जनमेजयः-
वैशम्पायनः-
कृपस्यापि मम ब्रह्मन्सम्भवं वक्तुमर्हसि ।
विशेषार्थी ततो भीष्मः पौत्राणां हितकाम्यया ।
शरस्तम्बात्कथं जातः कथं चास्त्राण्यवाप्तवान् ॥
इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसम्मतान् ॥
वैशम्पायनः-
महर्षेर्गौतमस्यासीच्छरद्वान्नाम गौतमः ।
नानृषीर्नामहाभागस्तथा नानस्त्रकोविदः ।
पुत्रः किल महाराज जातः सहशरैर्विभो ॥
नावेदसत्वो विनयेत्कुरूनस्त्रे महावलान् ॥
इति सञ्चिन्त्य गाङ्गेयस्सदा भरतसत्तमः ॥
न तस्य वेदाध्ययने तथा बुद्धिरजायत ।
द्रोणाय वेदविदुषे भारद्वाजाय धीमते ।
यथाऽस्य बुद्धिरभवद्धनुर्वेदे परन्तप ॥
पाण्डवान्कौरवांश्चैव ददौ शिष्यान्नरर्षभ ॥
अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मवादिनः ।
शास्त्रतः पूजितश्चैव सम्यक्तेन महात्मना ।
तथा स तपसोपेतस्सर्वाण्यस्त्राण्यवाप ह ॥
स भीष्मेण महाभागस्तुष्टोऽस्त्रविदुषां वरः ॥
धनुर्वेदं पठित्वा च तपसा विपुलेन च ।
प्रतिजग्राह तान्सर्वाञ्शिष्यत्वेन महायशाः ।
भृशं सन्तापयामास देवराजं स गौतमः ॥
शिक्षयामास च द्रोणो धनुर्वेदमशेषतः ॥
ततो जालवतीं नाम देवकन्यां सुरेश्वरः ।
तेऽचिरेणैव कालेन सर्वशस्त्रविशारदाः ।
प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव ॥
बभूवुः कौरवा राजन् ! पाण्डवाश्चामितौजसः ॥
जनमेजयः-
साऽभिगम्याऽऽश्रमं तस्य रमणीयं शरद्वतः ।
कथं समभवद्द्रोणः कथं चास्त्राण्यवाप्तवान् ।
धनुर्बाणधरं बाला लोभयामास गौतमम् ॥
कथं चागात्कुरून्ब्रह्मन् ! कस्य पुत्रः स वीर्यवान् ॥
तामेकवसनां दृष्ट्वा गौतमो ऽप्सरसं वने ।
कथं चास्य सुतो जातस्सोश्वत्थामाऽस्त्रवित्तमः ।
लोकेऽप्रतिमसंस्थानां उत्फुल्लनयनोऽभवत् ॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण प्रकीर्तय ॥
वैशम्पायनः-
धनुश्च हि शरास्तस्य कराभ्याम्प्रापतन् भुवि ।
गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः ।
वेपथुश्चास्य सहसा शरीरे समजायत ॥
भरद्वाजो महाप्राज्ञस्सततं संशितव्रतः ॥
स तु ज्ञानगरीयस्त्वात्तपसश्च समन्वयात् ।
सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागमन्नदीम् ॥
अवतस्थे महाप्राज्ञो धैर्येण परमेण ह ॥
यस्तस्य सहसा राजन्विकारस्समजायत ।
महर्षिस्तु भरद्वाजो हविर्धाने चरन्पुरा ।
तेन सुस्राव रेतोऽ स्य स च तन्नान्वबुध्यत ॥
ददर्शाप्सरसं साक्षाद्घुताचीमाप्लुतामृषिः ॥
रूपयौवनसम्पन्नां मददृप्तां मदालसाम् ॥
तं विहायाश्रमं चापि तां चैवाप्सरसं मुनिः ।
तस्या वायुस्समुद्धूतो वसनं व्यपकर्षत ।
जगाम रेतस्तत्तस्य शरस्तम्बे पपात ह ॥
अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे तदा ॥
शरस्तम्बे च पतितं द्विधा तदभवन्नृप ॥
तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः ।
तत्र संसक्तमनसो भरद्वाजस्य धीमतः ।
महर्षेर्गौतमस्यास्य आश्रमस्य समीपतः ॥
हृष्टस्य रेतः प्रस्कन्द तदृषिर्द्रोण आदधे ॥
मृगयां चरतो राज्ञश्शान्तनोस्तु यदृच्छया ॥
ततस्समभवद्द्रोणः कुमारस्तस्य धीमतः ।
कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत ।
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥
धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च ॥
भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः ।
व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य ह ।
तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः ।
