वैशम्पायनः-
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत ।
दृष्ट्वा द्रोणोऽब्रवीद्वाक्यं धृतराष्ट्रं जनेश्वरम् ॥
कृपस्य सोमदत्तस्य वाह्लीकस्य च धीमतः ।
गाङ्गेयस्य च सान्निध्ये व्यासस्य विदुरस्य च ॥
राजन्सम्प्राप्तविद्यास्ते कुमाराः कुरुसत्तम ।
ते दर्शयेयुस्स्वां शिक्षां राजन्ननुमते तव ॥
धृतराष्ट्रः-
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना ।
भारद्वाज महत्कर्म कृतं द्विजवर त्वया ॥
यदानुमन्यसे कालं यस्मिन्देशे यथायथा ।
तथातथा विधानाय स्वयमाज्ञापयस्व माम् ॥
स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम् ।
अस्त्रहेतोः समायुक्तान्ये मे द्रक्ष्यन्ति पुत्रकान् ॥
सत्कार्यः क्षत्त आचार्यो ब्रवीति कुरु तत्तथा ।
न हीदृशं प्रियं मेऽद्य भविता धर्मवत्सल ॥
वैशम्पायनः-
ततो राजानमामन्त्र्य विदुरानुगतो बहिः ।
भारद्वाजो महाप्राज्ञो ज्ञापयामास मेदिनीम् ॥
समामवृक्षां निर्गुल्मामुदक्प्रवणसंस्थिताम् ॥
तस्यां भूमौ बलिं चक्रे तिथिनक्षत्रपूजिते ॥
अवघुष्टं पुरं चापि तदर्थं भरतर्षभ ।
रङ्गभूमिं सुविहितां शास्त्रदृष्टामकारयत् ॥
प्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनः ।
रक्षां सर्वायुधोपेतां स्त्रीणां चैव नरर्षभ ॥
मञ्चान्स्म कारयामासुर्यत्र जानपदा जनाः ।
सचिवाश्च पुनर्मञ्चान्कारयामासुरुच्छ्रितान् ॥
तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा ।
सान्तःपुरस्सहामात्यो व्यासस्यानुमते तदा ॥
भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् ।
बाह्लीकं सोमदत्तं च भूरिश्रवसमेव च ॥
कुरूनन्यांश्च सचिवानादाय नगराद्बहिः ।
रङ्गभूमिं समासाद्य ब्राह्मणैस्सहितो नृपः ॥
मुक्ताजालपरिक्षिप्तं वैदूर्यमणिभूषितम् ।
शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत् ॥
गान्धारी च महाभागा कुन्ती च जयतां वर ।
स्त्रियश्च सर्वा या राज्ञस्तासां परिचारकाः ॥
हर्षादारुरुहुः कान्तं मेरुं देवस्त्रियो यथा ।
ब्राह्मणक्षत्रविट्च्छूद्रं सर्वं तत्र समागतम् ॥
दर्शनेप्सुः समभ्यागात्कुमाराणां कृतास्त्रताम् ॥
प्रवादितैश्च वादित्रैर्युतः कोलाहलेन च ।
महार्णव इव क्षुब्धः समाजस्सोऽभवत्तदा ॥
ततश्शुक्लाम्बरधरश्शुक्लयज्ञोपवीतवान् ।
शुक्लकेशस्सितश्मश्रुश्शुक्लाल्यानुलेपनः ॥
रङ्गमध्यं तदाचार्यः सपुत्रस्स विवेश ह ॥
नभो जलधरैर्वीतं साङ्गारक इवांशुमान् ।
व्यासस्यानुमते चक्रे बलिं बलवतां वरः ॥
ब्राह्मणांश्चापि शास्त्रज्ञान्वाचयामास मङ्गलैः ॥
सुवर्णमणिरत्नानि वस्त्राणि विविधानि च ।
प्रददौ दक्षिणां राजा द्रोणस्य च कृपस्य च ॥
अथ पुण्याहघोषस्य महतस्समनन्तरम् ।
विविशुर्विविधं गृह्य शस्त्रोपकरणं नृपाः ॥
ततो बद्धतनुत्राणा बद्धकक्ष्या महाबलाः ।
बद्धतूणास्सधनुषो विविशुर्भरतर्षभाः ॥
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः ।
रङ्गमध्ये स्थितं द्रोणमभिवाद्य नरर्षभाः ॥
पूजां चक्रुर्यथान्यायं द्रोणस्य च कृपस्य च ॥
आशीर्भिश्च प्रयुक्ताभिस्सर्वे संहृष्टमानसाः ।
अभिवाद्य पुनश्शस्त्रान्बलिपुष्पैस्समर्चितान् ॥
रक्तचन्दनसम्मिश्रैस्स्वयमर्चन्त कौरवाः ॥
रक्तचन्दनदिग्धाश्च रक्तमाल्यानुधारिणः ।
सर्वे रक्तपताकाश्च सर्वे रक्तान्तलोचनाः ॥
द्रोणेन समनुज्ञाता गृह्य शस्त्रं परन्तपाः ।
धनूंषि पूर्वं सङ्गृह्य तप्तकाञ्चनभूषिताः ॥
सज्यानि विविधाकारैश्शरैस्सन्धाय कौरवाः ।
ज्याघोषं तलघोषं च कृत्वा भूतान्यपूजयन् ॥
चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् ॥
केषाञ्चित्तरुमाल्येषु शरा निपतिता नृप ।
केषाञ्चित्पुष्पमुकुटे निपतन्ति स्म सायकाः ॥
केचिल्लक्ष्याणि विविधैर्बाणैराहितलक्षणैः ।
बिभिदुर्लाघवोत्सृष्टैर्गुरूणि च लघूनि च ॥
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे ।
मनुजा धृष्टमपरे वीक्षाञ्चक्रुस्सविस्मयाः ॥
ते स्म लक्ष्याणि बिभिदुर्बाणैर्नामाङ्कशोभितैः ।
विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् ॥
तत्कुमारबलं तत्र गृहीतशरकार्मुकम् ।
गन्धर्वनगराकारं प्रेक्षका विस्मिताभवन् ॥
सहसा चुक्रुशुस्तत्र शतशोऽथ सहस्रशः ।
विस्मयोत्फुल्लनयनाः प्रेक्षकास्साधु साध्विति ॥
कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् ।
गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः ॥
गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः ।
शस्त्रमार्गान्यथोद्दिष्टांश्चेरुस्सर्वासु भूमिषु ॥
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् ।
ददृशुस्तत्र सर्वेषां प्रयोगं खड्गचर्मणाम् ॥
अथ तौ नित्यसङ्कृद्धौ सुयोधनवृकोदरौ ।
अवतीर्णौ गदाहस्तौ सद्विशृङ्गाविवाचलौ ॥
क्रूरप्रेक्षौ महाबाहू पौरुषे पर्यवस्थितौ ।
बृंहन्तौ वाशिताहेतोः समदाविव कुञ्जरौ ॥
तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ ।
चेरतुश्चञ्चलगतौ समदाविव कुञ्जरौ ॥
धृतराष्ट्राय विदुरो गान्धार्यै च महामतिः ।
न्यवेदयत तत्सर्वं कुमाराणां च चेष्टितम् ॥ ॥