वैशम्पायनः-
अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने ।
अस्त्रे च परमे योगे प्रियो द्रोणस्य चाभवत् ॥
द्रोणेन च तदाहूय रहस्युक्तोऽन्नसाधकः ।
अन्धकारेऽर्जुनायान्नं न देयं ते कदाचन ॥
ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने ।
तेन दीपस्तु सहसा निर्वापित इति श्रुतिः ॥
भुक्तवानेव कौन्तेयो नाभ्यासात्स न्यवर्तते ।
हस्तस्तेजस्विनो नित्यमभ्यासकृतकारणात् ॥
तदभ्यासकृतं मत्वा रात्रावपि स पाण्डवः ।
तस्य ज्यातलनिर्घोषं द्रोणश्शुश्राव तन्निशि ॥
उपेत्यार्जुनमुत्थाय परिष्वज्येदमब्रवीत् ॥
द्रोणः-
प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः ।
त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते ॥
वैशम्पायनः-
ततो द्रोणोऽर्जुनं भूयो हयेषु च गजेषु च ।
रथेषु भूमावपि च रणशिक्षामशिक्षयत् ॥
गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु ।
द्रोणस्सङ्कीर्णयुद्धेषु शिक्षयामास कौरवम् ॥
तस्य तत्कौशलं दृष्ट्वा धनुर्वेदजिघृक्षवः ।
राजानो राजपुत्राश्च समाजग्मुस्सहस्रशः ॥
तान्सर्वाञ्शिक्षयामास द्रोणश्शस्त्रभृतां वरः ॥
ततो निषादराजस्य हिरण्यधनुषस्सुतः ।
एकलव्यो महावीर्यो द्रोणमभ्याजगाम ह ॥
न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् ।
शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया ॥
द्रोणः-
शिष्योऽसि मम नैषादे ! प्रयोगे बलत्तरः ।
निवर्तस्व गृहानेव अनुज्ञातोऽसि नित्यशः ॥
वैशम्पायनः-
स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः ।
अरण्यमनुसम्प्राप्य कृत्वा द्रोणं महीमयम् ॥
तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा ।
इष्वस्त्रे योगमातस्थे परं नियममास्थितः ॥
स तेन तपसा युक्तो योगेन परमेण च ।
विमोक्षादानसन्धाने लघुत्वं परमाप सः ॥
लाघवं चास्त्रयोगं च नचिरात्प्रत्यपद्यत ।
अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः ।
रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः ॥
तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया ।
राजन्ननुजगामैकः श्वानमादाय पाण्डवान् ॥
तेषां विचरतां तत्र तत्तत्कर्मचिकीर्षताम् ।
श्वा चरन्स पथा मूढो नैषादिं प्रति जग्मिवान् ॥
स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने ।
नैषादिं श्वा समुद्वीक्ष्य भषंस्तस्थौ तदन्तिके ॥
तस्यैकलव्यो भषतः शुनस्सप्त शरान्मुखे ।
लाघवं दर्शन्नस्त्रैर्मुमोच युगपद्यथा ॥
स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह ।
तं दृष्ट्वा कौरवा राजन्विस्मयं परमं तदा ॥
लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा ।
प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः ॥
तं ततोऽन्वेषमाणास्ते वने वनचरेश्वरम् ।
ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् ॥
न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् ।
तथैनं परिपप्रच्छ्रुः को भवान्कस्य चेति ह ॥
एकलव्यः-
निषादाधिपतेर्वीरा हिरण्यधनुषस्सुतम् ।
द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम् ॥
वैशम्पायनः-
ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः ।
यथावृत्तं वने राजन्द्रोणायाचख्युरद्भुतम् ॥
कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् ।
रहो द्रोणं समागम्य प्रणयादिदमब्रवीत् ॥
नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः ।
भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति ॥
अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् ।
अस्त्यन्यो भवतश्शिष्यो निषादाधिपतेस्सुतः ॥
वैशम्पायनः-
मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम् ।
सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् ॥
ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् ।
एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् ॥
एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात् ।
अभिगम्योपसङ्गृह्य जगाम शिरसा महीम् ॥
पूजयित्वा ततो द्रोणं विधिवत्स निषादजः ।
निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः ॥
द्रोणः-
ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः ।
यदि शिष्योऽसि मे तात वेतनं दीयतामिति ॥
वैशम्पायनः-
एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम् ॥
एकलव्यः-
वैशम्पायनः-
किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः ।
न हि किञ्चिददेयं मे गुरवे ब्रह्मवित्तम ॥
तमब्रवीत्त्वयाऽङ्गुष्ठो दक्षिणो दीयतामिति ॥
एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् ।
प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतस्सदा ॥
तथैव हृष्टवदनस्तथैवादीनमानसः ॥
सत्यसन्धं च नैषादिं दृष्ट्वा प्रीतोऽब्रवीदिदम् ।
एवं कर्तव्यमिति वै एकलव्यमभाषत ॥
छित्त्वाऽविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः ॥
अतः परं तु नैषादिरङ्गुलीभिर्व्यकर्षत ।
न तथा स तु शीघ्रोऽभूद्यथा पूर्वं नराधिप ॥
ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः ।
द्रोणश्च सत्यवागासीन्नाधिकोऽन्योऽर्जुनादभूत् ॥