स राज्ञे दर्शयामास मिथुनं सशरं तदा ॥
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥
स तदादाय मिथुनं राजा च कृपयान्वितः ।
ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् ।
आजगाम गृहानेव मम पुत्राविति ब्रुवन् ॥
पञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः ॥
ततः संवर्धयामास संस्कारैश्चाप्ययोजयत् ।
भरद्वाजोऽपि भगवानारुरोह दिवं तदा ॥
कृपया परया बालाविमौ संवर्धिताविति ॥
तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः ।
ततः पितृनियुक्तात्मा पुत्रलोभाद्यशस्विनीम् ।
तस्मात्कृप इति ख्यातः कृपी कन्या च साऽभवत् ॥
शारद्वतीं तदा द्रोणः कृपीं भार्यामविन्दत ॥
अग्निहोत्रे च धर्मे च दमे च सततं रताम् ॥
पितापि गौतमस्तत्र तपसा समविन्दत ।
अलभद्गौतमी पुत्रमश्वत्थामानमच्युतम् ॥
आगत्य तस्मै गोत्रादि सर्वमाख्यातवांस्तदा ॥
कृपोऽपि च तदा राजन्धनुर्वेदपरोऽभवत् ।
स जातमात्रो व्यनदद्यथैवोच्चैश्श्रवा हयः ।
चतुर्विधं धनुर्वेदमस्त्राणि विविधानि च ॥
तच्छ्रुत्वाऽन्तर्हितं भूतमन्तरिक्षस्थमब्रवीत् ॥
निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा ।
अश्वस्येवास्य यद्ध्मानं नदतः प्रदिशो गतम् ।
सोऽचिरेणैव कालेन परमाचार्यतां गतः ॥
अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति ॥
कृपमाहूय गाङ्गेयस्तव शिष्या इति ब्रुवन् ।
सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् ॥
पौत्रान्परिसमाधाय कृपमाराधयत्तदा ॥
तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत् ।
ततोऽधिजग्मुस्सर्वे ते धनुर्वेदं महारथाः ।
स शुश्राव महात्मानं जामदग्न्यं परन्तपम् ॥
धृतराष्ट्रात्मजाश्चैव पाण्डवाश्च महाबलाः ॥
ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः ॥
वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः ।
स रामस्य धनुर्वेदे दिव्येषु विविधेषु च ।
कृपमाचार्यमासाद्य परमास्त्रज्ञतां गताः ॥
दिव्यास्त्रेषु मतिं चक्रे नीतिशास्त्रेषु कौशलम् ॥
ततस्समनसैर्व्रतिभिस्तपोयुक्तैर्महातपाः ।
ततो प्रायान्महाबाहुर्महेन्द्रं वसुधाधरम् ॥
ततो महेन्द्रमासाद्य भारद्वाजो महातपाः ।
क्षत्रघ्नं तममित्रघ्नमपश्यद्भृगुनन्दनम् ॥
स रामायात्मनो नाम जन्म चाङ्गिरसे कुले ।
निवेद्याङ्गिरसो भूमौ पादास्याभ्यवादयत् ॥
तमब्रवीन्महातेजा क्षत्रहा विप्रसत्तमः ॥
स्वागतं कुशलं तेऽस्तु किमिच्छसि महाद्युते ॥
वैशम्पायनः-
आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ ॥
एवमुक्तस्स रामेण भारद्वाजोऽब्रवीद्द्विजः ।
रामः-
हिरण्यं पशवो रौप्यं यद्वाऽन्यद्वसु किञ्चन ।
ब्राह्मणेभ्यो मया दत्तं सर्वमेव तपोधन ॥
तथैवेयं धरा देवी सागरान्ता सपर्वता ।
काश्यपाय मया दत्ता कृत्स्ना नगरमालिनी ॥
शरीरमात्रमेवाद्य ममेदमवशेषितम् ।
अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च ॥
अस्त्राणि वा शरीरं वा ब्रह्मञ्छस्त्राणि वा पुनः ।
वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् ॥
द्रोणः-
अस्त्राणि मे समन्त्राणि ससंहाराणि भार्गव ।
स प्रयोगरहस्यानि दातुमर्हस्यशेषतः ॥
एतद्वसु वसूनां हि सर्वेषां विप्रसत्तम ॥
वैशम्पायनः-
तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः ।
सरहस्यव्रतं चैव धनुर्वेदमशेषतः ॥
प्रतिगृह्य तु तत्सर्वं कृतार्थो द्विजसत्तमः ।
प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति ॥ ॥