वैशम्पायनः-
एतस्मिन्नेव काले तु तस्मिञ्जनसमागमे ।
दत्तावकाशः पुरुषैर्विस्मयोत्फुल्ललोचनैः ॥
सिंहर्षभगजेन्द्राणां तुल्यवीर्यपराक्रमः ।
दीप्तिकान्तिद्युतिगुणैस्सूर्येन्दुज्वलनोपमः ॥
प्रांशुः कनकतालाभः सिंहसंहननो युवा ।
असङ्ख्येयगुणश्श्रीमान्भास्करस्यात्मसम्भवः ॥
संनिरीक्ष्य महाबाहुस्सर्वतो रङ्गमण्डपम् ।
प्रणामं द्रोणकृपयोर्नामपूर्वमथाकरोत् ॥
स समाजे जनस्सर्वो निश्चलस्स्थिरलोचनः ।
कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत् ॥
विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः ॥
सहजं कवचं बिभ्रत्कुण्डलद्योतिताननः ॥
सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः ।
कानीनस्तु पृथुयशाः पृथुपुत्रः प्रतापवान् ॥
सोऽब्रवीन्मेघधीरेण स्वरेण वदतां वरः ।
भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् ॥
कर्णः-
पार्थ यत्ते कृतं कर्म विशेषवदहं ततः ।
करिष्ये पश्यतां नॄणां मा भूदात्मनि विस्मयः ॥
वैशम्पायनः-
असमाप्ते ततस्तस्य वचने वदतां वर ।
यन्त्रक्षिप्त इव क्षिप्रमुत्थितस्सर्वतो जनः ॥
प्रीतिश्च पुरुषव्याघ्र दुर्योधनमथास्पृशत् ।
ह्रीश्च क्रोधश्च बीभत्सुं क्षणेन त्वाविवेश ह ॥
ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणस्तदा ।
यत्कृतं तत्र पार्थेन तच्चकार महाबलः ॥
अथ दुर्योधनस्तत्र भ्रातृभिस्सह भारत ।
कर्णं परिष्वज्य मुदा तदा वचनमब्रवीत् ॥
दुर्योधनः-
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद ।
अहं च कुरुराष्ट्रं च यथेष्टमुपभुज्यताम् ॥
कर्णः-
कृतं सर्वेण मे राजन्सखित्वं भवता वृणे ।
द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छामि भारत ॥
वैशम्पायनः-
ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत ।
कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् ॥
अर्जुनः-
अनाहूतोपसृप्तानामनाहूतोपजल्पताम् ।
ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे ॥
कर्णः-
रङ्गोऽयं सर्वसामान्यः किमत्र तव फल्गुन ।
वीर्यश्रेष्ठाश्च राजन्या बलं धर्मोऽनुवर्तते ॥
किं क्षेपैः दुर्बलाश्वासैः शरैः कथय भारत ।
गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः ॥
वैशम्पायनः-
ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरञ्जयः ।
भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् ॥
ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः ।
परिष्वक्तस्स्थितः कर्णः प्रगृह्य सशरं धनुः ॥
ततस्सविद्युत्स्तनितैः सेन्द्रायुधपुरोजलैः ।
आवृतं गगनं मेघैर्बलाकापङ्क्तिभासिभिः ॥
ततस्स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् ।
भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान् ॥
मेघच्छायोपगूढस्तु ततोऽदृश्यत पाण्डवः ।
सूर्यातपपरिष्वक्तः कर्णोऽपि समदृश्यत ॥
धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः ।
भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् ॥
द्विधा रङ्गस्समभवत्स्त्रीणां द्वैधमजायत ।
कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह ॥
तां तथा मोहमापन्नां विदुरस्सर्वधर्मवित् ।
कुन्तीमाश्वासयामास प्रेक्ष्य चन्दनवारिभिः ॥
ततः प्रत्यागतप्राणा तावुभावपि दंशितौ ।
पुत्रौ दृष्ट्वा सुसन्तप्ता नान्वपद्यत किञ्चन ॥
तावुद्यतमहाचापौ कृपश्शारद्वतोऽब्रवीत् ॥
कृपः-
द्वन्द्वयुद्धसमाचारे कुशलस्सर्वधर्मवित् ।
अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः ॥
कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति ॥
त्वमप्येवं महाबाहो मातरं पितरं कुलम् ।
कथयस्व नरेन्द्राणां किं च स्वं भूषयेः कुलम् ॥
ततो विदित्वा पार्थश्च प्रतियोत्स्यति वा न वा ।
वृथाकुलसमाचारैर्न युध्यन्ते नृपात्मजाः ॥
वैशम्पायनः-
एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् ।
बभौ वर्षाम्बुदक्लिन्नं पद्ममागलितं यथा ॥
दुर्योधनः-
आचार्य त्रिविधा योनी राज्ञां धर्मविनिश्चये ।
सत्कुलीनश्च शूरश्च यश्च सेनां प्रकर्षति ॥
अद्भ्योऽग्निर्ब्राह्मणः क्षत्रमश्मनो लोहमुत्थितम् ।
तेषां सर्वगतं तेजः स्वासु योनिषु शाम्यति ॥
अयं हि फल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति ।
तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते ॥
वैशम्पायनः-
ततो राजानमामन्त्र्य गाङ्गेयं च पितामहम् ।
अभिषेकस्य सम्भारान्समानीय द्विजातिभिः ॥
गोसहस्रायुतं दत्त्वा युक्तानां पुण्यकर्मणाम् ।
अर्होऽयमङ्गराज्यस्य इति वाच्य द्विजातिभिः ॥
ततस्तस्मिन्क्षणे कर्णस्सलाजकुसुमैर्घटैः ।
काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्द्विजातिभिः ॥
अभिषिक्तोऽङ्गराजे स्म श्रिया युक्तो महाबलः ॥
स मौलिहारकेयूरैस्सहस्ताभरणाङ्गदैः ।
राजलिङ्गैस्तथाऽन्यैश्च भूषितो भूषणैश्शुभैः ॥
सच्छत्रवालव्यजनो जयशब्दोत्तरेण च ।
सभाज्यमानो विप्रैश्च प्रदत्त्वा ह्यमितं वसु ॥
उवाच कौरवं राजा राज्ञां मध्ये वृषस्तदा ॥
कर्णः-
दुर्योधनः-
अस्य राज्यप्रदानस्य सदृशं किं ददानि ते ।
तद्ब्रूहि राजशार्दूल कर्तव्यं हि तवानघ ॥
अत्यन्तं सख्यमिच्छामि त्वया सह महाबल ॥
वैशम्पायनः-
एवमुक्तस्ततः कर्णस्तथेति प्रत्यभाषत ।
हर्षाच्चोभौ परिष्वज्य परां मुदमवापतुः ॥ ॥