वैशम्पायनः-
द्रोणस्समुदितान्दृष्ट्वा कुरून्वृत्तिपरीप्सया ।
आजगाम महातेजा विप्रो नागपुरं प्रति ॥
स तथोक्तस्तथा तेन सदारः प्रद्रवत्कुरून् ।
तां प्रतिज्ञां प्रतिज्ञाय यां कर्ता न चिरादिव ॥
ततः कुमारा निष्क्रम्य सहिता नागसाह्वयात् ।
क्रीडया विनयाद्वीरास्तत्र पर्यचरन्मुदा ॥
तेषां सङ्क्रीडमानानामुदपानेऽङ्गुलीयकम् ।
पपात धर्मराजस्य वीटा तत्रैव चापतत् ॥
तत्त्वम्बुना प्रतिच्छन्नं तारारूपमिवाम्बरे ।
दृष्ट्वा ते वै कुमाराश्च तं यत्नात्पर्यवारयन् ॥
ते परस्परमैक्षन्त कुमारसहितास्तदा ॥
तस्य योगमविदन्तो भृशमुत्कण्ठिताभवन् ॥
न किञ्चित्प्रत्यपद्यन्त कर्म वीटोपलब्धये ॥
तेऽपश्यन्ब्राह्मणं श्याममासन्नपलितं कृशम् ।
कृत्यवन्तस्समीपस्थमग्निहोत्रपुरस्कृतम् ॥
स तान्कृत्यवतो दृष्ट्वा कुमारांस्तु विचेतसः ।
ब्राह्मणः प्रहसन्मन्दं कौशलेनाभ्यभाषत ॥
अब्रवीद्धिग्बलं क्षात्रं धिक्चैषां वः कृतास्त्रताम् ।
भरतस्यान्वये जाता ये वीटां नाधिगच्छत ॥
वीटां च मुद्रिकां चैव अहमेतदपि द्वयम् ।
उद्धरिष्ये त्विषीकाभिर्भोजनं मे प्रदीयताम् ॥
ततोऽब्रवीद्भरद्वाजं कुन्तीपुत्रो युधिष्ठिरः ।
गौतमीं च महाभागां भिक्षामश्नीत शाश्वतीम् ॥
द्रोणः-
ततोऽब्रवीद्भरद्वाजः प्रहस्य भरतानिदम् ॥
एषा मुष्टिरिषीकाणां मयाऽस्त्रेणाभिमन्त्रिता ॥
अस्या वीर्यं समीक्षध्वं यदन्येषु न विद्यते ॥
वेत्स्यामीषिकया वीटां तामिषीकामीषिकया ॥
तामपीषिकया चैव अन्यामप्यनया पुनः
तामन्यया समायोगे वीटाया ग्रहणं मम ॥
वैशम्पायनः-
ततो यथोक्तं तत्सर्वं कृतवांस्तत्र ब्राह्मणः ॥
तदपश्यन्कुमारास्ते विस्मयोत्फुल्ललोचनाः ॥
अवाप्य चोद्धृतां वीटां वीटावेधिनमब्रुवन् ॥
मुद्रिकामपि विप्रेन्द्र क्षिप्रमेतां समुद्धर ॥
ततस्सशरमादाय धनुश्चापि महाबलः ।
शरेण बध्वा मुद्रां तामूर्ध्वमावाहयच्छरैः ॥
सशरस्तदुपादाय कूपादङ्गुलिवेष्टकम् ।
प्रददौ तं कुमाराणां विस्मितानामविस्मितः ॥
कुमारकाः-
मुद्रिकां तूद्धृतां दृष्ट्वा प्राबुवंस्ते कुमारकाः ।
अभिवादायामहे ब्रह्मन्नैतदन्येषु विद्यते ॥
कोऽसि कं त्वां विजानीमो ब्रूहि किं करवाम ते ॥
वैशम्पायनः-
एवमुक्तस्तथा विप्रः प्रत्युवाच कुमारकान् ।
आख्यापयध्वं भीष्माय रूपेण च गुणैरपि ॥
स मा बुद्धिमतां श्रेष्ठश्शृत्वा ज्ञास्यति कौरवः ॥
तथेत्युक्त्वा तु ते गत्वा भीष्ममूचुः पितामहम् ।
ब्राह्मणस्य वचस्सर्वं तच्च कर्म विशेषतः ॥
श्रुत्वा भीष्मः कुमाराणां द्रोण इत्येव जज्ञिवान् ॥
युक्तरूपस्स हि गुरुरित्येवमनुचिन्त्य च ।
तत आनाय्य द्रोणं तु भीष्मश्शान्तनवस्तदा ॥
अर्हणीयेन कामैश्च यथान्यायमपूजयत् ॥
ततस्तं परिपप्रच्छ भीष्मश्शस्त्रभृतां वरः ।
हेतुमागमने सर्वं तं द्रोणः प्रत्यभाषत ॥
द्रोणः-
महर्षेरग्निवेश्यस्य सकाशमहमच्युत ।
अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया ॥
ब्रह्मचारी विनीतात्मा जटिलो बहुलास्समाः ।
अवसं तत्र सुचिरं अग्निवेश्यस्य सन्निधौ ॥
पाञ्चालराजपुत्रश्च यज्ञसेनो महाबलः ।
मया सहाकरोद्विद्यां गुरौ तस्मिन्समाहितः ॥
स मे तत्र सखा चासीत्प्रियवागुपकारकः ।
मया स्म रमते नित्यं सङ्गम्य समये तदा ॥
स मां संप्रस्थितः पूर्वं प्रियकारी प्रियंवादः ।
अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् ॥
अहं प्रियतमः पुत्रः पितुरेको महात्मनः ।
अभिषेक्ष्यति मां राज्ये स पाञ्चालो यदा तदा ॥
भविष्यति च ते भोज्यं सख्युस्सखिधनं यथा ॥
तद्भोज्यं भवता राज्यं सखे सत्येन ते शपे ॥
मम भोगाश्च वित्तं च त्वदधीनास्सुखानि च ॥
एवमुक्त्वा प्रचक्राम कृतास्त्रः पूजितो मया ॥
उक्तवाक्यमहं ज्ञात्वा प्रहृष्टेनान्तरात्मना ॥
सोऽहं पितृनियुक्तत्वात् पुत्रलोभाद्यशस्विनीम् ।
शारद्वतीं महाप्रज्ञ उपयेमे समाहितः ॥
