वैशम्पायनः-
पाण्डवान्धार्तराष्ट्रांश्च कृतास्त्रान्प्रसमीक्ष्य तु ।
गुर्वर्थं दक्षिणां काले प्राप्तेऽमन्यत वै गुरुः ॥
कृतास्त्रांश्च ततश्शिष्यांश्चोदयामास वै गुरुः ।
अस्त्रशिक्षामनुज्ञातान्गङ्गाद्वारमुपागतान् ॥
भारद्वाजस्ततस्तांस्तु सर्वानेवाभ्यभाषत ॥
इच्छामि दत्तां सहितैर्मह्यं परमदक्षिणाम् ॥
एवमुक्तास्ततस्ते वै शिष्या द्रोणमुपागमन् ।
भगवन्किं प्रयच्छाम आज्ञापयतु नो गुरुः ॥
ततश्शिष्यान्समाहूय आचार्यस्समचोदयत् ।
द्रोणस्सर्वानशेषेण दक्षिणार्थं महीपते ॥
द्रोणः-
पञ्चालराजं द्रुपदं गृहित्वा रणमूर्धनि ।
पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा ॥
वैशम्पायनः-
तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः ।
आचार्यधनदानार्थं द्रोणेन सहिता ययुः ॥
ततोऽभिजग्मुः पञ्चालं क्रोशन्त कौरवर्षभाः ।
दुर्योधनश्च कर्णश्च युयुत्सुश्च महाबलः ॥
दुःशासनो विकर्णश्च जलसन्धस्सुलोचनः ॥
एते चान्ये च बहवः कुमारा बहुविक्रमाः ।
अहंपूर्वमहंपूर्वमित्येवं क्षत्रियर्षभाः ॥
ततो वरराथारूढाः कुमारास्सादिभिस्सह ।
प्रविश्य नगरं सर्वे राजमार्गमुपाययुः ॥
तस्मिन्काले तु पाञ्चालः श्रुत्वा दृष्ट्वा महद्बलम् ।
भ्रातृभिस्सहितो राजंस्त्वरया निर्ययौ गृहात् ॥
ततस्तु कृतसन्नाहा यज्ञसेनसहोदराः ।
शरवर्षाणि मुञ्चन्तः प्रणेदुस्सर्वतोदिशम् ॥
ततो रथेन शुभ्रेण समासाद्य तु कौरवान् ।
यज्ञसेनश्शरान्घोरान्ववर्ष युधि दुर्जयः ॥
पूर्वमेव तु सम्मन्त्र्य पार्थो द्रोणमथाऽब्रवीत् ॥
दर्पोसेकात्कुमाराणामाचार्य द्विजसत्तम ।
एषां पराक्रमस्यान्ते वयं कुर्याम साहसम् ॥
एतैरशक्यः पाञ्चालो ग्रहीतुं रणमूर्धनि ॥
एवमुक्त्वा तु कौन्तेयो भ्रातृभिस्सहितोऽनघः ।
अर्धक्रोशे तु नगरादतिष्ठद्बहिरेव सः ॥
द्रुपदः कौरवान्दृष्ट्वा प्राधावत समन्ततः ।
शरजालेन महता मोहयन्कौरवीं चमूम् ॥
तमुद्यन्तं रथेनैकमाशुकारिणमाहवे ।
अनेकमिव सन्त्रासान्मेनिरे सर्वकौरवाः ॥
द्रुपदस्य शरा घोरा विचेरुस्सर्वतोदिशम् ॥
ततश्शङ्खाश्च भेर्यश्च मृदङ्गाश्च सहस्रशः ।
प्रावाद्यन्त महाराज पञ्चालानां निवेशने ॥
सिंहनादश्च सञ्जज्ञे पञ्चालानां महात्मनाम् ।
धनुर्ज्यातलशब्दश्च संस्पृशद्गगनं महत् ॥
दुश्शाशनो विकर्णश्च सुबाहुर्दीर्घलोचनः ।
दुर्योधनश्च सङ्क्रुद्धश्शरवर्षैरवाकिरन् ॥
सोऽतिविद्धो महेष्वासः पार्षतो युधि दुर्जयः ।
व्यधमत्तान्यनीकानि तत्क्षणादेव भारत ॥
दुर्योधनं विकर्णं च कर्णं चापि महाबलम् ।
नानानृपसुतान्वीरान्सैन्यानि विविधानि च ॥
अलातचक्रवत्सर्वाश्चरन्बाणैरतर्पयत् ॥
दुश्शासनं च दशभिर्विकर्णं विंशकैश्शरैः ।
शकुनिं वंशकैस्तीक्ष्णैर्दशभिर्मर्मभेदिभिः ॥
कर्णदुर्योधनौ चोभौ शरैस्सर्वाङ्गसन्धिषु ।
अष्टाविंशतिभिस्सर्वैः पृथक्पृथगरिन्दमः ॥
सुबाहुं पञ्चभिर्विद्ध्वा तथाऽन्यान्विविधैश्शरैः ।
विव्याथ सहसा भूयो ननाद बलवत्तरम् ॥
विनद्य कोपात् पाञ्चालस्सर्वशस्त्रभृतां वरः ।
धनूंषि रथयन्त्रं च हयाञ्छत्रध्वजानपि ॥
चकर्त सर्वपाञ्चालाः प्रणेदुस्सिंहसर्पवत् ॥
ततस्तु नागरास्सर्वे मुसलैर्यष्टिभिस्तदा ।
अभ्यवर्षन्त कौरव्यान्वर्षमाणा घना इव ॥
सबालवृद्धाः काम्पिल्याः कौरवानभ्ययुस्तदा ॥
श्रुत्वा तु तुमुलं शब्दं नागराणां महारथाः ।
द्रवन्तिस्म नदन्तिस्म क्रोशतः पाण्डवान्प्रति ॥
पाञ्चालशरभिन्नाङ्गो भयमासाद्य वै वृष ।
कर्णो रथादवप्लृत्य पलायनपरोऽभवत् ॥
पाडवास्तु स्वनं श्रुत्वा आर्तानां रोमहर्षणम् ।
अभिवाद्य ततो द्रोणं रथानारुह्य पाण्डवाः ॥
युधिष्ठिरं निवार्याशु मा युद्धमिति पाण्डव ।
माद्रेयौ चक्ररक्षौ तु फाल्गुनस्तु तदाऽकरोत् ॥
सेनाग्रगो भीमसेनस्तदाभूद्गदया सह ।
तदा शङ्खध्वनिं कृत्वा भ्रातृभिस्सहितोऽनघः ॥
आयाज्जवेन कौन्तेयो रथघोषेण नादयन् ॥
पञ्चालानां ततः सेनामुद्धूतार्णवनिःस्वनाम् ।
भीमसेनो महाबाहुर्दण्डपाणिरिवान्तकः ॥
प्रविवेश महासेनां मकरस्सागरं यथा ॥
स्वयमभ्यद्रवद्भीमो नागानीकं गदाधरः ॥
सुयुद्धकुशलः पार्थो बाहुवीर्येण चातुलः ।
अहनत्कुञ्जरानीकं गदया कालरूपधृक् ॥
ते गजा गिरिसङ्काशाः क्षरन्तो रुधिरं बहु ।
भीमसेनस्य गदया भिन्नमस्तकपिण्डकाः ॥
पतन्ति द्विरदा भूमौ वज्रघातादिवाचलाः ।
गजानश्वान्रथांश्चैव पातयामास पाण्डवः ॥
पदातीन्नागरांश्चैव नावधीदर्जुनाग्रजः ।
गोपाल इव दण्डेन यथा पशुगणान्वने ॥
चालयन्रथनागाश्वान्सञ्चचाल वृकोदरः ॥
भरद्वाजप्रियं कर्तुमुद्यतः फाल्गुनस्तदा ।
पार्षतं शरजालेन क्षिप्रं प्रच्छाद्य पाण्डवः ॥
हयौघांश्च गजौघांश्च रथौघांश्च समन्ततः ।
पातयन्समरे राजन्युगान्ताग्निरिव ज्वलन् ॥
ततस्ते हन्यमाना वै पञ्चालाः सृञ्जयास्तथा ।
शरैर्नानाविधैस्तूर्णं पार्थं प्रच्छाद्य सर्वशः ॥
सिंहनादरवान्कृत्वा समयुध्यन्त पाण्डवम् ॥
तद्युद्धमभवद्धोरं सुमहाद्भुतदर्शनम् ।
सिंहनादस्वनं श्रुत्वा नामृष्यत धनञ्जयः ॥
ततः किरीटी सहसा पञ्चालं समभिद्रवत् ।
छादयन्निषुजालेन महता मोहयन्निव ॥
शीघ्रमभ्यस्यतो बाणान्सन्दधानस्य चानिशम् ।
नान्तरं ददृशे किञ्चित्कौन्तेयस्य तरस्विनः ॥
न दिशो नान्तरिक्षं च तदा नैव च मेदिनी ।
अदृश्यत महाराज तत्र किञ्च न संयुगे ॥
बाणान्धकारे बलिना कृते गाण्डीवधन्वना ।
पाञ्चालानां कुरूणां च साधु साध्विति निस्वनः ॥
तत्र तूर्यनिनादश्च शङ्खानां च महास्वनः ।
सिंहनादश्च सञ्जज्ञे साट्टहासेन मिश्रितः ॥
ततः पाञ्चालराजस्तु तथा सत्यजिता सह ।
त्वरमाणोऽभिदुद्राव महेन्द्रं शम्बरो यथा ॥
महता शरवर्षेण पार्थः पाञ्चालमावृणोत् ॥
ततो हलहलाशब्द आसीत्पाञ्चालके बले ।
जिघृक्षति महासिंहे गजानामिव यूथपम् ॥
दृष्ट्वा पार्थं तदायान्तं सत्यजित्सत्यविक्रमः ।
पाञ्चालं वै परिप्रेप्सुर्धनञ्जयमभिद्रवत् ॥
ततस्त्वर्जुनपाञ्चालौ युद्धाय समुपागतौ ।
व्यक्षोभयेतां तौ सैन्यमिन्द्रवैरोचनाविव ॥
ततस्सत्यजितं पार्थो दशभिर्मर्मभेदिभिः ।
विव्याथ बलवद्राजंस्तदद्भुतमिवाभवत् ॥
ततश्शरशतैः पार्थं पाञ्चालश्शीघ्रमार्दयत् ॥
पार्थस्तु शरवर्षेण च्छाद्यमानो महारथः ।
वेगं चक्रे महावेगो धनुर्ज्यामवमृज्य च ॥
ततस्सत्यजितश्चापं छित्वा राजानमभ्ययात् ॥
अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम् ।
साश्वं ससूतं सरथं पार्थं विव्याथ सत्वरम् ॥
स तं न ममृषे पार्थः पाञ्चालेनार्दितो मृधे ॥
ततस्तस्य विनाशार्थं सत्वरं व्यसृजच्छरान् ।
हयान्ध्वजं धनुर्मुष्टिमुभौ तौ पार्ष्णिसारथी ॥
स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः ।
हयेषु विनिकृत्तेषु विमुखोऽभवदाहवे ॥
स सत्यजितमालेक्य तथा विमुखमाहवे ।
वेगेन महता राजन्नभ्यधावत पार्षतम् ॥
तदा चक्रे महद्युद्धमर्जुनो जयतां वरः ।
तस्य पार्थो ध्वजं चित्रं धनुश्चोर्व्यामपातयत् ॥
पञ्चभिस्तस्य विव्याथ हयान्सूतं च सायकैः ॥
तत उत्सृज्य तच्चापमाददानः शरावरम् ।
खड्गमुद्यम्य कौन्तेयस्सिंहनादमथाकरोत् ॥
पाञ्चालस्य रथस्यैषामाप्लुत्य सहसा बली ।
पाञ्चालरथमास्थाय अवित्रस्तो धनञ्जयः ॥
विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव सोऽग्रहीत् ।
ततस्तु सर्वपाञ्चाला विद्रवन्ति दिशो दश ॥
दर्शयन्सर्वसैन्यानां बाह्वोर्बलमाथात्मनः ।
सिंहनादस्वनं कृत्वा निर्जगाम धनञ्जयः ॥
आयान्तमर्जुनं दृष्ट्वा कुमारास्सहितास्तदा ।
ममृदुस्तस्य नगरं द्रुपदस्य महात्मनः ॥
अर्जुनः-
सम्बन्धी कुरुवीराणां द्रुपदो राजसत्तमः ।
मा वधीस्तद्बलं भीम गुरुदानं प्रदीयताम् ॥
वैशम्पायनः-
भीमसेनस्तदा राजन्नर्जुनेन निवारितः ।
अतृप्तो युद्धधर्मेषु न्यवर्तत महारथः ॥
ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि ।
उपाजह्रुस्सहामात्यं द्रोणाय भरतर्षभ ॥
भग्नदर्पं हृतधनं तथा वशमुपागतम् ।
स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् ॥
द्रोणः-
प्रमृज्य तरसा राष्ट्रं पुरं ते मृदितं मया ।
प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते ॥
द्रोणः-
वैशम्पायनः-
एवमुक्त्वा प्रहस्यैनं निश्चित्य पुनरब्रवीत् ।
मा भैः प्राणभयाद्राजन्क्षमिणो ब्राह्मणा वयम् ॥
आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह ।
तेन संवर्धितो हर्षस्त्वया मे क्षत्रियर्षभ ॥
प्रार्थयेऽहं त्वया सख्यं पुनरेव नरेश्वर ।
वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि ॥
अराजा किल नो राज्ञस्सखा भवितुमर्हति ।
अतः प्रयतितं राज्ये यज्ञसेन मया तव ॥
राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे ।
सखायं मां विजानीहि पाञ्चाल यदि मन्यसे ॥
द्रुपदः-
अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु ।
प्रीये त्वयाऽहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् ॥
वैशम्पायनः-
एवमुक्तस्तु तं द्रोणो मोक्षयामास भारत ।
सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् ॥
आसन्दीमथ गङ्गायास्तीरे जनपदायुताम् ।
सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् ॥
दक्षिणांश्चैव पञ्चालान्यावच्चर्मण्वतीं नदीम् ।
अहिच्छत्रं च विषयं भारद्वाजोऽभ्यपद्यत ॥
एवं राजन्नहिच्छत्रं पुरा बहुधनान्वितम् ।
युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता ॥ ॥