वैशम्पायनः-
द्रोणस्य तु तदा शिष्यौ गदायोग्यौ विशेषतः ।
दुर्योधनश्च भीमश्च कुरूणामध्यगच्छताम् ॥
अश्वत्थामा महास्त्रेषु सर्वेष्वभ्यधिकोऽभवत् ।
युधिष्ठिरो रथश्रेष्ठस्सर्वत्र तु धनञ्जयः ॥
प्रथितस्सागरान्तायां रथयूथपयूथपः ।
बुद्धियोगबलोत्साहैस्सर्वास्त्रेषु तथाऽर्जुनः॥
अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः ।
तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् ॥
एकस्सर्वकुमाराणां स बभूवार्जुनोऽधिकः ।
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् ॥
धार्तराष्ट्रा दुरात्मानो नामृष्यन्त परन्तप ॥
तांस्तु सर्वान्समानीय सर्वविद्यासु निष्ठितान् ।
द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभान् ॥
कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् ।
अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ॥
द्रोणः-
शीघ्रं भवन्तस्सर्वे वै धनूंष्यादाय सत्वराः ।
भासमेतं समुद्दिश्य तिष्ठन्तु संहितेषवः ॥
मद्वाक्यसमकालं च शिरोऽस्य विनिकृत्यताम् ।
एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः ॥
वैशम्पायनः-
ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः ।
सन्धत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुञ्च तम् ॥
ततो युधिष्ठिरः पूर्वं धनुर्गृह्य महारवम् ।
तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥
ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् ।
स मुहूर्तादुवाचेदं वचनं भरतर्षभ ॥
पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज ! ।
पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः ॥
स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत ।
पार्थ वृक्षमिमं मां च भ्रातॄन्वाऽपि प्रपश्यसि ॥
तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम् ।
भवन्तं च तथा भ्रातॄन्भासं चेति पुनःपुनः ॥
तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव ।
नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन् ॥
ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महाबलान् ।
तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत ॥
अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान् ।
तथा च सर्वे तत्सर्वं पश्याम इति कुत्सिताः ॥
ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत ।
त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं निपात्यताम् ।
मद्वाक्यसमकालं ते मोक्तव्योश्च भवेच्छरः ॥
विकृष्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम् ॥
एवमुक्तस्सव्यसाची मण्डलीकृतकार्मुकः ।
तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥
मुहूर्तादिव तं द्रोणस्तथैव समभाषत ।
पश्यस्येनं स्थितं भासं द्रुमं मामपि चार्जुन ॥
पश्यामि भासमेवाहं इति तं प्रत्यभाषत ।
न तु वृक्षं भवन्तं वा पश्यामीति च भारत ॥
ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः ।
प्रत्यभाषत दुर्धर्षं पाण्डवानां रथर्षभम् ॥
भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः ।
शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् ॥
अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः ।
मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन् ॥
ततस्तस्य नगस्थस्य क्षुरेण निशितेन च ।
शिर उत्कृत्य तरसा पातयामास पाण्डवः ॥
तस्मिन्कर्मणि संसिद्धे परिष्वज्य च पाण्डवम् ।
मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम् ॥
कस्य चित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः ।
जगाम गङ्गामभितो मज्जितुं भरतर्षभ ॥
अवगाढमथो द्रोणं सलिले सलिलेचरः ।
ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः ॥
स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत् ।
ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव ॥
तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः ।
अवार्यैर्निशितैश्चैनं मग्नमम्भस्यताडयत् ॥
इतरे तु विसम्मूढास्तत्रतत्र प्रपेदिरे ॥
तं च दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम् ।
विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा ॥
स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः ।
ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः ॥
अथाब्रवीन्महात्मानं भारद्वाजो महारथम् ॥
गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम् ।
अस्त्रं ब्रह्मशिरो वीर सप्रयोगनिवर्तनम् ॥
न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथञ्चन ।
जगद्धि निर्दहेदेतदल्पतेजसि पातितम् ॥
असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते ।
तद्धारयेथाः प्रयतः शृणु चेदं वचो मम ॥
बाधेतेऽमानुषः कश्चिद्देवो वापीह कश्चन ।
तद्वधाय प्रयुञ्जीथास्तदस्त्रमिदमाहवे ॥
तत्तथेति प्रतिश्रुत्य बीभत्सुः प्रकृताञ्जलिः ।
जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः ॥
भविता त्वत्समो नान्यः पुमाल्ँलोके धनुर्धरः ॥ ॥