अग्निहोत्रे च धर्मे च दमे च सततं रताम् ॥
लेभे च गौतमी पुत्रमश्वत्थामानमात्मजम् ॥
भीष्म विक्रमकर्माणमादित्यमिव तेजसा ।
आत्मजेनाभवं प्रीतो भरद्वाजो यथा मया ॥
गोक्षीरं पिबतो दृष्ट्वा धनिनां स्म कुमारकान् ।
अश्वत्थामाऽरुदत्तात दिशो मे दश मोहयन् ॥
न साधकोऽवसीदेत वर्तमानस्स्वकर्मसु ।
अगच्छमभिजानंस्तानहं देशान्बहूनपि ॥
अविलोपेन धर्मस्य सततं धर्मसंस्थितम् ।
अयाचित्वा परिक्रामन्नाध्यगच्छं धनं क्वचित् ॥
अथ पिष्टोदकेनैव लोभयं वै कुमारकम् ॥
पीत्वा पिष्टोदकं तच्च मातृदत्तं प्रियेण च ।
अनभिज्ञक्षीररसो नृत्यति प्रहसन्मुहुः ॥
सवयोभिः कुमारैश्च पीतक्षीरोहमित्यसौ ॥
तं दृष्ट्वा कश्मलं घोरं तत्र मामन्वपद्यत ॥
द्रोणं धिगस्त्वधनिनं यो धनं नाधिगच्छति ॥
क्षीरारसज्ञः क्षरमिति पीत्वा पिष्टिं प्रनृत्यति ॥
अश्वत्थामापि धिङ्मातुर्यत्पयो नाधिगच्छति ॥
इति सम्भाषतां वाचं श्रुत्वा मे बुद्धिरच्यवत् ।
आत्मानं चात्मना गर्हन्मनसेदं व्यचिन्तयम् ॥
अपि नाहं पुरा विप्रैर्वर्जितां गर्हितां भृशम् ।
परोपसेवां पापिष्ठां आचरेयं धनाशया ॥
इति मत्वा प्रियं पूर्वं वक्तारं सूनृतां गिरम् ।
पूर्वं सङ्गतसंसिद्धं सदारस्सोमकं गतः ॥
अभिषिक्तं च श्रुत्वैनं कृतार्थोऽस्मीति चिन्तयन् ।
प्रियं सखायं सुप्रीतो राज्यस्थं समुपागमम् ॥
संस्मरन्सङ्गतं चैव वचनं चैव तस्य तत् ।
ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो ॥
अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति ॥
उपस्थितं तु द्रुपदस्सखिवच्चाभिसङ्गतम् ।
स मां निराकारमिव प्रहसन्निदमब्रवीत् ॥
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी ।
यदात्थ मां त्वं प्रहसन्सखा तेऽहमिति द्विज ॥
न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित् ।
सख्यं भवति मन्दात्मञ्छ्रिया हीनैर्धनच्युतैः ॥
नाश्रोत्रियश्श्रोत्रियस्य नारथी रथिनस्सखा ।
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥
द्रुपदेनैवमुक्तोऽहं मन्युनाऽभिपरिप्लुतः ।
अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थिगुणान्वितैः ॥
वैशम्पायनः-
पौत्रानादाय तान्सर्वान्वसूनि विविधानि च ॥
प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैस्सह ।
शिष्या इति ददौ राजन्द्रोणाय विधिपूर्वकम् ।
स च शिष्यान्महेष्वासः प्रतिजग्राह कौरवान् ॥
प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् ।
रहस्येतान्प्रतीतात्मा कृतोपसदनांस्तथा ॥
द्रोणः-
वैशम्पायनः-
कार्यं मे काङ्क्षितं किञ्चिद्धृदि संपरिवर्तते ।
कृतास्त्रैस्तत्प्रदेयं मे तद्द्रुतं वदतानघाः ॥
तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशाम्पते ॥
अर्जुनस्य ततस्सर्वं प्रतिज्ञे परन्तप ॥
ततोऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः ।
प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा ॥
अश्वत्थामानमाहूय द्रोणो वचनमब्रवीत् ।
सखायं विद्धि ते पार्थं मया दत्तं प्रगृह्यताम् ॥
साधु साध्विति तं प्राज्ञः परिष्वज्येदमब्रवीत् ॥
अद्यप्रभृति विप्रेन्द्र परवानस्मि धर्मतः ।
शिष्योऽहं त्वत्प्रसादेन जीवामि द्विजसत्तम ॥
इत्युक्त्वा तु तदा पार्थः पादौ जग्राह पाण्डवः ॥
ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च ।
ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् ॥
राजपुत्रास्तथैवान्ये समेत्य भरतर्षभाः ।
अभिजग्मुस्ततो द्रोणमस्त्रार्थं द्विजसत्तमम् ॥
वृष्णयश्चान्धकारैश्च नानादेश्याश्च पार्थिवाः ।
सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा ॥
दुर्योधनमुपाश्रित्य पाण्डवानत्यमन्यत ॥
स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः ।