यत दुर्मतिः॥
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः।
अनेकैरभ्युपायैस्तैर्जिघांसन्ति स्म पाण्डवान्॥
पाण्डवाश्चापि तत्सर्वं प्रतिचक्रुर्यथाबलम्।
उद्भावनमकुर्वणा विदुरस्य मते स्थिताः॥
गुणैः समुदितान्दृष्ट्वा जनाः पाण्डुसुतांस्तदा।
कथयन्ति स्म ते भूयो देशे देशे सभासु च॥
प्रज्ञाश्चक्षुरचक्षुष्मान्धृतराष्ट्रो जनाधिपः।
अशक्तो राज्यकरणे स कथं धारयिष्यति॥
तथा भीष्मश्शान्तनवः सत्यसन्धो महाव्रतः।
प्रत्याख्याय पुरा राज्यं न स जातु ग्रहीष्यति॥
ते वयं पाण्डवज्येष्ठं तरुणं वृद्धदर्शनम्।
अभिषिञ्चाम साध्वद्य सत्यकारुण्यवेदिनम्॥
पितामहं शान्तनवं धृतराष्ट्रं च धर्मवित्।
सपुत्रं विविधैर्भोगैर्नियतं वासयिष्यति॥
तेषां दुर्योधनश्श्रुत्वा तानि वाक्यानि सर्वशः।
युधिष्ठिरानुरक्तानि पर्यतप्यत दुर्मतिः॥
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे।
ईर्ष्यया ममुह्यमानस्तु धृतराष्ट्रमुपाद्रवत्॥
ततो विरहितं दृष्ट्वा पितरं परिगृह्य च।
पाण्डोर्वृत्तं पूर्वमुक्त्वा पश्चादिदमथाब्रवीत्॥
दुर्योधनः-
श्रुता मे जल्पतां तात पौराणां चाशिवा गिरः।
त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम्॥
सममेतच्च भीष्मस्य न स राज्यं चिकीर्षति।
अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः॥
स एष पाण्डवो राजा यदि प्राप्नोत्यसंशयम्।
तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः॥
ते वयं राजवंशेन हीनास्सह सुतैरपि।
अवज्ञाता भविष्यामो लोकस्य जगतीपते॥
ते वयं निरयं प्राप्ताः परपिण्डोपजीविनः।
न भवाम यथा राजंस्तथा शीघ्रं समर्थ्यताम्॥
अथ त्वमपि राजेन्द्र राजवंशे भविष्यति।
ध्रुवं लप्स्यामहे राज्यं वयमप्यवशा जने॥