वैशम्पायनः-
धृतराष्ट्रस्तु राजेन्द्र यदा कौरवनन्दनम्।
युधिष्ठिरमजानाद्वै समर्थं राज्यरक्षणे॥
यौवराज्याभिषेकार्थममन्त्रयत मन्त्रिभिः।
ते तु बुद्ध्वाऽन्वतप्यन्त धृतराष्ट्रात्मजास्तदा॥
ततस्संवत्सरस्यान्ते पाण्डुपुत्रो महायशाः।
स्थापितो धृतराष्ट्रेण यौवराज्ये युधिष्ठिरः॥
अदीर्घेण च कालेन कुन्तीपुत्रो युधिष्ठिरः।
पित्र्यामन्तर्दधे कीर्तिं शीलवृत्तसमाधिभिः॥
असियुद्धे रथोद्याने बाहुयुद्धे च पाण्डवः।
सङ्कर्षणाच्छिक्षितवान्शश्वच्छिक्षां वृकोदरः॥
ते तं बुध्वाऽन्वतप्यन्त धृतराष्ट्रात्मजास्तदा ।
समाप्तशिक्षो भीमस्तु द्युमत्सेनसमो बले॥
ततस्संवत्सरस्यान्ते पाण्डुपुत्रो महायशाः ।
गदाबलाभ्यां सम्पन्नो भ्रातॄणामचरद्वशे॥
प्रगाढदृढमुष्टौ च लाघवे चातिवेधने।
लक्षवेध्ये च मोक्षे च तोमरग्रहणेऽपि च ॥
असिशक्तिगदायुद्धे बभूवाप्रतिमोऽर्जुनः ॥
क्षुरनाराचभल्लानां विपाठानां सुतेजसाम्।
ऋजुवक्त्रविशालानां प्रयोक्ता पाण्डवोऽभवत्॥
लाघवात्सौष्ठवाच्चैव नान्यः कश्चित्तु विद्यते।
बीभत्सुसदृशो लोक इति द्रोणोऽभ्यभाषत॥
गजयुद्धेऽश्वयुद्धे वा रथयुद्धे च पाण्डवः ।
पारगो भुजयुद्धे च बभूवेह धनञ्जयः ॥
स्वभावादगमच्छब्दो महीं सागरमेखलाम् ।
नास्त्यर्जुनसमः कश्चिदित्येवं मेनिरे जनाः ॥
अथाब्रवीत्तदा द्रोणः फल्गुनं जनसंसदि॥
अगस्त्यस्य धनुर्वेदे शिष्यो मम गुरुस्सदा।
अग्निवेश्य इति ख्यातस्तस्य शिष्योऽस्मि भारत॥
तीर्थात्तीर्थगतं पार्थ मया सङ्क्रामितं त्वयि।
तपसेदं मया प्राप्तममोघमशनिप्रभम्॥
अस्त्रं ब्रह्मशिरो नाम यद्दहेत्पृथिवीमपि॥
ददता चास्मि सन्दिष्टो न मनुष्येष्विदं त्वया।
भारद्वाज विमोक्तव्यमस्त्रं संयुगमूर्धनि॥
यद्यदन्तर्हितं भूतं किञ्चिद्युद्धे त्वया सह।
महातेजस्तदेतेन हन्याश्शस्त्रेण संयुगे॥
अवाप्तं तत्त्वया वीर दिव्यं नान्यस्तदर्हति॥
समयश्च रक्ष्यो बलवानीदृशो हि विशाम्पते।
आचार्यदक्षिणां देहि ज्ञातिग्रामस्य पश्यतः॥
ददामीति प्रतिज्ञाते फल्गुनेनाब्रवीद्गुरुः।
युद्धे हि प्रतियोद्धव्यो युध्यमानोऽप्यहं रणे॥
तत्तथेति प्रतिज्ञाय द्रोणाय कुरुपुङ्गवः।
उपसङ्गृह्य चरणौ युधिष्ठिरवशोऽभवत्॥
गदायुद्धेऽसियुद्धे च रथयुद्धे च भारत।
दिव्यमानुषसंभूतानवापस्त्रविदां वरः ॥
सर्वास्तथाऽखिलानस्त्रान्शस्त्राणिच तथा गुरोः ।
सर्वां तामखिलां नीतिं पातालाधिपतेस्तथा ॥
उद्धवात्सकलां नीतिं भोजाद्बुद्धिमतां वरः ॥
अस्त्रे शस्त्रे च शास्त्रे च रथनागाश्वकर्मणि ।
अवाप्य सहदेवोऽपि भ्रातॄणामचरद्वशे ॥
द्रोणेनैवं विनीतश्च भ्रातॄणां नकुलः प्रियः।
चित्रयोधी समाख्यातो बभूवातिरथोदितः॥
त्रिवर्षकृतयत्नैस्तु गान्धर्वाणामुपप्लवे।
अर्जुनप्रमुखैः पार्थैः सौवीरास्समरे हताः॥
न शशाक वशे कर्तुं यं पाण्डुरपि वीर्यवान्।
सोऽर्जुनेन वशं नीतो स राजा यवनाधिपः॥
अतीव बलसम्मत्तस्त्वतिमानी कुरून्प्रति।
कुन्तलो नाम सौवीरो दान्तः पार्थेन धीमता॥
दान्तवक्रमिति ख्यातं पुरं पार्थस्य कर्मणा।
अमित्रं नाम सौवीरमर्जुनोऽमर्दयन्मृधे॥
भीमसेनसहायश्च हत्वा वै मरुधन्वसु।
प्रतीच्यां समरे राजन्जिगाय भरतर्षभः ॥
अर्जुनस्समरे प्राच्यान्सर्वानेकरथोऽजयत्।
तथैवैकरथो भूत्वा दक्षिणात्यान्नराधिपान्॥
धनौघं प्रापयामास कुरुराष्ट्रं धनञ्जयः।
अतः पञ्चदशे वर्षे सर्वमेतच्चकार सः॥
तं दृष्ट्वा धार्तराष्ट्राणां ततो भयमजायत॥
यस्सर्वान्धृतराष्ट्रस्य पुत्रान्विप्रचकार ह।
भीमसेनो महाबाहुर्बलाद्बलवतां वरः॥
अदुष्टभावं तं दोषैर्जगृहुर्दुष्टबुद्धयः।
धार्तराष्ट्रास्तथा सर्वे भयाद्भीमस्य कर्मणः॥
तान्दृष्ट्वा कर्मभिः पार्थान्सर्वानहतलक्षणान् ।
बलाद्बहुबलात्तेभ्यो बिभियुर्दुष्टबुद्धयः॥
ततो बलमभिख्यातं विज्ञाय दृढधन्विनाम् ।
दूषितस्सहसा भावो धृतराष्ट्रस्य पाण्डुषु ॥