वैशम्पायनः-
ततो द्रुपदमागत्य भारद्वाजः प्रतापवान् ।
अब्रवीत् पुरुषव्याघ्रं सखायं विद्धि मामिति ॥
इत्येवमुक्तस्सख्या स प्रीतिर्पूर्वं जनेश्वरः ।
भारद्वाजेन पाञ्चालो रोषात् संरक्तलोचनः |
नामृष्यत वचस्सख्युःप्रीतिपूर्वमुदाहृतम् ।|
स चैश्वर्यमदोन्मत्त इदं राजा वचोऽब्रवीत् ॥
द्रुपदः-
अकृतेयं तव प्रज्ञा ब्रह्मन् नातिसमञ्जसी ।
यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज ॥
न हि राज्ञामुदीर्णानाम् एवम्भूतैर्नरैः क्वचित् ।
सख्यं भवति मन्दात्मन् श्रिया हीनैर्धनच्युतैः |
सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यता ।|
सौहृदं मे त्वया ह्यासीत् पूर्वं सामर्थ्यवर्धनम् |
न सख्यमजरं लोके दृश्यते जातु कर्हिचित् ||
कामश्चैनं नाशयति क्रोधश्चैनं प्रमर्दति ॥
न वै जीर्णमुपातिष्ठ सख्यं नवमुपाकुरु ।
आदत्स्वैनं द्विजश्रेष्ठ सौहृदं ह्यर्थबन्धनम् ॥
न दरिद्रो वसुमतो नाविद्वान् विदुषस्सखा ।
न शूरस्य सखा क्लीबस् सखा पूर्वः किमिष्यते ॥
ययोरेव समं वित्तं ययोः प्रज्ञा ययोश्श्रुतम् ।
तयोस्सम्बन्धकं तुल्यं न तु पुष्टविपुष्टयोः ॥
नाश्रोत्रियश्श्रोत्रियस्य नारथी रथिनस्सखा ।
नाराज्ञस्सङ्गतं राज्ञस् सखिपूर्वं किमिष्यते ॥
त्वद्विधैर्मद्विधानां हि प्रहीणार्थैर्न जातु चित् |
सख्यं भवति मन्दात्मन् सखिपूर्वं किमिष्यते ॥
वैशम्पायनः-
द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् ।
मुहूर्तं चिन्तयामास मन्युनाऽभिपरिप्लुतः ॥
स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान् ।
शिष्यैः परिवृतश्श्रीमान् पुत्रेण सहितस्तदा ॥
जगाम कुरुमुख्यानां नागरं नागसाह्वयम् ।
स्यालस्यैव गृहं द्रोणस् सदारः पर्युपस्थितः ॥
अश्वत्थाम्ना च पुत्रेण महाबलवता सह ।
अवसत्तत्र राजेन्द्र गौतमस्य निवेशने ||
स कृपस्यान्तरे पार्थान् भारद्वाजः प्रतापवान् |
अस्त्राणि शिक्षयामास बुबोध च स तं कृपः |
आवासे तत्र मूढात्मा कञ्चित्कालमुवास ह ||