वैशम्पायनः-
कुरुराजे तु रङ्गस्थे भीमे च बलिनां वरे ।
पक्षपातकृतस्नेहस्स द्विधेवाभवज्जनः ॥
जय हे कुरुराजेति जय हे भीम इत्युत ।
पुरुषाणां सुविपुलाः प्रणादास्सहसोत्थिताः ॥
ततः क्षुब्धार्णवसमं रङ्गमालोक्य बुद्धिमान् ।
भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् ॥
द्रोणः-
वारयैतौ महावीर्यौ कृतयोग्यावुभावपि ।
मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः ॥
वैशम्पायनः-
तत उत्थाय वेगेन अश्वत्थामा न्यवारयत् ।
गुरोराज्ञा भीम इति गान्धारे गुरुशासनम् ।
अलं योग्यकृतं वेगमलं साहसमित्युत ॥
ततस्तावुद्यतगतौ गुरुपुत्रेण वारितौ ।
युगान्तानिलसङ्क्षुब्धौ महावेगाविवार्णवौ ॥
ततो रङ्गाङ्कणगतो द्रोणो वचनमब्रवीत् ।
निवार्य वादित्रगणं महामेघनिभस्वनम् ॥
यो मे पुत्रात्प्रियतरस्सर्वास्त्रविदुषां वरः ।
ऐन्द्रिरिन्द्रानुजसमस्स पार्थो दृश्यतामिति ॥
आचार्यवचनात्सोऽथ कृतस्वस्त्ययनो युवा ।
बद्धगोधाङ्गुलित्राणः पूर्णतूणस्सकार्मुकः ॥
काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः ।
एकस्सेन्द्रायुधतडित्ससन्ध्य इव तोयदः ॥
ततस्सर्वस्य रङ्गस्य समुत्पिञ्जलकोऽभवत् ।
वादित्राण्यवाद्यन्त सशङ्खानि समन्ततः ॥
प्रेक्षकाः-
एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः ।
एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता ॥
एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः ।
एष शीलवतां चापि शीलरत्नाकरोऽर्जुनः ॥
वैशम्पायनः-
इत्येवमतुला वाचश्श्रुण्वन्त्याः प्रेक्षकेरिताः ।
कुन्त्याः प्रस्रवसम्मिश्रैरस्रैः क्लिन्नमुरोऽभवत् ॥
तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् ।
धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः ॥
धृतराष्ट्रः-
क्षत्तः क्षुब्धार्णवसमः किमेष सुमहास्वनः ।
सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् ॥
विदुरः-
एष पार्थो महाबाहुः कौन्तेयः पाण्डुनन्दनः ।
अवतीर्णस्सकवचस्तत्रैष जननिस्वनः ॥
धृतराष्ट्रः-
धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते ।
पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः ॥
वैशम्पायनः-
तस्मिन्प्रमुदिते रङ्गे कथञ्चित्पर्यवस्थिते ।
दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम् ॥
आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः ।
वायव्यादसृजद्वायुं पार्जन्यादसृजद्धनान् ॥
भौमेन प्रासृजद्भूमिं पार्वतेनासृजद्गिरिम् ।
अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ॥
क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः ।
क्षणेन रथमध्यस्थः क्षणेनावतरन्महीम् ॥
सुकुमारश्च शूरश्च गुरुश्चापि गुरुप्रियः ।
सौष्ठवेन हि संयुक्तः सोऽविध्यद्विविधैश्शरैः ॥
भ्रमतश्च वराहस्य वाहस्य प्रमुखे स्थितः ।
पञ्चबाणान्नसंयुक्तान्स मुमोचैकबान्धवान् ॥
गव्ये विषाणकोशे च वालरज्ज्वावलम्बिते ।
निचखान महावीर्यस्सायकानेकविंशतिम् ॥
इत्येवमादि सुमहत्खड्गे धनुषि चाभवत् ॥
गदायां चास्त्रकुशलो दर्शकानां प्रदर्शयन् ।
चक्रे तोमरपाशानां भिण्डिपालपरश्वथान् ॥
अन्येषां चापि शिक्षाणां दर्शयामास लाघवम् ॥
ततस्समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत ।
महाभूते समाजे च वादित्रस्य च निःस्वने ॥
द्वारदेशात्समुद्भूतो माहात्म्यबलसूचकः ।
वज्रनिष्पेषसदृशश्शुश्रुवे भूरिनिःस्वनः ॥
शीर्यन्ते किं नु गिरयः किंस्विद्भूमिर्विदीर्यते ।
किंस्विदापूर्यते व्योम जलभारास्वनैर्घनैः ॥
रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप ।
द्वारं चाभिमुखास्सर्वे बभूवुः प्रेक्षकास्तदा ॥
पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ ।
पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः ॥
अश्वत्थाम्ना च सहितं भ्रातॄणां शतमूर्जितम् ।
दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत् ॥
स तैस्तदा भ्रातृभिरुद्यतायुधैर्वृतो गदापाणिरवस्थितो बभौ ।
स्थितस्तदा दानवसङ्क्षये पुरा पुनन्दरो देवगणैरिवावृतः ॥ ॥