जनमेजयः-
द्रुपदस्यापि विप्रर्षे श्रोतुमिच्छामि सम्भवम् ।
कथं चापि समुत्पन्नः कथमस्त्राण्यवाप्तवान् ॥
एतदिच्छामि भगवंस्त्वत्तश्श्रोतुं द्विजोत्तम ।
कौतूहलं जन्मसु मे कथ्यमानेष्वतीव हि ॥
वैशम्पायनः-
राजा बभूव पाञ्चालः पुत्रार्थी पुत्रकारणात् ।
वनं गतो महाराज तपस्तेपे सुदारुणम् ॥
आराधयन्प्रयत्नेन तस्यापत्यस्य कारणात् ॥
तस्य सन्तप्यमानस्य वने मृगगणायुते ।
कालस्तु सुमहान्राजन्प्रत्यगात्सुतकारणात् ॥
स तु राजा महावीरस्तपस्तीव्रं समाददे ।
कञ्चित्कालं वायुभक्षो निराहारस्तथैव च ॥
तस्य त्वेवं महाबाहोर्वर्तमानस्य भारत ।
कालस्तत्र महाराज व्यत्ययान्नृपसत्तम ॥
ततो नातिचिरात्काले वसन्ते कामदीपने ।
फुल्लाशोकवने चैव प्राणिनां सुमनोरमे ॥
नद्यास्तीरमथो गत्वा गङ्गायाः पद्मलोचनः ।
नियमस्थश्च राजाऽऽसीत्तदा भरतसत्तम ॥
ततो नातिचिरात्कालाद्वनं तन्मनुजेश्वर ।
सम्प्राप्ता सहसा राजन्मेनकेति परिश्रुता ॥
नद्यास्तीरे चरन्ती वै क्रीडन्ती च पुनः पुनः ।
पुष्पद्रुमान्प्रभञ्जन्ती राज्ञो दर्शनमागमत् ॥
न ददर्श तु सा राजंस्तत्र स्थानगतं नृपम् ।
दृष्ट्वा चाप्सरसं तां तु शुक्रं राज्ञोऽपतद्भुवि ॥
तच्च राजा तु राजेन्द्र लज्जया नृपतिस्स्वयम् ।
पद्भ्यामाक्रमतायुष्मंस्ततस्तु द्रुपदोऽभवत् ॥
ततस्तु तपसा तस्य राजर्षेर्भावितात्मनः ।
पुत्रस्समभवच्चार्द्रात्पदात्तस्यान्तरेण तु ॥
ते तस्य ऋषयस्सर्वे समागम्य तपोधनाः ।
नाम चुक्रुर्हि विद्वांसो द्रुपदोऽस्त्विति भूमिप ॥
स तस्यैवाश्रमे राजन्भरद्वाजस्य भारत ।
ववृधे च सुखं तत्र कामैस्सर्वैर्नृपोत्तम ॥
पाञ्चालोऽपि हि राजेन्द्र स्वराज्यं गतवान्प्रभुः ।
भरद्वाजस्य शिष्यार्थं सुतं दत्वा महात्मनः ॥
स कुमारस्ततो राजन्द्रोणेन सहितो वने ।
वेदांश्चाधिजगे साङ्गान्धनुर्वेदांश्च भारत ॥
परया स मुदा युक्तो विचचार वने सुखम् ॥
तस्यैवं वर्तमानस्य वने वनचरैस्सह ।
कालान्नातिचिराद्राजन्पिता स्वर्गमुपेयिवान् ॥
स समागम्य पाञ्चालैः पाञ्चालेष्वभिषेचितः ॥
प्राप्तश्च राज्यं राजेन्द्र सुहृदां प्रीतिवर्धनः ।
राज्यं ररक्ष धर्मेण यथा चेन्द्रस्त्रिविष्टपम् ॥
एतन्मया ते राजेन्द्र यथावत्परिकीर्तितम् ।
द्रुपदस्य जन्म राजर्षेर्धृष्टद्युम्नस्य चैव हि ॥ ॥